Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 1 - Present Tense forms of Atmanepadi Dhatus

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - प्रथमः पाठः - आत्मनेपदिनः धातवः - लट्लकारः

We learn about........

The goal of this lesson is …..
  • To learn the present tense Atmane padi forms. अस्मिन् पाठे वयम् केषाञ्चन आत्मनेपदी-धातूनां लट्-लकार-रूपाणि पठामः।

गुरुः in Bharathiya Sampradaya is not merely the icon of knowledge but he is God incarnate. We start the first lesson in Module 3 prostrating गुरुः.

गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः।
गुरूर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः ।।

आत्मनेपदिनः धातवः

Let us now read a story we are all familiar with in Samskritam.

नगरस्य समीपे उद्यानं शोभते। उद्याने एकस्मिन् वृक्षे कश्चित् काकः वर्तते। तं पिपासा बाधते।
काकः जलम् अन्विष्यन् आकाशे सर्वत्र डयते। सः कस्मिन्चित् स्थले एकं घटं ईक्षते।
सन्तोषेन काकः घटस्य उपरि आस्ते। अहो! कीदृशं दौर्भाग्यम्। घटस्य अधो भागे एव किञ्चित् जलं विद्यते। काकेन जलं पातुं न शक्यते। काकः दुःखितः वर्तते। तत्र घटं परितः बहून् शिलाखण्डाः वर्तन्ते।
काकः जलं पातुम् एकं उपायं लभते। सः एकम् एकं शिलाखण्डं स्वीकृत्य घटे क्षिपते। जलम् उपरि आगच्छति। जलं पीत्वा काकः सन्तुष्टः वर्ततेः। पुनः आकाशं प्रति सन्तोषेण उड्डयते।

शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
पिपासितःपिपासायुक्तः Thirstyअकारान्तः पुल्लिङ्गः 'पिपासित' शब्दः
प्रथमा एकवचनम्
पिपासातृष्णा – Thirstआकारान्तः स्त्रीलिङ्गः 'पिपासा' शब्दः
प्रथमा एकवचनम्
अन्विष्यन्Looking forतकारान्तः पुल्लिङ्गः 'अन्विष्यत्' शब्दः
प्रथमा एकवचनम्
कीदृशम्What a ___अकारान्तः नपुंसकलिङ्गः 'कीदृश' सर्वनामशब्दः
प्रथमा एकवचनम्
किञ्चित्a littleअव्ययम्
शोभतेभाति – Shines (Being beautiful)'शुभ्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
बाधतेपीडयति – Make someone suffer'बाध्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
डयतेFlies'डी' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
ईक्षतेपश्यति - Sees'ईक्ष्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
आस्तेउपविशति - Sits'आस्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
वर्ततेअस्ति – There is'वृत्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
शिलाखण्डान्Stonesअकारान्तः पुल्लिङ्गः 'शिलाखण्ड' शब्दः
द्वितीया बहुवचनम्
लभतेप्राप्नोति - Gets'लभ्' आत्मनेपदी-धातुः लट् प्रथमपुरुषः एकवचनम्
क्षिपतेTo throw'क्षिप्' उभयपदी-धातुः लट् प्रथमपुरुषः एकवचनम्

क्रियापदानि in the entire story are shown highlighted. What do they all have in common? They are all present tense forms of आत्मनेपदिनः धातवः. We already learned in Module 2, that Root verbs (धातवः) are of three types, परस्मैपदी, आत्मनेपदी and उभयपदी. For the sake of simplicity we sticked mostly to परस्मैपदिनः धातवः in our previous module. From now on, we come frequently across आत्मनेपदी and उभयपदी forms in the lessons in this module.

We start each lesson with Kalidasa’s sloka on पार्वतीपरमेश्वरौ. The principal part of the sloka is ‘(अहम्) पार्वतीपरमेश्वरौ वन्दे’ meaning I worship Parvathi and Parameshwara. We hence start this lesson also auspiciously with the present tense forms of वन्द् – धातुः which is an आत्मनेपदी धातुः.

