Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 2 - Halantha Pullinga Shabdas

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - द्वितीयः पाठः - हलन्ताः पुल्लिङ्गाः शब्दाः

We learn about........

The goal of this lesson is …..
  • To learn some of Halantha Pullinga Shabdhas. अस्मिन् पाठे वयम् काञ्चन हलन्तान् पुल्लिङ्गशब्दान् पठामः।

संसारसागरात् अस्मान् उत्तारयितुं लक्ष्मीनृसिंहं प्रार्थ्य वयं अस्य पाठस्य आरम्भं कुर्मः। We start this second lesson praying लक्ष्मीनृसिंहः to rescue us from the delusion of संसारसागरः।

लक्ष्मीपदे कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।

In the above prayer note the many Sambodhana forms used to address Lord Lakshminrisimha. We suggest you to identify the base noun forms (प्रातिपदिकानि) of the Sambodhana forms given.

हलन्ताः पुल्लिङ्गाः शब्दाः - प्रस्तावः

We are now familiar with Noun forms with vowel endings (अजन्ताः शब्दाः). We ended the first lesson of this module with reference to words like “भगवान्” and “हनुमान्”. We have already learned the Vibhakthi forms of सर्वनाम-शब्दः ‘भवत्’ in module 2. These are few examples of Noun forms with consonant endings (हलन्ताः शब्दाः). We learn in this lesson some common हलन्ताः पुल्लिङ्गाः शब्दाः.

Let us first read a lesson in a story before we set to learn the consonant forms.


लवण-व्यापारी

पुरा अवन्ती-नगरे रामलालः नाम्ना एकः वणिक् लवण-वाणिज्यं करोति स्म। रामलालः धर्मवान् बुद्धिमान् च। एकस्मिन् दिने रामलालस्य सुहृद् कृष्णचन्द्रः तम् मेलितुम् आगच्छत्। “मित्र! कश्चन तेजस्वी संन्यासी सर्वत्र भ्रमणं कृत्वा इदानीम् अस्माकं नगरे आगतवान् अस्ति। दुर्गा-मन्दिरे एव तिष्ठति। सः आश्रितान् भक्तान् उचितानि उपदेशानि ददाति। भवान् अपि मन्दिरं गत्वा तम् पश्यतु” इति कृष्णचन्द्रःउक्तवान्।
परेद्यवि रामलालः सन्यासिनः दर्शनार्थं गतवान्। मुनेः पुरतः फल-स्थालीं दक्षिणां च स्थापयित्वा नमस्कृतवान्। गुरुः तम् अनुगृह्य एवम् अवदत्, “वत्स अद्यतनस्य कार्यम् अद्य एव करोतु। श्वः करिष्यामि इति न चिन्तयतु।“.
एतस्मिन् उपदेशस्य माहात्म्यं किम् इति रामलालः अचिन्तत्। ततः सः साक्षात् आत्मनः आपणम् गतवान्। आपणस्य पुरतः शकटानाम् आवलिः आसित्। शकटेषु विक्रयार्थं आनिताः लवण-गोण्यः आसन्। आत्मनां स्वामिनं दृष्ट्वा कर्मचराः एवम् अवदन्। “प्रभो अद्य समयः जातः। सूर्यास्तमनं शीघ्रमेव भविष्यति। गोणीः श्वः आपणस्य अन्तः नेष्यामः“। रामलालः साधोः उपदेशं स्मृतवान्। अद्यतनस्य कार्यम् अद्य एव कुर्वन्तु इति कर्मचरान् प्रति उक्तवान्। ते अपि सर्वाः लवण-गोण्यः आपणस्य अन्तः अनयन्।
तस्मिन् दिने रात्रौ अनपेक्षिता महती वृष्ठिः अभवत्। सर्वेषु मार्गेषु जलं प्रवाहेन अवहत्। वृष्टिः प्रातः एव व्यरमत्। सर्वत्र जलप्रावाहं दृष्ट्वा रामलालः सन्यासिनः उपदेशस्य महत्वं मूल्यं च ज्ञातवान्। “यदि ह्यः सायङ्काले लवण-गोणीः आपणस्य पुरतः एव अभविष्यन् इदानीं का गतिः?” इति चिन्तयन् ज्ञानिनं कृतज्ञतां वदितुं मन्दिरं प्रति अगच्छत्।


शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
लवणम्Saltअकारान्तः नपुंसकलिङ्गः ‘लवण’ शब्दः
प्रथमा विभक्तिः एकवचनम्
व्यापारीवणिक् - Merchantनकारान्तः पुल्लिङ्गः ‘व्यापारिन्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
नाम्नाBy nameनकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः
तृतीया विभक्तिः एकवचनम्
वणिक्व्यापारी - Merchantजकारान्तः पुल्लिङ्गः ‘वणिज्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
धर्मवान्Nobleतकारान्तः पुल्लिङ्गः ‘धर्मवत्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
बुद्धिमान्Intelligentतकारान्तः पुल्लिङ्गः ‘बुद्धिमत्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
सुहृद्Friend, Well wisherदकारान्तः पुल्लिङ्गः
‘सुहृद्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
तेजस्वीप्रकाशितः - Brightनकारान्तः पुल्लिङ्गः ‘तेजस्विन्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
संन्यासीमुनिः - Monkनकारान्तः पुल्लिङ्गः ‘संन्यासिन्’ शब्दः
प्रथमा विभक्तिः एकवचनम्
आश्रितान्अनुयायिनः - To the followersअकारान्तः पुल्लिङ्गः ‘आश्रित’ शब्दः
तृतीया विभक्तिः बहुवचनम्
परेद्यविThe next dayअव्ययपदम्
संन्यासिनःSanyasi’sनकारान्तः पुल्लिङ्गः ‘संन्यासिन्’ शब्दः
षष्ठी विभक्तिः एकवचनम्
अद्यतनस्यToday’sअकारान्तः नपुंसकलिङ्गः ‘अद्यतन’ शब्दः
षष्ठी विभक्तिः एकवचनम्
साक्षात्Straightअव्ययपदम्
आवलिःLine of somethingइकारान्तः स्त्रीलिङ्गः ‘आवलि’ शब्दः
प्रथमा विभक्तिः एकवचनम्
गोण्यःSacksईकारान्तः स्त्रीलिङ्गः
'गोणी' शब्दः
प्रथमा विभक्तिः बहुवचनम्
स्वामिनम्स्वामी - Master
स्वामिनम् (कर्म)
नकारान्तः पुल्लिङ्गः ‘स्वामिन्’ शब्दः
द्वितीया विभक्तिः एकवचनम्
अनपेक्षिताUnexpectedआकारान्तः स्त्रीलिङ्गः ‘अनपेक्षिता’ शब्दः
प्रथमा विभक्तिः एकवचनम्
महतीHeavy (in the context of the story)ईकारान्तः स्त्रीलिङ्गः ‘महती’ शब्दः
प्रथमा विभक्तिः एकवचनम्
वृष्टिःवर्षा - Rainइकारान्तः स्त्रीलिङ्गः
'वृष्टि' शब्दः
प्रथमा विभक्तिः एकवचनम्
मार्गेषुमार्गः - Roadअकारान्तः पुल्लिङ्गः
‘मार्ग’ शब्दः
सप्तमी विभक्तिः बहुवचनम्
व्यरमत्समाप्यत - Stoppedवि + रम् परस्मैपदी
लङ् लकारः
प्रथमपुरुषः एकवचनम्
धीमन्तम्धीमान् – Wise
धीमन्तम् (कर्म)
तकारान्तः पुल्लिङ्गः ‘धीमत्’ शब्दः
द्वितीया विभक्तिः एकवचनम्
अभविष्यन्Had they been (An action that has not taken place)भू धातुः ऌट् लकारः (Conditional Mood) प्रथमपुरुषः बहुवचनम्

We hope you enjoyed reading the story. We draw your attention to the yellow highlighted words, which are different vibhakthi forms of हलन्ताः पुल्लिङ्गाः शब्दाः.
The word हलन्ताः refers to the प्रातिपदिकानि (Base noun forms) with consonant endings. We are familiar with pronouns ‘अहम्’, ‘त्वम्’ and ‘भवान्’ representing I, informal and formal You’s respectively are well known to us. एतेषां प्रातिपदिकानि क्रमेण सन्ति ‘अस्मद्’, ‘युष्मद्’ तथा ‘भवत्’। We can clearly note the consonant endings (‘द्’ and ‘त्’) in these base forms.
We primarily learn the Vibhakthi forms of common जकारान्ताः, तकारान्ताः, दकारान्ताः नकारान्ताः, and सकारान्तः पुल्लिङ्ग-शब्दाः in this lesson. Example sentences will follow the list of Shabdhas to be learned.

