Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 11 - Future Tense forms of Atmanepadi Dhatus

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना -एकादशः पाठः - आत्मनेपदिनः धातवः - ऌट्लकारः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • to teach the “ऌट्” भविष्यत्कालिक (Future tense) forms of Atmanepadi Dhatus. एषः पाठः आत्मनेपदिनां ऌट्-लकार-रूपान् पाठयति।

We draw your attention to this Bhagavad Geeta Sloka in Chapter 2.

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।। 2.37।।

(त्वम्) हतो वा स्वर्गं प्राप्स्यसि जित्वा वा भोक्ष्यसे महीम्। तस्मात् युद्धाय कृतनिश्चयः कौन्तेय उत्तिष्ठ। In these verses Bhagvan Krishna after elaborating waging a Dharma Yuddha as the duty of Kshatriya, tells Arjuna that gains do come his way irrespective of the outcome of the war. Lord Krishna says, “ Slain you will get Swarga, or by winning you enjoy the earth. Oh son of Kunti, stand up resolved to fight.”
We find two future forms प्राप्स्यसि and भोक्ष्यसे. Whie the first is the Parasmeipada future form of प्र + आप्, the second is the future form of ‘भुज्’ धातुः which assumes Atmanepada forms when used to express eating or consuming. In this lesson we learn to get future (ऌट्) forms of Atmanepadi Dhatus and use them in sentences.

अस्माकं रीतिम् अनुसृत्य एतस्मिन् पाठस्य आरम्भं मङ्गलाचरणेन करवामहै। अर्धनारीश्वरभावे वन्द्यमानयोः पार्वती-परमेश्वरयोः अनुग्रहं वयं प्रार्थयामहे।

विशालनीलोत्फललोचनायै
विकासिपङ्केरुहलोचनाय।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय।।

“My Namaskaram to her Parvathi whose even number of eyes are as wide as the blue lotuses, and to Shiva as well, who has odd number of eyes which are as wide as fully opened lotuses.“

Let us now read a story written in Samskritam based on a German short story “Anekdote zur Senkung der Arbeitsmoral (Anecdote on lowering the work ethic)” written by Heinrich Böll.



किं घटिष्यते तदनन्तरम्?

एतत् कथायाः घटनास्थलं जर्मनी-देशस्य कश्चन नौकाश्रयः।

कश्चन सुवासः पर्यटकः सागरतीरे छायचित्राणि अगृह्णात् । अत्र तस्य दृष्टिपथे एकं कुवेषधारिणं धीवरं अपतत्। सः धीवरः तस्य मत्स्यबन्धननौकायां शयितवान् अस्ति। धीवरस्य तादृशम् आलस्यभावं दृष्ट्वा पर्यटकः तं एवं अपृच्छत् : “मत्स्यग्रहणं त्यक्तवा किमर्थं शेते भोः?”. अहं प्रातः एव मत्स्यग्रहणं सम्पूरितवान्। तेन यद् प्राप्तं तत् दिवसद्वयाय पर्याप्तम् इति धीवरः प्रत्यब्रवीत्। तयोः मध्ये सम्भाषणम् अन्ववर्तत।

पर्यटकः – एवं चिन्तयतु। यदि भवान् बहुवारं मत्स्यग्रहणं करिष्यते, संवत्सरान्तरे नौकाचालनयन्त्रम् क्रेष्यते। तथा हि द्विवर्षान्तरे द्वितीया नौका भवतः वर्तिष्यते।

धीवरः - तदनन्तरं किं घटिष्यते?

पर्यटकः – भविष्यति कदाचित् भवान् निबध्नाः मीनाः स्थापयितुं शीतलस्थानस्य निर्माणं करिष्यते। अवलेहाः अपि उद्पादय्य विक्रेष्यते।

धीवरः - तदनन्तरं किं घटिष्यते?

पर्यटकः – ऊर्ध्वाटिकायां डयिष्यते, मत्स्य-उपाहारगृहं निर्मातुं शक्ष्यति, विना मध्यवर्तिना अभिचिङ्गटान् पारीस्-नगरं प्राप्य अधिकं धनं आपत्स्यते।

धीवरः - तदनन्तरं किं घटिष्यते?