आत्मनेपदी वन्द् धातुः – लटि
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवन्दते
सः वन्दते
वन्देते
तौ वन्देते
वन्दन्ते
ते वन्दन्ते
मध्यमपुरुषःवन्दसे
त्वं वन्दसे
वन्देथे
युवां वन्देथे
वन्दध्वे
यूयं वन्दध्वे
उत्तमपुरुषःवन्दे
अहं वन्दे
वन्दावहे
आवां वन्दावहे
वन्दामहे
वयं वन्दामहे

‘अहम् ‘(अहम्) पार्वतीपरमेश्वरौ वन्दे’ इति वाक्ये कर्मपदं 'पार्वतीपरमेश्वरौ' अस्ति।

Let us also list the general present tense endings for आत्मनेपदी forms.

लटि आत्मनेपदप्रत्ययान्ताः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतेइतेअन्ते
मध्यमपुरुषःसेइथेध्वे
उत्तमपुरुषःवहेमहे

We now list a number Atmanepada forms for you to learn and keep as reference. For each dhatu, only प्रथमपुरुषः forms and one example (in any Purusha and Vachana) are given. You may practice writing other forms using वन्द् धातुः forms as model. Please also try to form different sentences. Click each Dhatu to view all nine लट् forms of that Dhatu.

आत्मनेपदीनां धातूनां प्रथमपुरुष-रूपाणि
धातुःEnglish Meaningएकवचनम्द्विवचनम्बहुवचनम्
वृत्To beवर्ततेवर्तेतेवर्तन्ते
इदानिं वयं सर्वे प्रकोष्टे वर्तामहे।
We are all in the room now.
मन्To thinkमन्यतेमन्येतेमन्यन्ते
वर्षा अस्ति इति अहं मन्ये।
I think it rains.
कम्प्To shake
To shiver
कम्पतेकम्पेतेकम्पन्ते
बालकः भयात् कम्पते।
भाष्To explain
To speak
भाषतेभाषेतेभाषन्ते
अभिवक्ता न्यायालये भाषते।
अभिवक्ता - Advocate
सह्To bear
To tolerate
सहतेसहेतेसहन्ते
राज्ये प्रजाः कष्टानि सहन्ते
स्पर्ध्To compete
To rival
स्पर्धतेस्पर्धेतेस्पर्धन्ते
प्रथमस्थानार्थं द्वे छात्रे स्पर्धेते।
ईक्ष्To see
To view
ईक्षतेईक्षेतेईक्षन्ते
दुर्योधनः पाण्डव-सैन्यम् ईक्षते।
क्षम्To forgiveक्षमतेक्षमेतेक्षमन्ते
त्वं क्षमसे।
बाध्To torment
To infect
बाधतेबाधेतेबाधन्ते
ज्वरः शिशुं बाधते
लज्ज्To be shy
To be ashamed
लज्जतेलज्जेतेलज्जन्ते
यूयं लज्जध्वे।
You all are ashamed.
यत्To tryयततेयतेतेयतन्ते
अहं उद्योगं प्राप्तुं यते।
I try to get a job.
श्लाघ्To praiseश्लाघतेश्लाघेतेश्लाघन्ते
जनाः तस्य सामर्थ्यं श्लाघन्ते।
शङ्क्To doubt
To suspect
शङ्कतेशङ्केतेशङ्कन्ते
वयं तव उद्धेशं शङ्कामहे।
We doubt his intention.
शुभ्To glow
To appear beautiful
शोभतेशोभेतेशोभन्ते
आकाशे चन्द्रः शोभते।
कूर्द्To jumpकूर्दतेकूर्देतेकूर्दन्ते
बालकाः नद्यां कूर्दन्ते।
युध्To fightयूध्यतेयुध्येतेयुध्यन्ते
वाली-शुग्रीवौ युध्येते।
सेव्To serveसेवतेसेवेतेसेवन्ते
युवां राष्ट्रं सेवेथे।
You two serve the nation.
त्रैTo protectत्रायतेत्रायेतेत्रायन्ते
ईश्वरः अस्मान् त्रायते।
God protecs us.
मुद्To be happy
To rejoice
मोदतेमोदेतेमोदन्ते
यूयं मोदध्वे।
You all rejoice.
प्लुTo floatप्लवतेप्लवेतेप्लवन्ते
नद्यां पुष्पाणि प्लवन्ते।
भिक्ष्To begभिक्षतेभिक्षेतेभिक्षन्ते
किमर्थं त्वं भिक्षसे?
वृध्To growवर्धतेवर्धेतेवर्धन्ते
वृक्षाः उन्नताः वर्धन्ते।
खिद्To be sadखिद्यतेखिद्येतेखिद्यन्ते
त्वम किमर्थं खिद्यसे?
अप + ईक्ष्To expectअपेक्षतेअपेक्षेतेअपेक्षन्ते
आवां भवतः आगमनं न अपेक्षावहे।
We two do not expect your coming.