जकारान्ताः पुल्लिङ्गाः शब्दाः

We came across the word ‘वणिक्’ in the story which is the प्रथमा एकवचनम् form of जकारान्तः शब्दः ‘वणिज्’. What is the ending Varna in वणिज्?

व् + अ + ण् + इ + ज् वणिज्

Yes!! The ending Varna is ‘ज्’ or जकारः. अतः ‘वणिज्’ जकारान्तः शब्दः भवति।
All Vibhakthi forms of ‘वणिज्’ are given in the table given below.

जकारान्तः पुल्लिङ्गः ‘वणिज्’ शब्दः (Merchant)
(व् + अ + ण् + इ + ज्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावणिक्वणिजौवणिजः
सं.प्रथमाहे वणिक्हे वणिजौहे वणिजः
द्वितीयावणिजम्वणिजौवणिजः
तृतीयावणिजावणिग्भ्याम्वणिग्भिः
चतुर्थीवणिजेवणिग्भ्याम्वणिग्भ्यः
पञ्चमीवणिजःवणिग्भ्याम्वणिग्भ्यः
षष्ठीवणिजःवणिजोःवणिजाम्
सप्तमीवणिजिवणिजोःवणिक्षु

These are general जकारान्तः noun forms found commonly in sentences. We will discuss about the special forms whenever we come across such words in our lessons and readings.

तकारान्ताः पुल्लिङ्गाः शब्दाः

We have already seen ‘भवान्’ is the प्रथमा-एकवचनम् declension of तकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः. ‘त्’ endings are one of the most frequently used and seen noun forms. प्रातिपदिकानि obtained by the join of ‘कृत्-प्रत्ययाः’ like क्तवतु are all तकारान्ताः. We first list the general ‘मरुत्’ शब्दः. We then list the specieal forms of तकारान्ताः, showing the varying Vibhakthi forms in green background. We also add foot notes which show words with similar declensions.

तकारान्तः पुल्लिङ्गः ‘मरुत्’ शब्दः (Wind)
(म् + अ + र् + उ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामरुत्मरुतौमरुतः
सं.प्रथमाहे मरुत्हे मरुतौहे मरुतः
द्वितीयामरुतम्मरुतौमरुतः
तृतीयामरुतामरुद्भ्याम्मरुद्भिः
चतुर्थीमरुतेमरुद्भ्याम्मरुद्भ्यः
पञ्चमीमरुतःमरुद्भ्याम्मरुद्भ्यः
षष्ठीमरुतःमरुतोःमरुताम्
सप्तमीमरुतिमरुतोःमरुत्सु
तकारान्तः पुल्लिङ्गः ‘पचत्’ शब्दः (One who cooks)
(प् + अ + च् + अ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापचन्पचन्तौपचन्तः
सं.प्रथमाहे पचन्हे पचन्तौहे पचन्तः
द्वितीयापचन्तम्पचन्तौपचतः
शेषं ‘मरुत्’ शब्दवत्
तृतीयापचतापचद्भ्याम्पचद्भिः
चतुर्थीपचतेपचद्भ्याम्पचद्भ्यः
पञ्चमीपचतःपचद्भ्याम्पचद्भ्यः
षष्ठीपचतःपचतोःपचताम्
सप्तमीपचतिपचतोःपचत्सु
तकारान्तः पुल्लिङ्गः ‘धीमत्’ शब्दः (Intelligent)
(ध् + ई + म् + अ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधीमान्धीमन्तौधीमन्तः
सं.प्रथमाहे धीमन्हे धीमन्तौहे धीमन्तः
द्वितीयाधीमन्तम्धीमन्तौधीमतः
शेषं ‘मरुत्’ शब्दवत्
तृतीयाधीमताधीमद्भ्याम्धीमद्भिः
चतुर्थीधीमतेधीमद्भ्याम्धीमद्भ्यः
पञ्चमीधीमतःधीमद्भ्याम्धीमद्भ्यः
षष्ठीधीमतःधीमतोःधीमताम्
सप्तमीधीमतिधीमतोःधीमत्सु

We add one more frequently found तकारान्तः ‘महत्’ शब्दः which declines a bit differently.

