Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 13 - Vidhi Ling forms expressing order/rule

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना -त्रयोदशः पाठः - विध्यर्थे विधिलिङ्-लकारः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • to teach the “विधिलिङ्” usage to express Order/Request of an action. एषः पाठः अस्मान् विधि-प्रार्थनार्थे विधिलिङ्-प्रयोगं बोधयति।

We ended the previous lesson with the statement, "विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्”. This Paniniya Sutram lists the different levels of Order or request namely विधिः (Order), निमन्त्रणम् (compulsary invite), आमन्त्रणम् (invite), अधीष्टः (Engaging), संप्रश्नः (inquiry), and प्रार्थना (Request), where विधिलिङ्-लकारः can be used.

We present the concluding verse of Naryaneeyam as Mangalacharam for this lesson. अस्य पाठस्य मङ्गलाचरण-रूपेण नारायणीयस्य अन्तिमः स्लोकः दीयते।

अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथा:
स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्।।

Sri Narayana Bhattathiri includes the क्षमा-प्रार्थना in this last verse where the Vidhi Lingh form क्षमेथा:, highlighted in yellow. May the grace of Lord Guruvayurappa be with us throughout our learning journey.


A popular Subhashitam is a classic example that explains the usage of Vidhili lingh as Rule.

सत्यं ब्रूयात् प्रियं ब्रूयान्ब्रूयात् सत्यमप्रियम्|
प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः|

विधिलिङि ब्रू धातोः प्रथमपुरुष-एकवचनरूपम् ब्रूयात् इति।

We have selected few Slokas from भगवद्गीता as references to demonstrate the use of विध्यर्थे विधिलिङ्-लकारः. Let us first read the slokas and then analyze and understand the Vidhiling forms.



भगवद्गीतायां विधिलिङ्-प्रयोगः

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्।।3.25।।

पदच्छेदं कृत्वा....
सक्ताः कर्ममणि अविद्वांसः यथा कुर्वन्ति भारत।
कुर्यात् विद्वान् तथा असक्तः चिकीर्षु लोकसंग्रहम्।।

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्।।3.26।।

पदच्छेदं कृत्वा....
बुद्धिभेदं जनयेत् आज्ञानां कर्मसङ्गिनाम्।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्।।

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।3.29।।

पदच्छेदं कृत्वा....
प्रकृतेः गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत्।।

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।।

पदच्छेदं कृत्वा....
इन्द्रियस्य इन्द्रिस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोः वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ।।

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।।

पदच्छेदं कृत्वा....
उद्धरेत् आत्मना आत्मानं आत्मानम् अवसादयेत्।
आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः।।

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।6.12।।

पदच्छेदं कृत्वा....
तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।
उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये।।

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः।।6.14।।

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।6.26।।


शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
कुर्यात्Shall do“कृ” उभयपदी धातुः
परस्मैपदरूपम्
विधिलिङ् प्रथमपुरुष-एकवचनम्
न जनयेत्न कारयेत्
Shall not cause (In the context of the sloka)
“जन्” आत्मनेपदी धातुः
णिजन्ते विधिलिङ्
प्रथमपुरुष-एकवचनम्
जोषयेत्Shall motivate others“जुष्” उभयपदी धातुः
णिजन्ते विधिलिङ्
प्रथमपुरुष-एकवचनम्
(परस्मैपदम्)
न विचालयेत्Shall not unsettleवि + “चल्” परस्मैपदी धातुः
विधिलिङ् प्रथमपुरुष-एकवचनम्
न आगच्छेत्Shall not comeआ + “गम्” परस्मैपदी धातुः
विधिलिङ् प्रथमपुरुष-एकवचनम्
उद्धरेत्Shall liftउत् + “धृ” उभयपदी धातुः परस्मैपदरूपम्
विधिलिङ् प्रथमपुरुष-एकवचनम्
न अवसादयेत्न कृपयेत्
Let one not weaken oneself
अव + “सद्” परस्मैपदी धातुः
विधिलिङ् प्रथमपुरुष-एकवचनम्
युञ्ज्यात्मिलेत्
Shall unite in
“युज्” उभयपदी धातुः
परस्मैपदरूपम्
विधिलिङ् प्रथमपुरुष-एकवचनम्
आसीतउपविशेत्
Shall sit in
“अस्” आत्मनेपदी धातुः
विधिलिङ् प्रथमपुरुष-एकवचनम्
नयेत्Shall bring“नी” उभयपदी धातुः
परस्मैपदरूपम्
विधिलिङ् प्रथमपुरुष-एकवचनम्

