We learn about........ | ||
We have so far learned in this module... |
The goal of this lesson is ….. |
|
लक्ष्मीः is not merely the bestower of wealth. As विद्यालक्ष्मीः She also enables beautiful expression to knowledge. Let us start this lesson with Namaskara to Lakshmi. अस्य पाठस्य आरम्भः लक्ष्मी-स्थुत्या सह भवेत्। शङ्गराचार्येन विरचितात् कनकधारा-स्तोत्र-सङ्ग्रहात् एकः श्लोकः....
गीर्देवतेति गरुडध्वजसुन्दरीति- शाकम्भरीति शशिशेखरवल्लभेति। सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै।। |
"My Namaskara to her, Lakshmi the youthful consort of the single Guru of all the three worlds (Narayana),
Who is eternally present in the play of Srishti, Sthithi and Pralaya, as Goddess of Speech, as the beautiful consort of Vishnu who has Garuda as Banner,as the one who nourishes everyone with vegetation, and as the beloved of Lord shiva who adorns the crescent moon on head."
Note the use of चतुर्थी-स्त्रीलिङ्ग-एकवचनरूपाणि like संस्थितायै, तस्यै and तरुण्यै along with 'नमः' शब्दः. Try finding the प्रातिपदिकानि of these Padas.
We started learning simple conversation with, “भवतः नाम किम्? तव नाम किम्? मम नाम विवेकः।“ and the like. The word ‘नाम’ meaning name is a हलन्तः नपुंसकलिङ्गः शब्दः. It is नकारान्तः नामन् शब्दः with the form नाम for प्रथमा एकवचनम्. We learn the Vibhakthi forms of such हलन्ताः नपुंसकलिङ्गाः शब्दाः in this lesson. We first start with a write up containing Neuter consonant ending words.
प्रकृति-सौन्दर्यं अस्मभ्यं सर्वेभ्यः आनन्दं ददाति। वृष्टि-अवसाने (वृष्ट्यवसाने) जायमानम् इन्द्रधनुः चक्षुषाम् कृते वर्णोत्सवं प्रदानं करोति। अम्भोरुहैः पूरितं सरः दृष्ट्वा मनसि शान्तिम् अनुभवयामः। जलप्रपात-सान्निध्यम् प्रकृतेः कर्मणः उत्कृष्टतां अस्मान् बोधयति। प्रभाते पक्षिणां कलरवान् श्रुत्वा वयं जाग्रति।
सम्प्रति वयम् इमे वैभवानि किञ्चित् अनुभवयामः इति सत्यम्। किम् आगामि-परम्पराः एतान् अनुभवितुम् शक्ष्यन्ति? शुद्धवायुः दुर्लभ्यः भविष्यति। सर्वत्र स्रोतांसि प्रदूषितानि स्थास्यन्ति। रासायनिकानां कीडनाशकवस्तूनां अनियन्त्रितेन उपयोगेन केदाराः शुद्धानि पोषकाणि च धान्यादीनि उत्पादयितुं असमर्थाः भविष्यन्ति। पक्षि-मृगादीनां नाशः प्रभूतया मात्रया सम्भविष्यति।