तकारान्तः पुल्लिङ्गः ‘महत्’ शब्दः (Great)
(म् + अ + ह् + अ + त्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामहान्महान्तौमहान्तः
सं.प्रथमाहे महान्हे महान्तौहे महान्तः
द्वितीयामहान्तम्महान्तौमहतः
शेषं ‘मरुत्’ शब्दवत्
तृतीयामहतामहद्भ्याम्महद्भिः
चतुर्थीमहतेमहद्भ्याम्महद्भ्यः
पञ्चमीमहतःमहद्भ्याम्महद्भ्यः
षष्ठीमहतःमहतोःमहताम्
सप्तमीमहतिमहतोःमहत्सु

दकारान्ताः पुल्लिङ्गाः शब्दाः

We find a commonly used ‘सुहृद्’ शब्दः under this heading.

दकारान्तः पुल्लिङ्गः ‘सुहृद्’ शब्दः (Friend/Well wisher)
(स् + उ + ह् + ऋ + द्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासुहृत्सुहृदौसुहृदः
द्वितीयासुहृदम्सुहृदौसुहृदः
तृतीयासुहृदासुहृद्भ्याम्सहृद्भिः
चतुर्थीसुहृदेसुहृद्भ्याम्सुहृद्भ्यः
पञ्चमीसुहृदःसुहृद्भ्याम्सुहृद्भ्यः
षष्ठीसुहृदःसुहृदोःसुहृदाम्
सप्तमीसुहृदिसुहृदोःसुहृत्सु
सं.प्रथमाहे सुहृत्हे सुहृदौहे सुहृदः

नकारान्ताः पुल्लिङ्गाः शब्दाः

We learn four commonly found types under this title.

नकारान्तः पुल्लिङ्गः ‘राजन्’ शब्दः (King)
(र् + आ + ज् + अ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाराजाराजानौराजानः
द्वितीयाराजानम्राजानौराज्ञः
तृतीयाराज्ञाराजभ्याम्राजभिः
चतुर्थीराज्ञेराजभ्याम्राजभ्यः
पञ्चमीराज्ञःराजभ्याम्राजभ्यः
षष्ठीराज्ञःराज्ञोःराज्ञाम्
सप्तमीराज्ञिराज्ञोःराजसु
सं.प्रथमाहे राजन्हे राजानौहे राजानः

We are all familiar with ‘ब्रह्मा’ which is the प्रथमा एकवचन-विभक्तिः of ‘ब्रह्मन्’ शब्दः. Its declension is similar to ‘आत्मन्’ शब्दः which is given below.

नकारान्तः पुल्लिङ्गः ‘आत्मन्’ शब्दः (Self)
(आ + त् + म् + अ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाआत्माआत्मानौआत्मानः
द्वितीयाआत्मानम्आत्मानौआत्मनः
तृतीयाआत्मनाआत्मभ्याम्आत्मभिः
चतुर्थीआत्मनेआत्मभ्याम्आत्मभ्यः
पञ्चमीआत्मनःआत्मभ्याम्आत्मभ्यः
षष्ठीआत्मनःआत्मनोःआत्मानाम्
सप्तमीआत्मनिआत्मनोःआत्मसु
सं.प्रथमाहे आत्मन्हे आत्मानौहे आत्मानः

We learn two more useful नकारान्तौ शब्दौ.

नकारान्तः पुल्लिङ्गः ‘पथिन्’ शब्दः (Road, Way)
(प् + अ + थ् + इ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापन्थाःपन्थानौपन्थानः
द्वितीयापन्थानम्पन्थानौपथः
तृतीयापथापथिभ्याम्पथिभिः
चतुर्थीपथेपथिभ्याम्पथिभ्यः
पञ्चमीपथःपथिभ्याम्पथिभ्यः
षष्ठीपथःपथोःपथाम्
सप्तमीपथिपथोःपथिषु
सं.प्रथमाहे पन्थाःहे पन्थानौहे पन्थानः

नकारान्तः पुल्लिङ्गः ‘करिन्’ शब्दः (Elephant)
(क् + अ + र् + इ + न्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकरीकरिणौकरिणः
द्वितीयाकरिणम्करिणौकरिणः
तृतीयाकरिणाकरिभ्याम्करिभिः
चतुर्थीकरिणेकरिभ्याम्करिभ्यः
पञ्चमीकरिणःकरिभ्याम्करिभ्यः
षष्ठीकरिणःकरिणोःकरिणाम्
सप्तमीकरिणिकरिणोःकरिषु
सं.प्रथमाहे करिन्हे करिणौहे करिणः

सकारान्ताः पुल्लिङ्गाः शब्दाः

There are few variants in सकारान्ताः पुल्लिङ्गाः शब्दाः. To make it easy for first level students we introduce just one form ‘विद्वस् शब्दः’.

