We have so far learned in this module... |
The goal of this lesson is ….. |
|
We praise the glory of Lord Shanmukha, Mahadeva’s Son to get the Zeal and enthusiasm to learn and continue learning संस्कृतम्.
![]() | मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम्। महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम्॥ |
"I sing the praise of The Lord who is seated on the peacock, the hidden essence of Maha Vakhyas, one with an attractive heart winning body, dwelling in the heart of Great Sages (महानः), revered by Brahmanas, the essence of all Vedas, Son of Mahadeva and the ruler of Universe."
In the above prayer, note the द्वितीया एकवचनम् forms like मयूराधिरूढं etc which all serve as adjective to महादेवबालं which is the कर्म-पदम् in the Prayer.
Every page in संस्कृतवीथी starts with Mahakavi Kalidasa’s Prayer on पार्वती-परमेश्वरौ. It starts with the compound word ‘वागर्थौ’ which when expanded reads as ‘वाग् च अर्थ च’ that is word and its meaning. ‘वाक् / वाग्’ meaning word is the प्रथमा एकवचनम् of चकारान्तः स्त्रीलिङ्गः शब्दः ‘वाच्’. We learn the Vibkathi forms of हलन्ताः स्त्रीलिङ्गाः शब्दाः like ‘वाच्’ in this lesson.
We anyway look at a picture and its description to get used to some हलन्ताः स्त्रीलिङ्गाः शब्दाः. चित्रं पश्यन्तु, वर्णनं पठन्तु च।
अस्मिन् चित्रे वयं काञ्चन योषितं पश्यामः। तस्याः नाम अस्ति दामिनी। दामिनी शब्दस्य पर्यायवाची-शब्दाः सन्ति तडित्, विद्युत् इत्यादयः। दामिन्याः कुटीरं नदी-तीरे पार्श्वे एव वर्तते। अस्मिन् भागे सरित् मन्दमेव प्रवहति। अतः सरिति तीर-समीपे एव बहूनि कमलानि उद्भवन्ति।
चित्रे एका नौका अपि दृश्यते। दामिनी कुशला नाविका अपि च। सा कमलपुष्पैः स्रजः गुम्फति। सज्जीकृताः स्रजः नौकायाम् आरोप्य समीपे स्थितं नगरं नयति। नगरे स्रजां विक्रयणेन यत् धनं लभ्यते तेन आत्मनः जीवितं यापयति।
दामिनी न केवलं सुन्दरी धीरा युवति च। सा कुटीरे एकाकिनी वसति। आपदि विपदि वा दुरितानि धैर्येन अभिमुखी-कृत्य अग्रे चलति। सा लोकान् स्वस्याः नौकायां आरोप्य सरितं तारयति। कमलानि चिन्वती दामिनी काचन अप्सराः इव दृश्यते इति लोकाः वदन्ति।
शब्द-परिचयः | ||
---|---|---|
शब्दः | अर्थः | विश्लेषणम् |
योषितम् | योषित् – स्त्री, नारी, महिला Woman योषितं (कर्म) | तकारान्तः स्त्रीलिङ्गः ‘योषित्’ शब्दः द्वितीया एकवचनम् |
तडित् | दामिनी - Lightning | तकारान्तः स्त्रीलिङ्गः ‘तडित्’ शब्दः प्रथमा एकवचनम् |
विद्युत् | तडित् - Lightning | तकारान्तः स्त्रीलिङ्गः ‘विद्युत्’ शब्दः प्रथमा एकवचनम् |
नदी-तीरे | तीरम् – Bank (river) नदी-तीरे – on the river bank | अकारान्तः नपुंसकलिङ्गः ‘तीर’ शब्दः षष्ठी एकवचनम् |
सरित् | नदी | तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः प्रथमा एकवचनम् |
सरिति | नद्याम् – in the river | तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः सप्तमी एकवचनम् |
उद्भवन्ति | Grow (in the context of the lesson.) | ‘उद् + भू’ धातुः लट् लकारः प्रथमपुरष-बहुवचनम् |