जगतः ईदृश्याः दुस्स्थितेः कारणं मनुष्यानां स्वार्थ्ता एव। विकसनस्य नाम्ना गगनचुम्भीनि बहुस्तरीयाणि भवनानि, वाहनानि यन्त्रागाराः च सर्वत्र वर्धमानाः सन्ति। एतेभ्यः अनियन्त्रितया निर्गम्यमानैः मलिनैः वस्तुभिः अस्माकं पर्यावरणं प्रदूषितं तिष्ठति। प्रकृतेः शोभा स्थिरं वर्तयितुं प्राकृतिक-साधनानां दीर्घकालिक-रक्षणार्थं च पर्यावरण-संरक्षणम् अस्माकं प्रादान्यं कर्तव्यं भवेत्।
शब्द-परिचयः | ||
---|---|---|
शब्दः | अर्थः | विश्लेषणम् |
अस्मभ्यम् | For us | दकारान्तः त्रिषुलिङ्गेषु ‘अस्मद्’ शब्दः चतुर्थी बहुवचनम् |
वृष्ट्यवसाने | अवसाने – in the end वृष्टि-अवसाने – as the rain ends | अकारान्तः नपुंसकलिङ्गः ‘अवसान’ शब्दः सप्तमी एकवचनम् |
जायमानम् | Appearing (in the context of the sentence) | ‘जन्’ धातुः + शतृ प्रत्ययः ‘जायमान’ शब्दः जायमानम् – नपुंसके प्रथमा एकवचनम् |
इन्द्रधनुः | धनुः – Bow इन्द्रधनुः - Rainbow | षकारान्तः नपुंसकलिङ्गः ‘धनुष्’ शब्दः प्रथमा एकवचनम् |
चक्षुषाम् | चक्षुः - Eye चक्षुषाम् - For the eyes | षकारान्तः नपुंसकलिङ्गः ‘चक्षुष्’ शब्दः षष्ठी बहुवचनम् |
वर्णोत्सवं | उत्सवः – Celebration, Feast वर्णोत्सवः – Feast to eyes वर्णोत्सवं - कर्मपदम् | अकारान्तः नपुंसकलिङ्गः ‘उत्सव’ शब्दः द्वितीया एकवचनम् |
अम्भोरुहैः | अम्भोरुहम् – Lotus अम्भोरुहैः – with Lotus (plural) | अकारान्तः नपुंसकलिङ्गः ‘अम्भोरुह’ शब्दः तृतीया बहुवचनम् |
सरः | Pond कर्मपदम् | सकारान्तः नपुंसकलिङ्दः ‘सरस्’ शब्दः द्वितीया एकवचनम् |
मनसि | मनः - Mind मनसि – in Mind | सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः सप्तमी एकवचनम् |
जलप्रपात-सान्निध्यम् | जलप्रपातः – Water fall जलप्रपात-सान्निध्यम् – nearness of Water fall | अकारान्तः नपुंसकलिङ्गः ‘सान्निध्य’ शब्दः प्रथमा एकवचनम् |
प्रकृतेः | प्रकृतिः - Nature प्रकृतेः – Nature’s | इकारान्तः स्त्रीलिङ्गः ‘प्रकृति’ शब्दः षष्ठी एकवचनम् |
कर्मणः | कर्म – Work कर्मणः – Work’s | नकारान्तः नपुंसकलिङ्गः ‘कर्मन्’ शब्दः षष्ठी एकवचनम् |
उत्कृष्टताम् | उत्कृष्टता – Excellence उत्कृष्टतां - कर्म | आकारान्तः स्त्रीलिङ्गः ‘उत्कृष्टता’ शब्दः द्वितीया एकवचनम् |
अस्मान् | us | दकारान्तः त्रिषुलिङ्गेशु ‘अस्मद्’ शब्दः द्वितीया बहुवचनम् |
प्रभाते | प्रभातम् – Morning प्रभाते - in the morning | अकारान्तः नपुंसकलिङ्गः ‘प्रभात’ शब्दः सप्तमी एकवचनम् |
पक्षिणाम् | पक्षिणः – खगाः Birds पक्षिणाम् – of Birds | नकारान्तः पुल्लिङ्गः ‘पक्षिन्’ शब्दः षष्ठी बहुवचनम् |
कलरवान् | Chirping of Birds | अकारान्तः पुल्लिङ्गः ‘कलरव’ शब्दः द्वितीया बहुवचनम् |
सम्प्रति | अधुना – Now a days | अव्ययम् पदम् |
वैभवानि | Grandeur (Plural) | अकारान्तः नपुंसकलिङ्गः ‘वैभव’ शब्दः प्रथमा बहुवचनम् |