पर्यटकः – तदा भवान् निश्चिन्तकः अत्र नौकाश्रये उपविश्य महनीयं सागरम ईक्षिष्यते।

तदैव अहम् इदानीं करोमि इति धीवरः उक्तवान्।

बुद्धः पर्यटकः धीवरम् प्रति कार्पण्य-भावम त्यक्तवा, कयाचित् ईर्ष्यया सह तूष्णीं तस्मात् स्थलात् गतवान्।

Note that Atmanepada future (ऌट्) forms are highlighted in yellow. Let us now learn more about the new words and word forms we come across in the story.

शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
नौकाश्रयःयत्र नौकाः स्थापयन्ते सः नौकाश्रयः
Harbour
अकारान्तः पुल्लिङ्गः “आश्रय” शबदः
प्रथमा एकवचनम्
सुवासःसमीचीनतया वेषं धरितवान्
Well dressed
अकारान्तः पुल्लिङ्गः “वास” शब्दः
प्रथमा एकवचनम्
पर्यटकःयात्रिकः
Tourist
अकारान्तः पुल्लिङ्गः “पर्यटक” शब्दः
प्रथमा एकवचनम्
छायचित्राणिPhotosअकारान्तः नपुंसकलिङ्गः “चित्र” शब्दः
प्रथमा बहुवचनम्
अगृह्णात्Captured, was takingग्रह् उभयपदी धातुः
आत्मनेपदरूपम्
लङ् प्रथमपुरुष एकवचनम्
दृष्टिपथेWithin sightअकारान्तः पुल्लिङ्गः “पथ” शब्दः
सप्तमी एकवचनम्
कुवेषधारिणम्कुचेलम्
Badly dressed
णकारान्तः पुल्लिङ्गः “कुवेषधारिण्” शब्दः
द्वितीया एकवचनम्
मत्स्यबन्धननौकायाम्In the fishing boatआकारान्तः स्त्रीलिङ्गः “नौका” शब्दः
सप्तमी एकवचनम्
शयितवान्Lying, sleeping तकारान्तः पुल्लिङ्गः “शयितवत्” शब्दः
प्रथमा एकवचनम्
कृदन्त (क्तवत्) पदम्
अन्ववर्ततप्रावर्तत्
Continued
अनु + वृत् आत्मन्पदी धातुः
लङ् प्रथमपुरुष एकवचनम्
संवत्सरान्तरेWithin a yearअकारान्तः नपुंसकलिङ्गः “अन्तर” शब्दः
सप्तमी एकवचनम्
नौकाचालनयन्त्रम्Motor for boatsअकारान्तः नपुंसकलिङ्गः “यन्त्र” शब्दः
द्वितीया एकवचनम्
क्रेष्यतेWill buy“क्री” उभयपदी धातुः
आत्मनेपदरूपम्
लृट् प्रथमपुरुष एकवचनम्
वर्तिष्यतेभविष्यति
Will be
“वृत्” आत्मनेपदी धातुः
लृट् प्रथमपुरुष एकवचनम्
घटिष्यतेप्रादुर्भविष्यति
Will happen
“घट्” आत्मनेपदी धातुः
लृट् प्रथमपुरुष एकवचनम्
भविष्यतिIn futureतकारान्तः पुल्लिङ्गः “भविष्यत्” शब्दः
सप्तमी एकवचनम्
निबध्नाःCaughtअकारान्तः पुल्लिङ्गः “निबध्न” शब्दः
प्रथमा बहुवचनम्
मीनाःमत्सयाः
Fishes
अकारान्तः पुल्लिङ्गः “मीन” शब्दः
प्रथमा बहुवचनम्
शीतलस्थानस्यOf cold storageअकारान्तः नपुंसकलिङ्गः “स्थान” शब्दः
षष्ठी एकवचनम्
निर्माणम्संस्थापनम्
building Used as object
अकारान्तः नपुंसकलिङ्गः “निर्माण” शब्दः
द्वितीया एकवचनम्
करिष्यतेकरिष्यति
Will do
“कृ” उभयपदी धातुः
आत्मनेपदरूपम्
लङ् प्रथमपुरुष एकवचनम्
अवलेहाःउपदंशानि
Pickles
अकारान्तः पुल्लिङ्गः “अवलेह” शब्दः
प्रथमा बहुवचनम्
विक्रेष्यते।Will sellवि + “क्री” उभयपदी धातुः
आत्मनेपदरूपम्
लृट् प्रथमपुरुष एकवचनम्
ऊर्ध्वाटिकायाम्In helicopterआकारान्तः स्त्रीलिङ्गः “ऊर्ध्वाटिका” शब्दः
सप्तमी एकवचनम्
डयिष्यतेउड्डयनं करिष्यते
Will fly
डयिष्यते – डी आत्मनेपदी धातुः
लृट् प्रथमपुरुष एकवचनम्
मध्यवर्तिनाBy middlemanनकारान्तः पुल्लिङ्गः “मध्यनर्तिन्” शब्दः
तृतीया एकवचनम्
उपपदम् used with विना in तृतीया.
अभिचिङ्गटान्Sea Crayfishअकारान्तः पुल्लिङ्गः “अभिचिङ्गटः” शब्दः
द्वितीया बहुवचनम्
आपत्स्यतेप्राप्स्यति
Will get
आ + “पद्” आत्मनेपदी धातुः
लृट् प्रथमपुरुष एकवचनम्
निश्चिन्तकःWorrilessअकारान्तः पुल्लिङ्गः “चिन्तक" शब्दः
कृदन्तपदम्
प्रथमा एकवचनम्
ईक्षिष्यते।लोकिष्यते
Will watch
“ईक्ष्” आत्मनेपदी धातुः
लृट् प्रथमपुरुष एकवचनम्
कार्पण्य-भावमPity
Used as Object
अकारान्तः लुपुंसकलिङ्गः “भाव” शब्दः
द्वितीया एकवचनम्
ईर्ष्ययाWith Envyआकारान्तः स्त्रीलिङ्गः “ईर्ष्या” शब्दः
त्रितीया एकवचनम्