विधिलिङ्-क्रियापदानि लोट्-पदैः परिवर्तयितुं शक्यते।
Vidhi Ling verb forms can be replaced with Imperative forms (लोट्-लकारः) to denote Order or Request. The subtle difference is that विधिलिङ्-लकारः predominantly expresses a sense of rule.

In the previous lesson we have already learned the method (प्रक्रिया) to get Vidhi Ling forms also the common and special Vidhiling forms. You may click the link given here to refer those sections in the previous lessons.

विधिलिङ्-क्रियापदानि प्रक्रिया च


Let us now see the example sentences with verb forms in Potenital Mood (विधिलिङ्-क्रियापदानि) where the action is implied as a rule.

विध्यर्थे विधिलिङ्-क्रियापदानां प्रयोगाः कथं भवन्ति? उदाहरण-वाक्याणि पश्याम।

उदाहरण-वाक्यानि

बन्धु-मित्रेभ्यः यथा शक्यम् उपकारम् कुर्यात्।
You shall help friends and relatives as much possible.
कुर्यात् – कृ उभयपदी-धातोः प्रथमपुरुष – बहुवचन-विधिलिङ् -रूपम् (परस्मैपदम्).
सर्वे छात्राः श्वः प्रगे विद्यालये स्युः।
All students shall be present at School tomorrow early in the morning.
स्युः – अस् परस्मैपदी-धातोः प्रथमपुरुष – बहुवचन- विधिलिङ् - रूपम्.
आश्रमवासिनः प्रात-सायंसन्ध्ययौ देवं भजेरन्।
Inmates of Ashrama shall worship God in the morning and evening.
भजेरन् – लभ् परस्मैपदी-धातोः प्रथमपुरुष – बहुवचन- विधिलिङ् - रूपम्. (आत्मनेपदम्)
यूयं सर्वे शिक्षण-शुल्कानि एतस्मिन् सप्ताहे एव दद्यात।
You all shall pay the fees this week itself.
दद्यात – दा परस्मैपदी-धातोः मध्यमपुरुष-बहुवचन- विधिलिङ् -रूपम्.
काफी-पाने त्वं शर्कराम् संयुञ्जीथाः न?
You add (allowed to add) Sugar to Coffee, or not?
संयुञ्जीथाः – सम् + "युज्" अभयपदी-धातोः मध्यमपुरुष – एकवचन – विधिलिह् -रूपम्. (आत्मनेपदम्)
युवाम् सञ्चालकम् अद्य एव मिलेतम्।
You two are to meet the director today itself.
मिलेतम्। – मिल् परस्मैपदी-धातोः मध्यमपुरुष द्विवचन- विधिलिङ् -रूपम्.
अहं देहारोग्यार्थं योगासनं कुर्वीय।
I must do Yogasanam for my physical well being.
कुर्वीय – कृ उभयपदी-धातोः उत्तमपुरुष – एकवचन – विधिलिङ् -रूपम्. (आत्मनेपदम्)
वयम् अस्माकं संस्कृतिं रक्षेम।
We shall guard our Culture.
रक्षेम - रक्ष परस्मैपदी-धातोः उत्तमपुरुष – बहुवचन – विधिलिङ् -रूपम्.
भवन्तः सर्वदा क्षतृम् आक्रमणार्थं सिद्धाः वर्तेरन्।
All of you are to be prepared to attack enemy anytime.
वर्तेरन् – वृत् आत्मनेपदी-धातोः प्रथमपुरुष – बहुवचन – विधिलिङ् -रूपम्.
त्वयि एकाग्रता भवेत्।
Let there be undisturbed attention in you.
भवेत् – भू पर्स्मैपदी-धातोः प्रतमपुरुष – एकवचन – विधिलिङ् -रूपम्.