सकारान्तः पुल्लिङ्गः ‘विद्वस्’ शब्दः (Scholar)
(व् + इ + द् + व् + अ + स्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाविद्वान्विद्वांसौविद्वांसः
द्वितीयाविद्वांसम्विद्वांसौविदुषः
तृतीयाविदुषाविद्वद्भ्याम्विद्वद्भिः
चतुर्थीविदुषेविद्वद्भ्याम्विद्वद्भ्यः
पञ्चमीविदुषःविद्वद्भ्याम्विद्वद्भ्यः
षष्ठीविदुषःविदुषोःविदुषाम्
सप्तमीविदुषिविदुषोःविद्वत्सु
सं.प्रथमाहे विद्वान्हे विद्वांसौहे विद्वांसः

There are other पुल्लिङ्ग-हलन्ताः like शकारान्ताः, षकारान्ताः and variants of सकारान्ताः. We do not want to burden the learners with too many forms to start with. We will anyway find these forms in lessons to follow where we can learn their Vibhakthi forms as well. The link to page containing all Halantha Pulling Shabdas is given below for your perusal.

विभिन्न-हलन्ताः पुल्लिङ्गाः शब्दाः

Let us now analyse the हलन्ताः पुल्लिङ्गाः शब्दाः which we came across in the story लवण-व्यापारी.

पदविश्लेषणम्

कथायां स्थितेषु हलन्त-शब्दानां विवरणं पश्याम। Let us now analyze the हलन्ताः शब्दाः found in the story.
कथायाः शीर्षकम् अस्ति ‘लवण-व्यापारी’. The title of the story reads as लवण-व्यापारी which means Salt Merchant.
व्यापारी – नकारान्तः पुल्लिङ्गः व्यापारिन् शब्दः प्रथमा एकवचनम्. विभक्ति-रूपाणि करिन् शब्दवत् भवन्ति।

पदम्विवरणम्समान शब्दः
व्यापारीनकारान्तः पुल्लिङ्गः ‘व्यापारिन्’ शब्दः
प्रथमा एकवचनम्
करिन्
वणिक्जकारान्तः पुल्लिङ्गः ‘वणिज्’ शब्दः
प्रथमा एकवचनम्
वणिज्
रामलालः नाम्ना एकः वणिक् लवण-वाणिज्यं करोति स्म।
धर्मवान्तकारान्तः पुल्लिङ्गः
धर्मवत् शब्दः
प्रथमा एकवचनम्
धीमत्
बुद्धिमान्तकारान्तः पुल्लिङ्गः बुद्धिमत् शब्दः
प्रथमा एकवचनम्
धीमत्
रामलालः धर्मवान् बुद्धिमान् च।
सुहृद्दकारान्तः पुल्लिङ्गः
सुहृद् शब्दः
प्रथमा एकवचनम्
सुहृद्
रामलालस्य सुहृद् कृष्णचन्द्रः तम् मेलितुम् आगच्छत्।
तेजस्वीनकारान्तः पुल्लिङ्गः तेजस्विन् शब्दः
प्रथमा एकवचनम्
गुणिन्
संन्यासीनकारान्तः पुल्लिङ्गः संन्यासिन् शब्दः
प्रथमा एकवचनम्
गुणिन्
कश्चन तेजस्वी संन्यासी सर्वत्र भ्रमणं कृत्वा इदानीम् अस्माकं नगरे आगतवान् अस्ति।
भवान्तकारान्तः पुल्लिङ्गः भवत् सर्वनाम-शब्दः
प्रथमा एकवचनम्
महत्
भवान् अपि मन्दिरं गत्वा तम् पश्यतु।
सन्यासिनःनकारान्तः पुल्लिङ्गः संन्यासिन् शब्दः
षष्ठी एकवचनम्
गुणिन्
रामलालः सन्यासिनः दर्शनार्थं गतवान्।
आत्मनाम्नकारान्तः पुल्लिङ्गः आत्मन् शब्दः
षष्ठी बहुवचनम्
गुणिन्
स्वामिनम्नकारान्तः पुल्लिङ्गः स्वामिन् शब्दः
द्वितीया एकवचनम्
गुणिन्
आत्मनां स्वामिनं दृष्ट्वा कर्मचराः एवम् अवदन्।
ज्ञानिनम्नकाराम्तः पुल्लिङ्गः ज्ञानिन् शब्दः
द्वितीया एकवचनम्
गुणिन्
धीमन्तं कृतज्ञतां वदितुं मन्दिरं प्रति अगच्छत्।