We saw quite a few Atmanepada future (ऌट्) forms in the above narrative. Let us now learn how to get these forms.

ऌट्-आत्मनेपदान्ताः - रूपाणि प्रक्रिया च

For beginners it is easy to get ऌट्-आत्मनेपदरूपाणि from respective present (ल़ट्) forms. We provide the future endings for all Purusha and Vachanas. We also add pictures to demonstrate how the future forms are obtained from present forms using the endings.

ऌटि आत्मनेपदान्ताः – Atmanepada future tense endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःइष्यतेइष्येतेइष्यन्ते
मध्यमपुरुषःइष्यसेइष्येथेइष्यध्वे
उत्तमपुरुषःइष्येइष्यावहेइष्यामहे

We now provide the steps to get the future (ऌट्) forms using present (लट्) forms for आत्मनेपदिनः धातवः वन्द् धातुः being used as example in all three Purushas and Vachanas



इदानीम् वन्द् धातोः सर्वाणि लङ्-रूपाणि पश्याम। रूपेभ्यः अधः उदाहरणवाक्यानि अपि दत्तानि।

आत्मनेपदी वन्द् धातुः – ऌट् -रूपाणि
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवन्दिष्यते
सः वन्दिष्यते
वन्दिष्येते
तौ वन्दिष्येते
वन्दिष्यन्ते
ते वन्दिष्यन्ते
मध्यमपुरुषःवन्दिष्यसे
त्वम् वन्दिष्यसे
वन्दिष्येथाम्
युवाम् वन्दिष्येथाम्
वन्दिष्यध्वम्
यूयम् वन्दिष्यध्वम्
उत्तमपुरुषःवन्दिष्ये
अहम् वन्दिष्ये
वन्दिष्यावहे
आवाम् वन्दिष्यावहे
वन्दिष्यामहे
वयम् वन्दिष्यामहे

The above table can be used as a general reference for writing the ऌट् -रूपाणि for many dhatus. We list the प्रथमपुरुष-रूपाणि for some commonly used dhatus which assume this general pattern. Please practice writing the other six forms using the above table as a guide. To verify your work, click the Dhatu names to view the complete ऌट् forms of that Dhatu.

