Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 10 - Past Tense forms of Atmanepadi Dhatus

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - दशमः पाठः - आत्मनेपदिनः धातवः - लङ्लकारः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • to teach the “लङ्” भूतकालिक (Past tense) forms of Atmanepadi Dhatus. एतस्मिन् पाठे वयम् आत्मनेपदिनां धातूनां लङ्-लकार-रूपान् पठामः।

We are all familiar with the first sloka of Bhagavat Geeta, where Dhrutarashtra asks Sanjaya,

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।

मामकाः पाणडवाः च एव किम् अकुर्वत इति धृतराष्ट्रः सञ्जयम् अपृच्छत्। The King asked Sajaya, “What did my people and Pandavas did in Kurkshetra?” The verb form used is अकुर्वत which is the प्रथमपुरुष-बहुवचन-आत्मनेपदरूपम् of कृ-धातुः. In this lesson we learn about लङ् forms of Atmanepadi Dhatus. अस्माकं रीतिम् अनुसृत्य एषः पाठः प्रार्थना-श्लोकेन आरभ्यते। We first pray to Lord Hanuman to give us the powers of Intellect and Will to continue our learning journey.

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतम् शरणं प्रपद्ये।।

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्।।

“I take Refuge in Sri Rama’s envoy, Who is Swift as Mind and Fast as Wind, Who is the Master of the Senses and Honoured for His Excellent Intelligence, Learning and Wisdom, Who is Son of the Wind God and Chief among the Monkeys."
"May there be Intellect, Strength, Fame, Courage, Fearlessness, Free from Illness, Agility and Eloquence by remembering Hanuman!“

इदानीं काव्यनायिकायाः कण्णग्याः कथा उपस्थापयाम। We now present the story of Kannagi, the epic heroine where we find sentences which demonstrate the use of आत्मनेपद-लङ् forms



कथा कण्णग्याः

पुरा चोलदेशस्य राजधान्यां काविरीपूम्पट्टिणे मानायकन् नामना प्रसिद्धः वणिक् नाविकपतिः च वसति स्म। कण्णगी तस्य प्रिया पुत्री आसीत्। तस्मिन् नगरे एव मासात्तुवान् इति अन्यः सम्पन्नः वणिक् नाविकपतिः अपि अवर्तत। तस्य पुत्रस्य नाम कोवलन्। प्राप्ते वयसि कण्णगीकोवलनोः विवाहः सम्पन्नः। दम्पतिः वैवाहिकजीवनम् सुखेन अमोदेताम्।
कोवलने सङ्गीतं च नाट्यकलां च बहुदा अरोचत। सः मादव्याः नाट्यम् एकवारम् अलोकत। तस्याः सौन्दर्येन आकर्षितवान् कोवलन् तस्याः सह जीवितुं अकामयत। स्वकुटुम्भं, पैतृकं वाणिज्यं च अवगणय्य कोवलन् मादव्याम् स्वजीवितं पूर्णतया अर्पितवान्।
अन्ते, स्वसम्पत्तीं मान्यतां च विनष्टः सन् मादव्याः अपि व्ययुङ्क्त। पुनरागतं कोवलनम् कण्णगी न अकुत्सयत। परन्तु आत्मधैर्यं अदत्त। कोवलन्, स्वनगरं त्यक्तवा अन्यत्र कुत्राऽपि गत्वा एकं नूतनं जीवितं पुनः आरम्भितुम् ऐच्छत्। कण्णग्या सह मदुरै नगरं प्राप्तवान्।
मदुरै पाण्ड्यराज्यस्य राजधानी अवर्तत। तत्र नूतनं व्यापारम् आरब्धुं कोवलन् निर्णीतवान्। तत्कृते धनं सञ्जनयार्थं कण्णग्याः पादनालिका-युग्मात् एका विक्रेतुं निश्चयं अकुरुत। ते सदृशे पादनालिके पाण्ड्यराज्ञ्याः गुल्फौ अलङ्कृते अवर्तेताम्। तयोः एकां समीकरणार्थं पाण्ड्यराजन् प्रसाद-स्वर्णकाराय दत्तवान् आसीत्। सः स्वर्णकारः पादनालिकां स्वयं अपहृत्य, ता चौरगता इति राजानं निवेदितवान् अभवत्।
एतस्मिन् अन्तरे कोवलन् तम् स्वर्णकारं उपसृत्य कण्णग्याः पादनालिकां दर्शयित्वा तां विक्रेतुं विवक्षां प्रकटितवान्। तत् सन्दर्भम् उपयुज्य सः वञ्चकः धनानयन-व्याजेन राजानं मेलित्वा आभरणचोरः गृहीतः इति अब्रूत। राजा अपि विचारणं विना चोरः हन्यताम् इति आज्ञापयत। राजभटाः अपि कोवलनं मारितवन्तः।
पत्युः हननं श्रृत्वा कण्णगी स्वपतेः निरपराधं राजानं बोधितुं उद्युक्ता। कण्णग्याः पादनालिकायां अन्ते माणिक्य-कणाः अवर्तन्त। राज्ञ्योः पादभूषणे तु मुक्ताफलानि। कण्णगी स्ववशे स्थितां पादनालिकां स्फोटित्वा तत् सत्यं सर्वान् अबोधयत्। यथा राजन् राज्ञ्याः पादनालिका-द्वयं स्फोटितवान्, तस्मिन् एका माणिक्यन्तर्भूता आसीत्। राजन् आत्मानं चोरः इति घोषयन् प्राणत्यागं अकुरुत। कण्णगी आत्मनः पातिव्रत्यबलेन मदुरै नगरं अज्वलत्। दैवत्वम् अपि अप्राप्णोत्।