Some of the sentences may appear a bit weird, Rule or Order is easily and hence mostly expressed using passive voice (कर्मणि प्रयोगः) or using अनीयर्/तव्यत् प्रत्ययाः. We will be learning these usages in lessons that follow later. These example sentences are given just to show Potential mood verb forms implying Order or Rule.

सुभाषितानि

We now add two popular Subashitams (सुभाषिते) for you to read, grasp and appreciate the use of Vidhiling as rule (विध्यर्थे विधिलिङ्-प्रयोगः)

पण्डिताः गते विषये वा भविष्यति न चिन्तयन्ति।
ते वर्तमानकालस्य विषये एव चिन्तयन् व्यवहारं कुर्वन्ति।
Wisemen do not ponder over things that were past or things which come in future. They think only on present things and act accordingly.


यत् कार्यं श्वः करणीयम् तत् अध्य एव कुर्यात्।
तथा एव अपराह्णस्य कार्यं पूर्वाह्णे एव कुर्यात्। यतः मृत्युः करणीयं कार्यं कृतं वा न कृतं इति न प्रतीक्षते।
The work that can be done tomorrow has to be done today itself. And work which can be done in the afternoon has to be completed in forenoon. Because death does not wait whether the work is done or not.

We conclude the lesson with few practice exercises. पाठस्य समापनम् कैचन आभ्यास-प्रशनैः सह भवति।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Pick and write the Potential verb forms from words given in the box. मञ्जूषायाः विधिलिङ्-क्रियापदानि चित्वा लिखत।
    अचलत्     शृणुयात्     पठानि     गृह्णाति     कुर्विरन्
    गच्छाम     गच्छेम  ;   भविष्यति     स्युः     मोदेध्वम्
    लभते     वन्दे     प्राप्मुयाम्     अपेक्षते     नयेव
    ब्रूहि     स्पर्धेयाथाम्     क्षमस्व     जानीवहि     पठेयम्
  2. Change the imperative verb forms in the sentences to Potential forms. वाक्येषु दत्तानि लोट्-क्रियापदानि उचितैः विधिलिङ्-रूपैः परिनर्तनं कुरुत।
    1. भवन्तः सर्वे गृहपाठरूपेन एतानाम् प्रश्नानाम् उत्तराणि लिखन्तु।
    2. वयं सज्जनैः सह वसाम।
    3. अहं शास्त्रोक्तिं स्मराणि।
    4. यूयम् आरोग्यवर्धनम् आहारं सेवध्वम्।
    5. विद्यालयेषु छात्राः भगवत्गीताम् पठन्तु।
    6. श्वः प्रातः वयम् शीघ्रमेव उत्तिष्ठाम।
    7. त्वं कृष्णं भजस्व।
    8. युवां नृत्यं कुर्वाथाम्।
    9. कर्मचारिणः मासस्य प्रथमदिने एव वेदनम् लभन्ताम्।
    10. वित्तकोषात् स्वीकृतं ऋणं प्रत्यर्पयतु।

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


यदि श्वः वर्षा स्यात् अहम् न आगमिष्यामि। We use विधिलिङ् in this sentence to indicate a possibility. Suppose an action did not take place or there is no possibility of taking place. "I would have given you money had you come yesterday." As the action of coming did not take place, the giving of money also did not happen. The same sense is expressed in Samskrtiram as follows: "यदि भवान् ह्यः आगमिष्येत् तर्हि धनम् अदास्यम्।" Conditional Mood known as लृङ्लकारः is used to indicate actions that did not take place or not possible to happen. We learn about this interesting usage in our next lesson Our next lesson is…….
Lesson 14: Conditional Mood in Samskritam - क्रियायाः अभावे ऌङ्-प्रयोगः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...