आत्नमनेपदिनां धातूनां ऌटि प्रथमपुरुष-रूपाणि
धातुःएकवचनम्द्विवचनम्बहुवचनम्
वृत्वर्तिष्यतेवर्तिष्येतेवर्तिष्यन्ते
मन्मंस्यतेमंस्येतेमंस्यन्ते
कम्प्कम्पिष्यतेकम्पिष्येतेकम्पिष्यन्ते
भाष्भाषिष्यतेभाषिष्येतेभाषिष्यन्ते
सह्सहिष्यतेसहिष्येतेसहिष्यन्ते
स्पर्ध्स्पर्धिष्यतेस्पर्धिष्येतेस्पर्धिष्यन्ते
ईक्ष्ईक्षिष्यतेईक्षिष्येतेईक्षिष्यन्ते
क्षम्क्षंस्यते,
क्षमिष्यते
क्षंस्येते,
क्षमिष्येते
क्षंस्यन्ते,
क्षमिष्यन्ते
बाध्बाधिष्यतेबाधिष्येतेबाधिष्यन्ते
लज्ज्लज्जिष्यतेलज्जिष्येतेलज्जिष्यन्ते
यत्यतिष्यतेयतिष्येतेयतिष्यन्ते
श्लाघ्श्लाघिष्यतेश्लाघिष्येतेश्लाघिष्यन्ते
शङ्क्शङ्किष्यतेशङ्किष्येतेशङ्किष्यन्ते
शुभ्शोभिष्यतेशोभिष्येतेशोभिष्यन्ते
कूर्द्कूर्दिष्यतेकूर्दिष्येतेकूर्दिष्यन्ते
युध्योत्स्यतेयोत्स्येतेयोत्स्यन्ते
सेव्सेविष्यतेसेविष्येतेसेविष्यन्ते
त्रैत्रास्यतेत्रास्येतेत्रास्यन्ते
मुद्मोदिष्यतेमोदिष्येतेमोदिष्यन्ते
प्लुप्लोष्यतेप्लोष्येतेप्लोष्यन्ते
भिक्भिक्षिष्यतेभिक्षिष्येतेभिक्षिष्यन्ते
वृध्वर्धिष्यतेवर्धिष्येतेवर्धिष्यन्ते
खिद्खेत्स्यतेखेत्स्येतेखेत्स्यन्ते
अप + ईक्षअपेक्षिष्यतेअपेक्षिष्येतेअपेक्षिष्यन्ते

We find the ऌट् forms of some dhatus differ from the normal pattern. These dhatus are अनिट्, that is the letter ‘इ’ does not come in between the dhatu and ऌट् specific pratyaya.

Let us now list the ऌट् forms of Atmanepadi Dhatus whose forms generally differ from other dhatus.

ऌटि आत्मनेपद-विशेषक्रियापदानि

We list below the आत्मनेपद- ऌट्-क्रियापदानि of कृ धातुः. कृ धातुः उभयपदी अस्ति।

कृ धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरिष्यतेकरिष्येतेकरिष्यन्ते
मध्यमपुरुषःकरिष्यसेकरिष्येथेकरिष्यध्वे
उत्तमपुरुषःकरिष्येकरिष्यावहेकरिष्यामहे

Even though कृ धातुः assumes special verb forms for other Lakaras, its ऌट् forms follow the general pattern.

ज्ञा, भुज् अपि आत्मनेपदिनौ धातौ। तयोः ऌट्-रूपाणि अधः दीयन्ते।

ज्ञा धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःज्ञास्यतेज्ञास्येतेज्ञास्यन्ते
मध्यमपुरुषःज्ञास्यसेज्ञास्येथेज्ञास्यध्वे
उत्तमपुरुषःज्ञास्येज्ञास्यावहेज्ञास्यामहे

Note: ऌट् forms of ज्ञा धातुः assumes forms which are similar to roots मन्, क्षम् and few others we see in the table of general forms.

भुज् धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभोक्ष्यतेभोक्ष्येतेभोक्ष्यन्ते
मध्यमपुरुषःभोक्ष्यसेभोक्ष्येथेभोक्ष्यध्वे
उत्तमपुरुषःभोक्ष्येभोक्ष्यावहेभोक्ष्यामहे

शी, ब्रू and अधि + इ are other three Atmanepada Dhatus which assume special verb forms.

शी धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशयिष्यतेशयिष्येतेशयिष्यन्ते
मध्यमपुरुषःशयिष्यसेशयिष्येथेशयिष्यध्वे
उत्तमपुरुषःशयिष्येशयिष्यावहेशयिष्यामहे

ब्रू धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवक्ष्यतेवक्ष्येतेवक्ष्यन्ते
मध्यमपुरुषःवक्ष्यसेवक्ष्येथेवक्ष्यध्वे
उत्तमपुरुषःवक्ष्येवक्ष्यावहेवक्ष्यामहे

अधि + इ धातोः आत्मनेपद-क्रियापदानि (ऌट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअध्येष्यतेअध्येष्येतेअध्येष्यन्ते
मध्यमपुरुषःअध्येष्यसेअध्येष्येथेअध्येष्यध्वे
उत्तमपुरुषःअध्येष्येअध्येष्यावहेअध्येष्यामहे