आत्मनेपद-लङ् forms are highlighted in Yellow in the story. Let us now analyze the new words and word forms we come across in the story.

शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
नाविकपतिःनाविकानाम् स्वामी
Owner of ships
इकारान्तः पुल्लिङ्गः “नाविकपति” शब्दः
प्रथमा एकवचनम्
सम्पन्नःधनवान्
Rich Man
अकारान्तः पुल्लिङ्गः “सम्पन्न” शब्दः
प्रथमा एकवचनम्
अवर्ततआसीत्
Was
‘वृत्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुष एकवचनम्
सम्पन्नःअभवत्
Took place
अकारान्तः पुल्लिङ्गः “सम्पन्न” शब्दः
प्रथमा एकवचनम्
कृदन्तं पदम्
दम्पतिःCoupleइकारान्तः ‘दम्पति’ शब्दः
नित्यद्विवचनम्
Always used in dual case.
प्रथमा द्विवचनम्
अमोदेताम्आनन्दम् अन्वभवताम्
Enjoyed
‘मुद्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुषः द्विवचनम्
अरोचतइष्टम् आसीत्
Liked
‘रुच्’ आत्मनेपदी धातुः
प्रथमपुरुषः एकवचनम।
कर्तृपदम् चतुर्थी-विभक्तौ भवति।
अलोकतअपश्यत्
Saw
‘लोक्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुष एकवचनम्
अकामयतऐच्छत्
desired
‘कम्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुष एकवचनम्
पैतृकंAncestralअकारान्तः नपुंसकलिङ्गः ‘पैतृक’ शब्दः
प्रथमा एकवचनम्
स्वसम्पत्तींस्वविभवः
One’s wealth
ईकारान्तः स्त्रीलिङ्गः ‘सम्पत्ती’ शब्दः
द्वितीया एकवचनम्
व्ययुङ्क्तनिर्मुक्तः
Separated
वि +’युज्’ उभयपदी धातुः
अत्र आत्मनेपदरूपम्
लङ् प्रथमपुरुष एकवचनम्
अकुत्सयतअनिन्दत्
Reproached
‘कुत्स्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुष एकवचनम्
अदत्तअददात्
Gave
‘दा’ उभयपदी धातुः
अत्र आत्मनेपदरूपम्
लङ् प्रथमपुरुष एकवचनम्
ऐच्छत्अकाङ्क्षत्
Desired
'इष्' परस्मैपदी धातुः
लङ् प्रथमपुरुष एकवचनम्
पादनालिकाOrnament worn on ankle.आकारान्तः स्त्रीलिङ्गः ‘नालिका’ शब्दः
प्रथमा एकवचनम्
पादनालिका-युग्मात्from the pair of ankle ornaments.अकारान्तः नपुंसकलिङ्गः ‘युग्म’ शब्दः
पञ्चमी एकवचनम्
अकुरुतअकरोत्
Did
‘कृ’ उभयपदी धातुः
अत्र आत्मनेपदरूपम्
लङ् प्रथमपुरुष एकवचनम्
गुल्फौAnkles
Used as Object
अकारान्तः पुल्लिङ्गः ‘गुल्फ’ शब्दः
द्वितीया द्विवचनम्
अवर्तेताम्अभवताम्
Were (Two)
‘वृत्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुष द्विवचनम्
समीकरणार्थंTo repairअव्ययपदम्
प्रसाद-स्वर्णकारायto the royal goldsmithअकारान्तः पुल्लिङ्गः ‘स्वर्णकार’ शब्दः
चतुर्थी एकवचनम्
चौरगताStolenक्त-प्रत्ययान्तपदम्
स्त्रीलिङ्गः प्रथमा एकवचनम्
विवक्षांIntention
Used as object
आकारान्तः स्त्रीलिङ्गः ‘विवक्षा’ शब्दः
द्वितीया एकवचनम्
धनानयन-व्याजेनin pretext of bringing moneyअकारान्तः पुल्लिङ्गः ‘व्याज’ शब्दः
तृतीया एकवचनम्
अब्रूतtold‘ब्रू’ उभयपदी धातुः
अत्र आत्मनेपदरूपम्
लङ् प्रथमपुरुषः एकवचनम्
हन्यताम्To be killedकर्मणि प्रयोगे ‘हन्’ परस्मैपदधातोः
लोटि प्रथमपुरुष-एकवचनरूपम्
Verb form in passive voice
आज्ञापयतआदिशत
आज्ञां अदत्त
Ordered
‘ज्ञा’ उभयपदी धातुः
अत्र आत्मनेपदरूपम्
लङ् प्रथमपुरुषः एकवचनम्
राजभटाःराजसेवकाः
Guards
अकारान्तः पुल्लिङ्गः ‘भट’ शब्दः
प्रथमा बहुवचनम्
उद्युक्ताBe ready forउत् + युज् धातुः + क्त प्रत्ययः
क्त-प्रत्ययान्तः कृदन्तः पदः
आकारान्यः स्त्रीलिङ्गः शब्दः
प्रथमा एकवचनम्
माणिक्य-कणाःRuby stonesअकारान्तः पुल्लिङ्गः ‘कण’ शब्दः
प्रथमा बहुवचनम्
अवर्तन्तआसन्।
were
‘वृत्’ आत्मनेपदी धातुः
लङ् प्रथमपुरुषः बहुवचनम्
मुक्ताफलानिPearlsअकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
प्रथमा बहुवचनम्
अज्वलत्प्राज्वलत्
blazed
‘ज्वल्’ परस्मैपदी धातुः
लङ् प्रथमपुरुषः एकवचनम्