नाविका | Boat woman | आकारान्तः स्त्रीलिङ्गः ‘नाविका’ शब्दः प्रथमा एकवचनम् |
स्रजः | स्रज् – माला स्रजः - बहुवचनम् | जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः प्रथमा बहुवचनम् |
गुम्फति | strings | ‘गुम्फ्’ धातुः लट् लकारः प्रथमपुरष-एकवचनम् |
स्रजाम् | स्रज् – माला स्रजाम् - षष्ठी बहुवचनम् | जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः षष्ठी बहुवचनम् |
एकाकिनी | Alone | ईकारान्तः स्त्रीलिङ्गः ‘एकाकिनी’ शब्दः प्रथमा एकवचनम् |
आपदि | आपद् – विपद् Danger, Calamity आपदि – in Danger | दकारान्तः स्त्रीलिङ्गः ‘आपद्’ शब्दः सप्तमी एकवचनम् |
विपदि | विपद् – आपद् Danger, Calamity विपदि - – in Danger | दकारान्तः स्त्रीलिङ्गः ‘विपद्’ शब्दः सप्तमी एकवचनम् |
दुरितानि | दुरितम् – Difficulty दुरितानि - Plural | अकारान्तः नपुंसकलिङ्गः ‘दुरित’ शब्दः प्रथमा बहुवचनम् |
अभिमुखी-कृत्य | Facing | ल्यबन्तम् अव्ययम् |
चिन्वती | Plucking One who is plucking | ‘चि’ धातुः + शतृ प्रत्ययः स्त्रीलिङ्गः शब्दः |
आत्मनः | स्वस्य – one’s | नकारान्तः पुल्लिङ्गः ‘आत्मन्’ शब्दः षष्ठी एकवचनम् |
अप्सराः | Apsara Female dancers in Devaloka | सकारान्तः स्त्रीलिङ्गः ‘अप्सरस्’ शब्दः प्रथमा एकवचनम् |
दृश्यते | भासते - Appears, seen | ‘दृश्’ परस्मैपदी धातुः लट् लकारः कर्मणि प्रयोगः प्रथमपुरुषः एकवचनम् |
The lesson is made using some हलन्ताः स्त्रीलिङ्गाः शब्दाः which are highlighted in yellow. We learn a new synonym for महिला or स्त्री in this lesson ‘यौषित्’ which is a हलन्तः शब्दः. अमरकोषः इति प्रसिद्धः ग्रन्थः, यस्मिन् पर्याय-शब्दाः एकत्र संगृहीताः वर्तन्ते। In the popular Amara Kosha Synonyms are collected and placed together. We present the sloka containing पर्याय-शब्दाः of स्त्री।
The list of स्त्रीलिङ्गाः शब्दाः given in the above Sloka meaning ‘Woman’ are as follows:
स्त्री, योषिद्, अबला, योषा, नारी, सीमन्तिनी, वधूः, प्रतीपदर्शिनी, वामा, वनिता, महिला.
एवम् एकादशाः शब्दाः स्त्री-अर्थं द्योतयन्ति। This way अमरकोषः lists 11 names to be used for 'Woman'. ‘योषिद्’ a हलन्तः is used in this lesson.
We first learn the Vibhakthi forms of some हलन्ताः स्त्रीलिङ्गाः शब्दाः with common endings. The example sentences will follow the Shabdha tables.
We started this lesson with the mention of the word ‘‘वाक् / वाग्’’ which is the प्रथमा एकवचनम् form of चकारान्तः ‘वाच्’. We now learn the Vibhakthi form of ‘वाच्’ first.
चकारान्तः स्त्रीलिङ्गः ‘वाच्’ शब्दः (Speech) (व् + आ + च्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | वाक् / वाग् | वाचौ | वाचः |
द्वितीया | वाचम् | वाचौ | वाचः |
तृतीया | वाचा | वाग्भ्याम् | वाग्भिः |
चतुर्थी | वाचे | वाग्भ्याम् | वाग्भ्यः |
पञ्चमी | वाचः | वाग्भ्याम् | वाग्भ्यः |
षष्ठी | वाचः | वाचोः | वाचाम् |
सप्तमी | वाचि | वाचोः | वाक्षु |
सं.प्रथमा | हे वाक् /हे वाग् | हे वाचौ | हे वाचः |
Under this title, we learn the forms of ‘स्रज्’ which we come across in the lesson.
जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः (Garland) (स् + र् + अ + ज्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | स्रक् / स्रग् | स्रजौ | स्रजः |
द्वितीया | स्रजम् | स्रजौ | स्रजः |
तृतीया | स्रजा | स्रग्भ्याम् | स्रग्भिः |
चतुर्थी | स्रजे | स्रग्भ्याम् | स्रग्भ्यः |
पञ्चमी | स्रजः | स्रग्भ्याम् | स्रग्भ्यः |
षष्ठी | स्रजः | स्रजोः | स्रजाम् |
सप्तमी | स्रजि | स्रजोः | स्रक्षु |
सं.प्रथमा | हे स्रक् / हे स्रग् | हे स्रजौ | हे स्रजः |
We learned तकारान्ताः स्त्रीलिङ्गाः शब्दाः like, योषित्, सरित्, तडित् and विद्युत् in this lesson. They all decline in a manner similar to पुल्लिङ्गः शब्दः ‘मरुत्‘, which we learned in the previous lesson.
तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः (River) (स् + अ + र + इ + त्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | सरित् | सरितौ | सरितः |
द्वितीया | सरितम् | सरितौ | सरितः |
तृतीया | सरिता | सरिद्भ्याम् | सरिद्भिः |
चतुर्थी | सरिते | सरिद्भ्याम् | सरिद्भयः |
पञ्चमी | सरितः | सरिद्भ्याम् | सरिद्भयः |
षष्ठी | सरितः | सरितोः | सरिताम् |
सप्तमी | सरिति | सरितोः | सरित्सु |
सं.प्रथमा | हे सरित् | हे सरितौ | हे सरितः |
आपद् and विपद् are the दकारान्ताः स्त्रीलिङ्गाः शब्दाः which we saw in this lesson. They decline similar to ‘शरद्’ शब्दः whose forms are given below. रूपाणि सुहृद्-शबदवत् (पुल्लिङ्गशब्दः) सन्ति। The forms are similar to those of Masculine सुहृद्-शब्दः.
दकारान्तः स्त्रीलिङ्गः ‘शरद्’ शब्दः (Autumn) (श् + अ + र् +अ + द्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | शरद् / शरत् | शरदौ | शरदः |
द्वितीया | शरदम् | शरदौ | शरदः |
तृतीया | शरदा | शरद्भ्याम् | शरद्भिः |
चतुर्थी | शरदे | शरद्भ्याम् | शरद्भयः |
पञ्चमी | शरदः | शरद्भ्याम् | शरद्भयः |
षष्ठी | शरदः | शरदोः | शरदाम् |
सप्तमी | शरदि | शरदोः | शरत्सु |
सं.प्रथमा | हे शरद् / हे शरत् | हे शरदौ | हे शरदः |
‘अप्’ is a Feminine Shabdha meaning Water. It always assumes Plural forms.
प्रथमा | आपः |
द्वितीया | अपः |
तृतीया | अद्भिः |
चतुर्थी | अद्भयः |
पञ्चमी | अद्भयः |
षष्ठी | अपाम् |
सप्तमी | अप्सु |
सं.प्रथमा | हे आपः |
शकारान्तः स्त्रीलिङ्गः ‘दिश्’ शब्दः (Direction) (द् + इ + श्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | दिक् / दिग् | दिशौ | दिशः |
द्वितीया | दिशम् | दिशौ | दिशः |
तृतीया | दिशा | दिग्भ्याम् | दिग्भिः |
चतुर्थी | दिशे | दिग्भ्याम् | दिग्भ्यः |
पञ्चमी | दिशः | दिग्भ्याम् | दिग्भ्यः |
षष्ठी | दिशः | दिशोः | दिशाम् |
सप्तमी | दिशि | दिशोः | दिक्षु |
सं.प्रथमा | हे दिक् / हे दिग् | हे दिशौ | हे दिशः |
We saw the Samskrita word for Lightning is feminine – तडित् or विद्युत्. We have a feminine word for ‘Light’ as well.
सकारान्तः स्त्रीलिङ्गः ‘भास्’ शब्दः (Light) (भ् +आ + स्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | भाः | भासौ | भासः |
द्वितीया | भासम् | भासौ | भासः |
तृतीया | भासा | भाभ्याम् | भाभिः |
चतुर्थी | भासे | भाभ्याम् | भाभ्यः |
पञ्चमी | भासः | भाभ्याम् | भाभ्यः |
षष्ठी | भासः | भासोः | भासाम् |
सप्तमी | भासि | भासोः | भास्सु |
सं.प्रथमा | हे भाः | हे भासौ | हे भासः |
Most of you would be familiar with ‘आशीर्वादः’ meaning a word of blessing. The leading word in the compound word is ‘आशिष्’ which is a षकारान्ताः स्त्रीलिङ्गाः शब्दाः meaning Blessing.