Let us now read different example sentences containing हलन्ताः पुल्लिङ्गाः शब्दाः.

उदाहरणवाक्यानि

वयं सर्वे बेङ्गलुरोः निवासिनः सन्ति।We are all residents of Bengaluru.
निवासिनः – नकारान्तः पुल्लिङ्गः निवासिन् शब्दः - प्रथमा बहुवचनम्
धनवान् पुत्रं पाठयितुं विदुषः नियोजितवान्।Richman engaged Scholars to teach his son.
धनवान् – तकारान्तः पुल्लिङ्गः धनवत् शब्दः - प्रथमा एकवचनम्
विदुषः – सकारान्तः पुल्लिङ्गः विद्वस् शब्दः – द्वितीया बहुवचनम्
काकः आत्मानं सुन्दरः इति अमन्यत।Crow thought himself to be good looking.
आत्मानं – नकारान्तः पुल्लिङ्गः आत्मन् शब्दः - द्वितीया एकवचनम्
दिलीपः सुहृद्भयां सह नगरं गच्छति।Dilip goes to City with two friends.
सुहृद्भयां – दकारान्तः पुल्लिङ्गः सुहृद् शब्दः - तृतीया द्विवचनम्
विद्यार्थिनः महता परिश्रमेण शास्त्राणि अधीयते।Student learn Sastras by working hard.
विद्यार्थिनः – नकारान्तः पुल्लिङ्गः विद्यार्थिन् शब्दः – प्रथमा बहुवचनम्
महता – तकारान्तः पुल्लिङ्गः महत् शब्दः – तृतीया एकवचनम्
राज्ञः आज्ञां पालय।Follow king’s Order.
राज्ञः – नकारान्तः पुल्लिङ्गः राजन् शब्दः – षष्ठी एकवनम्
प्रतिभाशालिनां मन्त्रिणां मतान् श्रृत्वा राजा राज्यपरिपालनम् अकरोत्।King ruled the kingdom hearing the words of intelligent ministers.
प्रतिभाशालिनां – नकारान्तः पुल्लिङ्गः प्रतिभाशालिन् शब्दः – षष्ठी बहुवचनम्
मन्त्रिणां – नकारान्तः पुल्लिङ्गः मन्त्रिन् शब्दः – षष्ठी बहुवचनम्
ज्ञानिनि ग्रामिणाम् प्रीतिः आदरः च स्तःVillagers have respect and love for the wise man.
ज्ञानिनि – नकारान्तः पुल्लिङ्गः ज्ञानिन् शब्दः – सप्तमी एकवचनम्
ग्रामिणाम् – नकारान्तः पुल्लिङ्ग) ग्रामिन् शब्दः – षष्ठी बहुवचनम्

It is possible to observe some common patterns in Vibhakthi forms for Halanthas with similar endings. We can use these patterns to identify the Shabdha when we read them in texts, slokas and poetry. We get a clearer picture when we do more writing practices.

ज्ञानबलार्थम् अवगमण-निश्चयार्थं च अभ्यासं कुर्म। Let us now do some practice exercises to check our understanding and strengthen our learning.

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on the story. कथासम्बन्धितानां प्रश्नानाम् उत्तराणि लिखत।
    1. रामलालः किं करोति स्म? सः कीदृशः?
    2. संन्यासी रामलालाय किं उपदेशं कृतवान्?
    3. कर्मचराः लवण-गोण्यः किं अकुर्वन्?
    4. तस्मिन् दिने रात्रौ का अभवत्?
    5. प्रातः रामलालः किम् ज्ञातवान्?