लङ्-आत्मनेपदान्ताः – रूपाणि प्रक्रिया च

In the story we notice that all Atmanepadi Lang forms have the letter ‘अ’ added to the dhatu in the front. And later प्रत्ययान्ताः are affixed to dhatu according to Purusha and Vachanam. Let us now learn the general past tense endings for आत्मनेपदम् forms.

लङि आत्मनेपदान्ताः – Atmanepada past tense endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअ + ___ + तअ + ___ + इताम्अ + ___ + अन्त
मध्यमपुरुषःअ + ___ + थाःअ + ___ + इथाम्अ + ___ + ध्वम्
उत्तमपुरुषःअ + ___ + इअ + ___ + वहिअ + ___ + महि

We now display the Prakriya for getting लङ् forms for आत्मनेपदिनः धातवः using वन्द् धातुः as example in all three Purushas and Vachanas



यद्यपि उत्तमपुरुष-द्विवचनबहुवचनयोः प्रत्ययान्तौ क्रमेण वहि, महि स्तौ, वन्द् धातोः प्रक्रिया-विवरण-चित्रे तयोः स्थानयोः अवहि अमहि इति दत्तम्। क्रियापद-निर्माण-अवसरे एकस्य सूत्रस्य निर्देशेन, यदा धात्वङ्गः अकारान्तः स्यात् तदा प्रत्ययात् पूर्वम् अकारः आयाति। अस्माकं पाठस्तरे सूत्र-सहितं विवरणं न अपेक्षितम्।
Although the endings for उत्तमपुरुष-द्विवचनम् and उत्तमपुरुष-बहुवचनम are respectively वहि and महि, we find the Prakriya as अमहि and अवहि. It follows from a specific Sutra which adds an additional अकारः to the अकारान्तः धात्वङगः (Dhatu part ending in अ) prior to the join of the प्रत्ययः. Such Sutra based steps are beyond the scope of learning at this level.