षकारान्तः स्त्रीलिङ्गः ‘आशिष्’ शब्दः (Blessing) (आ + श् + इ + ष्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | आशीः | आशिषौ | आशिषः |
द्वितीया | आशिषम् | आशिषौ | आशिषः |
तृतीया | आशिषा | आशीर्भ्याम् | आशीर्भिः |
चतुर्थी | आशिषे | आशीर्भ्याम् | आशीर्भ्यः |
पञ्चमी | आशिषः | आशीर्भ्याम् | आशीर्भ्यः |
षष्ठी | आशिषः | आशिषोः | आशिषाम् |
सप्तमी | आशिषि | आशिषोः | आशीष्षु / आशीःषु |
सं.प्रथमा | हे आशीः | हे आशिषौ | हे आशिषः |
There are other हलन्ताः स्त्रीलिङ्गाः शब्दाः which occur less frequently. We will anyway analyse the Vibhakthi forms of such noun forms which we come across in lessons. The link to page containing all Halantha Sthree Linga Shabdas is given below for your perusal.
विभिन्न-हलन्ताः स्त्रीलिङ्गाः शब्दाः
Let us now analyse the हलन्ताः स्त्रीलिङ्गाः शब्दाः which are found in the lesson ‘मालाकारी दामिनी’.
पाठे उपलब्धानां हलन्त-शब्दानां विवरणं पश्याम।
पदम् | विवरणम् | समान शब्दः |
---|---|---|
योषितम् | तकारान्तः स्त्रीलिङ्गः ‘योषित्’ शब्दः प्रथमा द्विवचनम् | सरित् |
तडित् | तकारान्तः स्त्रीलिङ्गः ‘तडित्’ शब्दः प्रथमा एकवचनम् | सरित् |
विद्युत् | तकारान्तः स्त्रीलिङ्गः ‘विद्युत्’ शब्दः प्रथमा एकवचनम् | सरित् |
सरित् | तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः प्रथमा एकवचनम् | सरित् |
स्रजः | जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः द्वितीया बहुवचनम् | स्रज् |
स्रजाम् | जकारान्तः स्त्रीलिङ्गः ‘स्रज्’ शब्दः षष्ठी बहुवचनम् | स्रज् |
आपदि | दकारान्तः स्त्रीलिङ्गः ‘आपद्’ शब्दः सप्तमी एकवचनम् | शरद् |
विपदि | दकारान्तः स्त्रीलिङ्गः ‘विपद्’ शब्दः सप्तमी एकवचनम् | शरद् |
अप्सराः | सकारान्तः स्त्रीलिङ्गः ‘अप्सरस्’ शब्दः प्रथमा एकवचनम् | भास् |
We saw in the previous lesson, पुल्लिङ्गे the of join of प्रत्ययाः like क्तवतु to Verb-roots result in हलन्ताः शब्दाः. Same way, प्रत्ययाः like ‘मतुप्’ join with other Shabdas to produce consonant ending nouns. यथा...
गतवत् – गम् धातुः + क्तवतु. (तकारान्तः पुल्लिङ्गः शब्दः)
गच्छत् – गम् धातुः+ शतृ. (तकारान्तः पुल्लिङ्गः शब्दः)
भगवत् – भग् शब्दः मतुप्. (तकारान्तः पुल्लिग्हः शब्दः)
The corresponding forms in स्त्रीलिङ्गः happen to be अजन्ताः शब्दाः (Vowel ending nouns) mostly ईकारान्ताः.