इदानीम् आत्मनेपद- ऌट् -क्रियापदैः युक्तानि उदाहरण-वाक्याणि पश्याम।

उदाहरण-वाक्यानि

क्रीडाङ्गने मम सर्वाणि मित्राणि वर्तिष्यन्ते।
All my friends will be at the play ground.
वर्तिष्यन्ते – वृत् धातोः प्रथमपुरुष – बहुवचन- ऌट् -रूपम्.
विवाह-समये वधू एतानि आभरणानि धरित्वा शोभिष्यते।
Bride will be beautiful wearing these ornaments during Wedding.
शोभिष्यते – शुभ् धातोः प्रथमपुरुष – एकवचन- ऌट् -रूपम्.
त्वं तव पुत्रस्य वर्धनं निश्चयेन ईक्षिष्यसे।
You will definitely see your son’s progress.
ईक्षिष्यसे – ईक्ष् धातोः मध्यमपुरुष-एकवचन- ऌट् -रूपम्.
श्वः अहं भाषिष्ये।
Tomorrow I will talk in the meeting.
भाषिष्ये – भाष् धातोः उत्तमपुरुष-एकवचन- ऌट् -रूपम्.
ओलिम्पिक्-मत्सरेषु अस्माकं क्रीडालुभिः न्यूनात् न्यूनम् एकं सुवर्णं पदकं विजयिष्यते इति अहं प्रतीक्षिष्ये।
I will expect that at least one gold medal will be won by our sportsmen in Olympics.
प्रतीक्षिष्ये – प्रति + ईक्ष् ध धातोः उत्तमपुरुष – एकवचन – ऌट् -रूपम्. विजयिष्यते - वि + जि धातोः कर्मणि प्रयोगे ऌट्-रूपम्.
Future passive form of वि + जि धातुः
We will be learning about कर्मणि प्रयोगः in a lesson to follow.
आगामि मासे आवाम् नवरात्री-पर्वस्य आचरणं करिष्यावहे।
Next month we two will be celebrating Navarathri.
करिष्यावहे – कृ धातोः उत्तमपुरुष द्विवचन- ऌट् -रूपम्.
स्वः मन्दिरे यूयं देवम् वन्दिष्यध्वे।
Tomorrow you all will be praying in the temple.
वन्दिष्यध्वे – वन्द् धातोः मध्यमपुरुष – बहुवचन – ऌट् -रूपम्.
विश्वविद्यालये त्वम् भौतिकशास्त्रं अध्येष्यसे।
You will study Physics in University.
अध्येष्यसे – अधि + ई धातोः मध्यमपुरुष – एकवचन – ऌट् -रूपम्.
तव ईदृशम् आचरणम् अधिकारिणः मनसि सन्देहं घटिष्यते।
Your this type of behaviour will create in the mind of the official.
घटिष्यते – जन् धातोः प्रथमपुरुष – एकवचन – ऌट् -रूपम्.
एतौ छात्रौ सायंकालं संस्कृते भाषणं करिष्येते।
These two students will talk (give a speech) in Samskritam in the evening.
करिष्येते– कृ धातोः प्रतमपुरुष – द्विवचन – ऌट् -रूपम्.

We hope the example sentences are helpful in getting the patterns of ऌट् forms. We suggest you try writing example sentences for different Purusha and Vachanas for the Dhatus given in the examples. This practice helps in learning the all ऌट् forms quickly.
Well, now it is time to practice what is learned. अस्तु। इदानीम् समयः अभ्यासार्थं भवेत्।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the story. कथासम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. यदि धीवरः बहुवारं मत्स्यग्रहणं करिष्यते, संवत्सरान्तरे किं क्रेष्यते?
    2. द्विवर्षान्तरे किं घटिष्यते?
    3. विना मध्यवर्तिना अभिचिङ्गटान् पारीस्-नगरं प्राप्य धीवरः किं लभिष्यते?
    4. अन्ते धीवरः किं करिष्यते?
    5. पर्यटकस्य मनसि धीवरं प्रति कीदृशः भावः अजायत ?