उभयपदिनः धातवः

We have already seen ‘कृ’ धातुः is उभयपदी as it takes both आत्मनेपदम् and परस्मैपदम् endings. ‘कृ’ धातुः assumes special forms with both Parasmeipada and Atmanepada endingins.

कृ धातोः परस्मैपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्वन्ति
मध्यमपुरुषःकरोषिकुरुथःकुरुथ
उत्तमपुरुषःकरोमिकुरुवःकुरुमः

कृ धातोः आत्मनेपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकुरुतेकुर्वातेकुर्वते
मध्यमपुरुषःकुरुषेकुर्वाथेकुरुध्वे
उत्तमपुरुषःकुर्वेकुर्वहेकुर्महे

‘ज्ञा’ धातुः (to know) when used without Upasarga takes Atmanepada forms as well. We have already seen the Parasmeipadi forms of 'ज्ञा’ धातुः in the lesson on विशेष-क्रियापदानि. We now list the Atmanepadi forms of ‘ज्ञा’ धातुः.

ज्ञा धातोः परस्मैपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानातिजानितःजानन्ति
मध्यमपुरुषःजानासिजानीथःजानीथ
उत्तमपुरुषःजानामिजानीवःजानीमः

ज्ञा धातोः आत्मनेपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानीतेजानातेजानते
मध्यमपुरुषःजानीषेजानाथेजानीध्वे
उत्तमपुरुषःजानेजानीवहेजानीमहे

‘भुज्’ (to enjoy something) is another उभयपदी धातुः which takes special forms with Parasmeipada and Atmanepada endings.

भुज् धातोः परस्मैपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभुनक्तिभुङ्क्तःभुञ्जन्ति
मध्यमपुरुषःभुनक्षिभुङ्क्थःभुङ्क्थ
उत्तमपुरुषःभुनज्मिभुञ्ज्वःभुञ्ज्मः

भुज् धातोः आत्मनेपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभुङ्क्तेभुञ्जातेभुञ्जते
मध्यमपुरुषःभुङ्क्षेभुञ्जाथेभुङ्ग्ध्वे
उत्तमपुरुषःभुञ्जेभुञ्ज्वहेभुञ्ज्महे

‘पच्’ धातुः' 'धाव् धातुः' 'नी (नय) धातुः' and 'क्षिप् धातुः' are few other known उभयपदी धातुः. They assume common forms both with Atmanepada and Parasmeipada endings.

आत्मनेपद-विशेषक्रियारूपाणि

We list the verb forms of two more Atmanepadi Dhatus which do not assume regular kriya forms.