क्तवतु-प्रत्ययान्ताः | |
---|---|
पुल्लिङ्गे | स्त्रीलिङ्गे |
गतवत् प्रथमा एकवचनम् - गतवान् | गतवती प्रथमा एकवचनम् – गतवती |
पतितवत् प्रथमा एकवचनम् - पतितवान् | पतितवती प्रथमा एकवचनम् – पतितवती |
लिखितवत् प्रथमा एकवचनम् - लिखितवान् | लिखितवती प्रथमा एकवचनम् – लिखितवती |
शतृ- प्रत्ययान्ताः | |
पुल्लिङ्गे | स्त्रीलिङ्गे |
गच्छत् प्रथमा एकवचनम् - गच्छन् | गच्छन्ती प्रथमा एकवचनम् - गच्छन्ती |
पतत् प्रथमा एकवचनम् - पतन् | पतन्ती प्रथमा एकवचनम् - पतन्ती |
लिखत् प्रथमा एकवचनम् - लिखन् | लिखती / लिखन्ती प्रथमा एकवचनम् – लिखती / लिखन्ती |
मतुप्-प्रत्ययान्ताः | |
पुल्लिङ्गे | स्त्रीलिङ्गे |
भगवत् प्रथमा एकवचनम् - भगवान् | भगवती प्रथमा एकवचनम् – भगवती |
श्रीमत् प्रथमा एकवचनम् - श्रीमान् | श्रीमती प्रथमा एकवचनम् – श्रीमती |
अन्याः केचन शब्दाः | |
पुल्लिङ्गे | स्त्रीलिङ्गे |
श्रेयस् प्रथमा एकवचनम् – श्रेयान् | श्रेयसी प्रथमा एकवचनम् – श्रेयसी |
विद्वस् प्रथमा एकवचनम् - विद्वान् | विदूषी प्रथमा एकवचनम् – विदूषी |
धनवत् प्रथमा एकवचनम् - धनवान् | धनवती प्रथमा एकवटनम् - धनवती |
Let us now read different example sentences containing हलन्ताः स्त्रीलिङ्गाः शब्दाः.
शिशूनां वाचः मधुरा सन्ति। | Words of Children are sweet. |
वाचः – चकारान्तः स्त्रीलिङ्गः वाक् शब्दः - प्रथमा बहुवचनम् | |
योषिताम् आदरः सर्वदा भवतु। | May the respect for women be always there. |
योशिताम् – तकारान्तः स्त्रीलिङ्गः योशित् शब्दः – षष्ठी बहुवचनम् | |
मातुः आशिभिः पुत्राः उत्साहं प्राप्नुवन्। | Sons got enthusiasm from mother’s blessings |
आशिभिः – षकारान्तः स्त्रीलिङ्गः आशिष् शब्दः - तृतीया बहुवचनम् | |
मीनाः सरिति वसन्ति। | Fishes live in the river. |
सरिति – तकारान्तः स्त्रीलिङ्गः सरित् शब्दः – सप्तमी एकवचनम् | |
हे भगवन् आपद्भ्यः माम् रक्ष। | Hey Bhagavan, save me from calamities. |
आपद्भ्यः – दकारान्तः स्त्रीलिङ्गः आपद् शब्दः – पञ्चमी बहुवचनम् | |
शरदि चन्द्रः सप्ष्टं प्रकाशते। | Moon shines clearly during Autumn season |
शरदि – दकारान्तः स्त्रीलिङ्गः शरद् शब्दः – सप्तमी एकवचनम् | |
सरितः जलं स्वच्छम् अस्ति। | River water is clean. |
सरितः – तकारान्तः स्त्रीलिङ्गः सरित् शब्दः – षष्ठी एकवचनम् | |
ऊर्वशी अप्सरस्सु अन्यतमा। | Urvasi is one of the Apsaras. |
अप्सरस्सु – सकारान्तः स्त्रीलिङ्गः अपसरस् शब्दः – सप्तमी बहुवचनम् |
We learned some commonly used हलन्ताः स्त्रीलिङ्गाः शब्दाः in this lesson. When we come across other feminine consonant endings in lessons to follow, we will be discussing their different forms.
Doing Practice exercises is indispensable. अभ्यासाः अनिवार्याः। इदानीम् अभ्यासान् कुर्म।
सरित् – पञ्चमी बहुवचनम्
उत्तरम् - सरिद्भयः
पितुः _________ पुत्रः न अशृणोत्। (वाच्)
पितुः वाचं पुत्रः न अशृणोत्।
We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We are now left only with हलन्ताः नपुंसकलिङ्गाः शब्दाः. We learn the neuter forms of the likes of जवत्, मनस् and नामन् in our next lesson. Our next lesson is…..
Lesson 4 Halantha Napumsakalinga Shabdas - हलन्ताः नपुंसकलिङ्गाः शब्दाः
![]() | 0 comments |
To get updates on
संस्कृतवीथी...