इदानीम् वन्द् धातोः सर्वाणि लङ्-रूपाणि पश्याम। रूपेभ्यः अधः उदाहरणवाक्यानि अपि दत्तानि।

आत्मनेपदी वन्द् धातुः – लङ्र-रूपाणि
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअवन्दत
सः अवन्दत
अवन्देताम्
तौ अवन्देताम्
अवन्दन्त
ते अवन्दन्त
मध्यमपुरुषःअवन्दथाः
त्वम् अवन्दथाः
अवन्देथाम्
युवाम् अवन्देथाम्
अवन्दध्वम्
यूयम् अवन्दध्वम्
उत्तमपुरुषःअवन्दे
अहम् अवन्दे
अवन्दावहि
आवाम् अवन्दावहि
अवन्दामहि
वयम् अवन्दामहि

The above table can be used as a general reference for writing the लङ्-रूपाणि for many dhatus. We list the प्रथमपुरुष-रूपाणि for some commonly used dhatus which assume this general pattern. Please practice writing the other six forms using the above table as a guide. To verify your work, click the Dhatu names to view the complete लङ् forms of that Dhatu.

आत्मनेपदिनां धातूनां लङि प्रथमपुरुष-रूपाणि
धातुःएकवचनम्द्विवचनम्बहुवचनम्
वृत्अवर्ततअवर्तेताम्अवर्तन्त
मन्अमन्यतअमन्येताम्अमन्यन्त
कम्प्अकम्पतअकम्पेताम्अकम्पन्त
भाष्अभाषतअभाषेताम्अभाषन्त
सह्असहतअसहेताम्असहन्त
स्पर्ध्अस्पर्धतअस्पर्धेताम्अस्पर्धन्त
ईक्ष्ऐक्षतऐक्षेताम्ऐक्षन्त
क्षम्अक्षमतअक्षमेताम्अक्षमन्त
बाध्अबाधतअबाधेताम्अबाधन्त
लज्ज्अलज्जतअलज्जेताम्अलज्जन्त
यत्अयततअयतेताम्अयतन्त
श्लाघ्अश्लाघतअश्लाघेताम्अश्लाघन्त
शङ्क्अशङ्कतअशङ्केताम्अशङ्कन्त
शुभ्अशोभतअशोभेताम्अशोभन्त
कूर्द्अकूर्दतअकूर्देताम्अकूर्दन्त
युध्अयुध्यतअयुध्येताम्अयुध्यन्त
सेव्असेवतअसेवेताम्असेवन्त
त्रैअत्रायतअत्रायेताम्अत्रायन्त
मुद्अमोदतअमोदेताम्अमोदन्त
प्लुअप्लवतअप्लवेताम्अप्लवन्त
भिक्अभिक्षतअभिक्षेताम्अभिक्षन्त
वृध्अवर्धतअवर्धेताम्अवर्धन्त
खिद्अखिद्यतअखिद्येताम्अखिद्यन्त
अप + ईक्षअपैक्षतअपैक्षेताम्अपैक्षन्त

लङ् Kriyapadani of certain Atmanepadi Dhatus do not conform to the general pattern seen above. We list some of such dhatus before we read some example sentences.

लङि आत्मनेपद-विशेषक्रियापदानि

We list below the आत्मनेपद-लङ्-क्रियापदानि of कृ धातुः. कृ धातुः उभयपदी अस्ति।

कृ धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअकुरुतअकुर्वाताम्अकुर्वत
मध्यमपुरुषःअकुरुथाःअकुर्वाथाम्अकुरुध्वम्
उत्तमपुरुषःअकुर्विअकुर्वहिअकुर्महि

ज्ञा, भुज् अपि आत्मनेपदिनौ धातौ। तयोः लङ्-रूपाणि अधः दीयन्ते।

ज्ञा धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअजानीतअजानाताम्अजानत
मध्यमपुरुषःअजानीथाःअजानाथाम्अजानीध्वम्
उत्तमपुरुषःअजानीअजानीवहिअजानीमहि

भुज् धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअभुङ्क्तअभुञ्जाताम्अभुञ्जत
मध्यमपुरुषःअभुङ्क्थाःअभुञ्जाथाम्अभुङ्ग्ध्वम्
उत्तमपुरुषःअभुञ्जिअभुञ्ज्वहिअभुञ्ज्महि

शी, ब्रू and अधि + इ are other three Atmanepada Dhatus which assume special verb forms.