शी (to sleep) धातोः आत्मनेपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशेतेशयातेशेरते
मध्यमपुरुषःशेषेशयाथेशेध्वे
उत्तमपुरुषःशयेशेवहेशेमहे

अधि + ई (to study) धातोः आत्मनेपद-क्रियारूपाणि (लट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअधीतेअधीयातेअधीयते
मध्यमपुरुषःअधीषेअधीयाथेअधीध्वे
उत्तमपुरुषःअधीयेअधीवहेअधीमहे

उपसर्गे युक्ते पद-परिवर्तनम् – Pada change with Upasarga

When we learned about उपसर्गाः verb prefixes in module 2, we saw that sometimes the Pada of the verb root changes with the presence of some Upasargas.
Let us first look at few परस्मैपदिनः धातवः and see how the forms change with some उपसर्गाः.

उपसर्गःपरस्मैपदी धातुःपरस्मैपद-क्रियापदम्उपसर्गयुक्त-आत्मनेपद-क्रियापदम्
निस् / निर् विश्
To enter
विशतिनिविशते (To disappear)
अभिनिविशते (To devote oneself entirely)
परि / वि / अव् क्री
To sell
क्रीणातिपरिक्रीणीते (to reward, to compensate)
विक्रीणीते (to sell)
अवक्रीणीते (to bribe)
वि / पराजी
To win
जयतिविजयते (To win)
पराजयते (To lose)
सम् / अव / प्र / वि स्था
To stand
तिष्ठतिसन्निष्ठते
अवतिष्ठते
प्रतिष्ठते
वितिष्ठते

Now look at the change from आत्मनेपदी to परस्मैपदी form.

उपसर्गःआत्मनेपदी धातुःआत्मनेपद-क्रियापदम्उपसर्गयुक्त-परस्मैपद-क्रियापदम्
वि / आ / परिरम्
To enjoy
रमतेविरमति
आरमति
परिरमति

पदविश्लेषणम्

Let us now learn how the relationship between the words in a sentence is understood by analysing the story we have at the beginning of this lesson.

नगरस्य समीपे उद्यानं शोभते।

अस्मिन् वाक्ये क्रियापदम् अस्ति ‘शोभते’।
In the above sentence the verb form is ‘शोभते’.

शोभते – आत्मनेपदी ‘शुभ्’ धातुः लट् प्रथमपुरुष-एकवचनम्

Let us now see how the other verbs are related to verb form in the sentence.इतर-पदानि क्रियापदेन कथम् अन्वयन्ति इति पश्याम।

आकाङ्क्षाउत्तरम्पदपरिचयः
किम् शोभते?उद्यानं शोभते.उद्यानं – कर्तृपदम् – Subject अकारान्तः नपुंसकलीङ्ग-उद्यानशब्दः प्रथमा विभपक्तिः एकवचनम्
कुत्र उद्यानं शोभते?समीपे उद्यानं शोभते।समीपे - अकारान्तः नपुंसकलीङ्ग-समिपशब्दः – सप्तमी विभक्तिः एकवचनम्
कस्य समीपे उद्यानं शोभते?नगरस्य समीपे उद्यानं शोभते।नगरस्य - अकारान्तः नपुंसकलीङ्ग-नगरशब्दः षष्ठी विभक्तिः एकवचनम्.

This way, by asking questions we can clearly understand the sentence and sentence parts. This method of analysing words in a sentence is popularly known as आकाङ्क्षा पद्दतिः (आकाङ्क्षा - Expecting) Identifying Vibhakti forms in sentences also helps us to recollect and remember the Shabdha forms.

We leave the analysis of the other sentences to you. Please post your doubts as comments after logging in. Else send in an eMail to samskrit@samskritaveethy.com. Let us now end this lesson as usual with practice questions.

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the story. कथासम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. काकः कुत्र वर्तते?
    2. तं (काकं) का बाधते?
    3. जलम् अन्विष्यन् काकः किं कुरुते?
    4. काकः किमर्थं दुःखितः वर्तते?
    5. अन्ते सः कथं जलं पिबति?