  2. Write all the future (ऌट्) forms of the given Dhatus. धातूनाम् सर्वाणि ऌट्-रूपाणि लिखत।
    1. शी धातुः
    2. प्लु धातुः
    3. कूर्द् धातुः
    4. त्रै धातुः
    5. सेव् धातुः

  3. Write the future (ऌट्) form as directed. निर्देशानुसरणं धातोः ऌट्रूपं लिखत।
    1. कृ धातोः उत्तमपुरुष-एकवचनरूपम्
    2. भाष् धातोः मध्यमपुरुष-एकवचनरूपम्
    3. कम्प् धातोः उत्तमपुरुष-बहुवचनरूपम्
    4. मुद् धातोः प्रथमपुरुष-बहुवचनरूपम्
    5. अप + ईक्ष मध्यमपुरुष-बहुवचनम्
    6. क्षम् धातोः प्रथमपुरुष-द्विवचनम्
    7. ब्रू धातोः उत्तमपुरुष-द्विवचनम्
    8. वि + जि धातोः मध्यमपुरुष-एकवचनम्
    9. वृध् धातोः उत्तमपुरुष-द्विवचनम्
    10. स्पर्ध धातोः मध्यमपुरुष-बहुवचनम्

  4. Rewrite the sentence replacing the present form (लट्) with future form (ऌट्). वाक्येषू लट्-क्रियापदानां स्थानेषु तेषाम् अनुरूपानि ऌट्-पदानि लिखित।
    1. वृक्षेषु पुष्पाणि शोभन्ते।
    2. वयं देवं वन्दावहे।
    3. शुभवार्त्तां श्रुत्वा ते सर्वे मोदन्ते।
    4. त्वम् प्रकृति-सौन्दर्यं निरीक्षसे।
    5. अहम् धनसंपत्तौ तव तुल्यं वर्ते।
    6. यूयं कीर्तिं लभध्वे।
    7. ते स्पर्धाम् विजयन्ते।
    8. भवान् माम् कष्टात् त्रायते।
    9. युवां विजयं कामयेथे।
    10. पुत्राः इदानीं बालकाः वर्तन्ते।
  5. Replace the Parasmeipada verb forms with suitable atmanepada verb froms given in the box. परस्मैपद-क्रीयापदानां स्थाने कोष्टकात् उचितानि आत्मनेपद-क्रियापदानि चित्वा निवेशय।
    मोदिष्यते     वर्तिष्यते     वक्ष्यामहे     लप्स्यसे     त्रास्यते
    वर्तिष्येथे     अवलोकिष्ये     वन्दिष्यध्वे     करिष्यन्ते     बाधिष्यते
    1. वयं सत्यं हितं वदिष्यामः।
    2. त्वम विजयं प्राप्स्यसि।
    3. सीता गीतं श्रुत्वा तुष्यति।
    4. युवां गृहे भवथः।
    5. भगवान् अस्माकं रक्षति।
    6. अहं तत् चित्रं पश्यामि।
    7. यूयं देवम् नमथ।
    8. छात्राः गृहकार्यं कुर्वन्ति।
    9. बलवान् बलहीनं पीडयति।
    10. अस्माकं गृहे सर्वता आनन्दं भवति।
  6. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. He will die soon. (to die – मृ धातुः soon - शीघ्रम्)
    2. You will get success in your profession. (success – जयम् profession - वृत्तिः)
    3. Your baby will be born in the month of April. (baby – शिशुः to be born – use जन् धातुः)
    4. You all will be ashamed for this misconduct. (to be ashamed – use लज्ज् धातुः for misconduct– अनाचरणार्थम् )
    5. We will know the Exam Results next week (Exam Results – परीक्षा-फलितांशाः to know – Use ज्ञा धातुः)
    6. Parents will forgive children’s offenses. (Parents – पितरौ to forgive – Use क्षम् धातुः children – बालकः (बहुवचनम्) Offense - अपराधः )
    7. On seeing the Lion we two will tremble in fear. (On seeing the Lion – सिंहस्य दर्शनेन to tremble – use कम्प् धातुः)
    8. They will serve in the army. (to serve – Use सेव धातुः Army - सैन्यम्)
    9. I will try to earn money. (to earn – सम्पादयितुं to try – use यत् धातुः)
    10. Moon and stars will shine in the night. (to shine – use शुभ् धातुः)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


We have now learned present (लट्), past (लङ्) imperative (लोट्) and future (ऌट्) verb forms for both परस्मैपदिनः and आत्मनेपदिनः धातवः. The English sentence “We may come tomorrow” indicates the possibility of our coming next day. What are the verb forms in Samskritam that expresses possibility or probability? Our next lesson teaches us about विधिलिङ्-रूपाणि which serve the purpose of telling a possibility. Our next lesson is……
Lesson 12: Vidhi Ling forms expressing possibility - सम्भावानार्थे विधिलिङ्-लकारः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...