शी धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअशेतअशयाताम्अशेरत
मध्यमपुरुषःअशेथाःअशयाथाम्अशेध्वम्
उत्तमपुरुषःअशयिअशेवहिअशेमहि

ब्रू धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअब्रूतअब्रुवाताम्अब्रुवत
मध्यमपुरुषःअब्रूथाःअब्रुवाथाम्अब्रूध्वम्
उत्तमपुरुषःअब्रुविअब्रूवहिअब्रूमहि

अधि + इ धातोः आत्मनेपद-क्रियापदानि (लङ्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअध्यैतअध्यैयाताम्अध्यैयत
मध्यमपुरुषःअध्यैथाःअध्यैयाथाम्अध्यैध्वम्
उत्तमपुरुषःअध्यैयिअध्यैवहिअध्यैमहि

Here are some example sentences with आत्मनेपद-लङ्-क्रियापदानि

उदाहरण-वाक्यानि

अयोध्या-नगरं स्वर्गपुरी इव अशोभत।
Ayodhya City was radiant as Swarga.
अशोभत – शुभ् धातोः प्रथमपुरुष – एकवचन-लङ्-रूपम्.
गोप्यः कृष्णं दृष्ट्वा अमोदन्त।
Seeing Krishna Gopis were delighted.
अमोदन्त – मुद् धातोः प्रथमपुरुष – बहुवचन-लङ्-रूपम्.
ह्यः त्वम् किमर्थं अखिद्यथाः?
Why were you sad yesterday?
अखिद्यथाः – खिद् धातोः मध्यमपुरुष- एकवचन- लङ्-रूपम्.
पर्याटनावसरे यूयं किं किं अवैक्षध्वम्?
What all did you all see during tour?
अवैक्षध्वम् – अव + ‘ईक्ष’ धातोः मध्यमपुरुष- बहुवचन- लङ्-रूपम्.
अहं मम मित्रं सहाय्यम् अयाचे।
I asked my friend help.
अयाचे - याच् धातोः उत्तमपुरुष – एकवचन – लङ्-रूपम्.
युवाम् महत् दुःखम् असहेथाम्।
You two have endured much misery.
असहेथाम् – सह धातोः मध्यमपुरुष – द्विवचन-लङ्-रूपम्.
मन्दिरे वयं देवम् अवन्दामहि।
We worshipped the Lord at the temple.
अवन्दामहि – वन्द् धातोः उत्तमपुरुष – बहुवचन – लङ्-रूपम्.
त्वम् सुखेन अशेथाः।
You slept peacefully.
अशेथाः – शी धातोः मध्यमपुरुष – एकवचन – लङ् – रूपम्.
भ्रातरौ उभौ अपि यशः अलभेताम्।
Both the brothers got fame.
अलभेताम् – लभ् धातोः प्रथमपुरुष – द्विवचन – लङ् – रूपम्.
आवाम् संस्कृते अभाषावहि।
We two talked in Samskritam.
अभाषावहि – भाष् धातोः उत्तमपुरुष – द्विवचन – लङ् – रूपम्.

We hope the example sentences throw more light on लङ् forms. Try writing sentences in the remaining Purusha and Vachanas for the Dhatus given in the examples. This practice helps in learning the all लङ् forms quickly.
Well! It is time to work on practice exercises and end up the lesson. इदानीम् अभ्यासानि कृत्वा पाठं समापयाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the story. कथासम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. काविरीपूम्पट्टिणे कौ द्वौ वणिजौ अवर्तेताम्?
    2. कोवलन् कस्याः नाट्यम् अलोकत?
    3. मादव्याः वियुक्तः कोवलन् किम् ऐच्छत्?
    4. कोवलन् व्यापारनिमित्तं किं निश्चयं अकुरुत?
    5. कण्णग्याः पादनालिकायां अन्ते माणिक्य-कणाः अवर्तन्त। - एतत् सत्यं कण्णगी कथं सर्वान् अबोधयत्?