  2. Write suitable Kriyapadam for the Dhatu given. दत्तस्य धातोः उचितं क्रियापदं लिखत।

    उदाहरणम्-

    मन् धातुः – उत्तमपुरुषः एकवचनम्
    मन्ये


    1. लज्ज् धातुः – मध्यमपुरुषः द्विवचनम्
    2. मृ (म्रिय) धातुः – प्रथमपुरुषः एकवचनम्
    3. द्युत् (द्योत) धातुः – प्रथमपुरुषः बहुवचनम्
    4. विद् (विद्य) धातुः - उत्तमपुरुषः बहुवचनम्
    5. ईक्ष् धातुः – उत्तमपुरुषः एकवचनम्
    6. ऊह् धातुः – मध्यमपुरुषः बहुवचनम्
    7. वि + जि धातुः – प्रथमपुरुषः द्विवचनम्
    8. कृ धातुः – मध्यमपुरुषः द्विवचनम्
    9. ज्ञा धातुः – उत्तमपुरुषः द्विवचनम्
    10. त्रै धातुः - उत्तमपुरुषः एकवचनम्
  3. Fill in the blanks with suitable Atmanepada Kriyarupani. उचितैः आत्मनेपद-क्रियापदैः रिक्तस्थानानि पूरयन्तु।

    उदाहरणम्-

    वयं भारतमातरं _______ (वन्द्).
    वयं भारतमातरं वन्दामहे।


    1. अद्य साहित्य-सभायां मम मित्राणि _______ (भाष्).
    2. प्रायः विवादः कलहं ______. (जन् → जनय (णिजन्त-धातुः) to give birth to, to cause to happen)
    3. पाण्डवाः कष्टं ______(सह्).
    4. आवां सर्वम् _____ (ईक्ष्).
    5. यूयं किमर्थं _____ (मुद्).
    6. वयं वेतनं _______ (लभ्).
    7. नृपः जनान् ______ (त्रै).
    8. उद्याने सस्यानि सम्यक् ______ (वर्ध्).
    9. त्वं मां अधिकं ______ (श्लाघ्).
    10. अहं सङ्कणकानि ______ (वि + क्री).
  4. Translate into Samskritam using Atmanepadi verb forms. आत्मनेपद-क्रियापदं योजयित्वा संस्कृते अनुवादं कुरुत।
    1. Ramesh gets wealth from father. (Wealth – धनम्)
    2. Students rejoice.
    3. The two brothers talk to the teacher.
    4. God protects us all.
    5. Mother cooks food for us.
    6. Why do you beg for money? (to beg - याच्)
    7. We look at the jewels.
    8. He is sad on the death of his father. (Death – मृत्युः On death – मृत्यौ (सप्तमी)
    9. Friends praise his performance in the match. (match – स्पर्धा performance- प्रदर्शनम्)
    10. You win over me.
  5. Rewrite the story पिपासितः काकः using परस्मैपदी-क्रियारूपाणि. पिपासितः काकः इति कथां परस्मैपदी-क्रियारूपैः परिवर्तनं कृत्वा लिखत।

उत्तराणि पश्यतु! - Show Answers       

We will be coming across more Atmanepadi forms in this module. We will also be pointing out these forms mentioning the dhatu in lessons to come. Knowing the Atamanepada endings for all Lakharas is indispensable to write the sentnces in Passive voice, which we will be learning in a lesson to follow.

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


In module 2 we learned the Vibhakthi forms of अजन्ताः शब्दाः, that is the vowel ending nouns. We do know many names that do not end in a vowel like भगवान्, हनुमान् to list a few. Our next few lessons show the Vibhakthi forms of हलन्ताः शब्दाः, base nouns with consonant ending. Our next lesson starts with हलन्त-पुल्लिङ्ग-शब्दाः
Lesson 2 Halantha Pullinga Shabdas - हलन्ताः पुल्लिङ्गाः शब्दाः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...