  2. Write the Vibhakthi form of the given noun as directed. दत्तस्य प्रातिपदिकस्य निर्दिष्टं पदम् लिखत।

    उदाहरणम्-

    मरुत् – पञ्चमी बहुवचनम्
    उत्तरम् - मरुद्भ्यः


    1. पन्थिन् – षष्ठी बहुवचनम्
    2. कीर्तिमत् – चतुर्थी एकवचनम्
    3. शास्त्रविद् – पञ्चमी एकवचनम्
    4. राजन् – सप्तमी एकवचनम्
    5. आत्मा – तृतीया द्विवचनम्
    6. भिषज् – सप्तमी बहुवचनम्
    7. अनुभवशालिन् – प्रथमा एकवचनम्
    8. भवत् – द्वितीया द्विवचनम्
    9. महत् – षष्ठी बहुवचनम्
    10. करिण् – सप्तमी द्विवचनम्
  3. Write all Vibhakthi forms of given Shabdhas. शब्दानां सर्वान् विभक्ति-रुपान् लिखत।
    1. भगवत् शब्दः
    2. ज्ञानिन् शब्दः
    3. ब्रह्मन् शब्दः
    4. हनुमत् शब्दः
  4. Fill in the blanks with suitable noun forms using the Shabdhas given in Parentheses. आवरणे दत्तानां प्रातिपदिकानाम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु।

    उदाहरणम्-

    बालिका _________ भिक्षाम् अददात्। (संन्यासिन्)
    बालिका संन्यासिने भिक्षाम् अददात्।


    1. ______ परितः बहवः जनाः सन्ति। (विद्वस्)
    2. ______ सर्वेषाम् आदरः आसित्। (ज्ञानिन्)
    3. सः _______ बलं बलहीनं च अजानत। (आत्मन्)
    4. ______ समीपं शिशुं नयामः। (भिषज् - Doctor)
    5. यूयं सर्वे ______ सन्ति। (बुद्धिमान्)
    6. ते ______ महावीराः च। (राजन्)
    7. रामलालः ______ _______ च। (धनवत्, गुणिन्)
    8. माता पुत्रार्थं _______ त्यागं कृतवती। (महान्)
    9. _____ उभयतः वृक्षाः सन्ति। (पथिन्)
    10. महा-विद्यालये _______ कृते प्रवासवसतिः अस्ति। (विद्यार्थिन् षष्ठी बहुवचनम्)
  5. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. Woman worships God. (to worship – आराधय God – Use भगवद् शब्दः)
    2. Ravana saw Hanuman. (रावणः, हनुमत् शब्दः declines like धीमत्)
    3. I will never forget the help of you two friends. (Friend – सुहृद्, forget – विस्मृ (Think of the future of स्मरामि) never - कदाऽपि)
    4. Bhagiratha took great effort to bring down Ganga. (भगीरथः bringing down - अवतारणम्)
    5. Servant follows Master. (Servant - सेवकः . Master – स्वामिन् शब्दः to follow – अनु + गम् )
    6. In this hospital there are many experienced doctors. ( Hospital- चिकित्सालयः experienced – अनुभवशालिन् Doctor – भिषज्)
    7. I got money from that rich man. (rich man – धनवत् शब्दः)
    8. People consider uneducated man to be useless. (People – लोकाः to consider – आत्मनेपदी मन् धातुः (मन्य) uneducated – अविद्यावान् useless – निष्प्रयोजनम् )
    9. Sishyas give dakshina to the wise guru. (wise – ज्ञानिन्)
    10. Scientist got award from Prime Minister (Scientist - विज्ञानिन् , Award – पुरस्कारः, Prime Minister- प्रधान-मन्त्रिन्)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


You come across Halantha Shabdhas first time in this lesson. We got the initial taste of Halantha Pullinga Shabdhas. How do Halantha Shabdhas decline in Sthree and Napumsaka Lingas? We learn हलन्ताः स्त्रीलिङ्गाः तथा नपुंसकलिङ्गाः शब्दाः in the next two lessons to follow. Our next lesson is…..
Lesson 3 Halantha Sthrilinga Shabdas - हलन्ताः स्त्रीलिङ्गाः शब्दाः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...