  2. Write all the past (लङ्) forms of the given Dhatu. धातूनाम् सर्वाणि लङ् रूपाणि लिखत।
    1. शी धातुः
    2. प्लु धातुः
    3. कूर्द् धातुः
    4. त्रै धातुः
    5. सेव् धातुः

  3. Write the past-tense (लङ्) form as directed. निर्देशानुसरणं धातोः लङ्रूपं लिखत।
    1. कृ धातोः उत्तमपुरुष-एकवचनरूपम्
    2. भाष् धातोः मध्यमपुरुष-एकवचनरूपम्
    3. कम्प् धातोः उत्तमपुरुष-बहुवचनरूपम्
    4. मुद् धातोः प्रथमपुरुष-बहुवचनरूपम्
    5. अप + ईक्ष मध्यमपुरुष-बहुवचनम्
    6. क्षम् धातोः प्रथमपुरुष-द्विवचनम्
    7. ब्रू धातोः उत्तमपुरुष-द्विवचनम्
    8. वि + जि धातोः मध्यमपुरुष-एकवचनम्
    9. वृध् धातोः उत्तमपुरुष-द्विवचनम्
    10. स्पर्ध धातोः मध्यमपुरुष-बहुवचनम्

  4. Rewrite the sentence replacing the present form (लट्) with past form (लङ्). वाक्येषू लट्-क्रियापदानां स्थानेषु तेषाम् अनुरूपानि लङ्-पदानि लिखित।
    1. वृक्षेषु पुष्पाणि शोभन्ते।
    2. वयं देवं वन्दावहे।
    3. शुभवार्त्तां श्रुत्वा ते सर्वे मोदन्ते।
    4. त्वम् प्रकृति-सौन्दर्यं निरीक्षसे।
    5. अहम् धनसंपत्तौ तव तुल्यं वर्ते।
    6. यूयं कीर्तिं लभध्वे।
    7. ते स्पर्धाम् विजयन्ते।
    8. भवान् माम् कष्टात् त्रायते।
    9. युवां विजयं कामयेथे।
    10. अपुत्राः इदानीं पुत्रिणः वर्तन्ते।
  5. Replace the Parasmeipadi verb forms with suitable atmanepadi verb froms given in the box. परस्मैपदीक्रीयापदानां स्थाने कोष्टकात् उचितानि आत्मनेपदिक्रियापदानि चित्वा निवेशय।
    अमोदत     अवर्तत     अब्रुवि     अलभथाः     अत्रायत
    अवर्तोथाम्     अवालोके     अवन्दध्वम्     अकुर्वत     अबाधयत
    1. वयं सत्यं हितं अवदत्।
    2. त्वम विजयं प्राप्नोः।
    3. सीता गीतं श्रुत्वा अतुष्यत्।
    4. युवां गृहे अभवतम्।
    5. भगवान् अस्माकं अरक्षत्।
    6. अहं तत् चित्रं अपश्यत्।
    7. यूयं देवम् प्राणमत।
    8. छात्राः गृहकार्यं अकुर्वन्।
    9. बलवान् बलहीनं अपीडयत्।
    10. अस्माकं गृहे सर्वता आनन्दं अभवत्।
  6. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. Many Kshatriyas died in Mahabharata war. (to die – मृ धातुः)
    2. He got victory in the match. (victory – जयम् match - स्पर्धा)
    3. You were born in a rich family. (rich family – सम्पन्नकुलम् to be born – use जन् धातुः)
    4. He did not think accepting loan from friends was proper. (to think – use मन् धातुः accepting loan – ऋणग्रहणम् proper - उचितम्)
    5. Second world war started in 1939. (world war – विश्वमहायुद्धम् to start – प्र + रभ् धातुः)
    6. We trembled on seeing the elephant. (to tremble – Use कम्प् धातुः)
    7. Krishna worshipped Rama in dvapara yuga. (to worship – use वन्द् धातुः dwapara yuga - द्वापरयुगः)
    8. Hanuman conversed with Rama and Lakshmana in Samskritam. (to converse – Use भाष् धातुः)
    9. Krishna held Govardhana Mountain. (to hold - Use धृ धातोः आत्मनेपदरूपम् Govardhana Mountain - गोवर्धनगिरिः)
    10. You two served Guru.

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


We have now learned present (लट्), past (लङ्) and imperative (लोट्) verb forms for आत्मनेपदिनः धातवः. We certainly need to know to express ourselves using future tense. Next in the row is ऌट् -रूपाणि (भविष्यत्कालिकः). Our next lesson is……
Lesson 11 Future Tense forms of Atmanepadi Dhatus - आत्मनेपदिनः धातवः - ऌट्लकारः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...