आगामि-परम्पराः | Future generations | आकारान्तः स्त्रीलिङ्गः ‘परम्परा’ शब्दः प्रथमा बहुवचनम् |
शक्ष्यन्ति | Will be able to (Plural) | ‘शक्’ परस्मैपदी धातुः ऌट् लकारः प्रथमपुरुषः बहुवचनम् |
दुर्लभ्यः | Scarce | अकारान्तः पुल्लिङ्गः ‘दुर्लभ्य’ शब्दः प्रथमा एकवचनम् |
स्रोतांसि | स्रोतः – सरिता, नदी स्रोतांसि - Rivers | सकारान्तः नपुंसकलिङ्गः स्रोतस् शब्दः प्रथमा बहुवचनम् |
प्रदूषितानि | मलिनानि | अकारान्तः नपुंसकलिङ्गः ‘प्रदूषित’ शब्दः प्रथमा बहुवचनम् |
स्थास्यन्ति | भविष्यन्ति (in this context) become | ‘स्था’ परस्मैपदी धातुः ऌट् लकारः प्रथमपुरुषः बहुवचनम् |
रासायनिकानाम् | Pertaining to chemical | अकारान्तः पुल्लिङ्गः ‘रसायिनिक’ शब्दः षष्ठी बहुवचनम् |
कीडनाशकवस्तूनाम् | Of Insecticides | उकारान्तः पुल्लिङ्गः वस्तु शब्दः षष्ठी बहुवचनम् |
अनियन्त्रितेन | (By) Uncontrolled | अकारान्तः पुल्लिङ्गः नियन्त्रित शब्दः तृतीया एकवचनम् |
केदाराः | क्षेत्राणि Fields | अकारान्तः पुल्लिङ्गः ‘केदार’ शब्दः प्रथमा बहुवचनम् |
पोषकाणि | Nourishing | अकारान्तः नपुंसकलिङ्गः ‘पोषक’ शब्दः प्रथमा बहुवचनम् |
धान्यादीनि | Grains and likes | अकारान्तः नपुंसकलिङ्गः ‘धान्य’ शब्दः तथैव धान्य+आदी प्रथमा बहुवचनम् |
प्रभूतया | Excessive | आकारान्तः स्त्रीलिङ्गः ‘प्रभूता’ श्ब्दः तृतीया एकवचनम् |
मात्रया | High degree | आकारान्तः स्त्रीलिङ्गः ‘मात्रा’ श्ब्दः तृतीया एकवचनम् |
जगतः | World’s | तकारान्तः नपुंसकलिङ्गः जगत् शब्दः षष्ठी एकवचनम् |
ईदृश्याः | Of this kind | आकारान्तः स्त्रीलिङ्गः ईदृशा शब्दः षष्ठी एकवचनम् |
दुस्स्थितेः | Of bad state | इकारान्तः स्त्रीलिङ्गः स्थितिः शब्दः षष्ठी एकवचनम् |
स्वार्थता | Selfishness | आकारान्तः स्त्रीलिङ्गः ‘स्वार्थता’ शब्दः प्रथमा एकवचनम् |
विकसनस्य | Of development | अकारान्तः नपुंसकलिङ्गः ‘विकसन’ शब्दः षष्ठी एकवचनम् |
नाम्ना | In the name of | नकारान्तः नपुंसकलिङगः ‘नामन्’ शब्दः तृतीया एकवचनम् |
गगनचुम्भीनि | Sky kissers (Sky scrapers) | नकारान्तः नपुंसकलिङ्गः ‘गगनचुम्भिन्’ शब्दः प्रथमा बहुवचनम् |
बहुस्तरीयाणि | Multi storeyed | अकारान्तः नपुंसकलिङ्गः बहुस्तर’ शब्दः प्रथमा बहुवचनम् |
यन्त्रागाराः | Factories | अकारान्तः पुल्लिङ्गः ‘यन्त्रागार’ शब्दः प्रथमा बहुवचनम् |
वर्धमानाः | Growing | अकारान्तः पुल्लिङ्गः ‘वर्धमान’ शब्दः प्रथमा बहुवचनम् |
अनियन्त्रितया | Uncontrolled | आकारान्तः स्त्रीलिङ्गः ‘अनियन्त्रता’ शब्दः तृतीया एकवचनम् |
निर्गम्यमानैः | Coming out | अकारान्तः पुलिल्ङ्गः ‘निर्गम्यमान’ शब्दः तृतीया बहुवचनम् |
मलिनैः | कलुषैः Dirty | अकारान्तः पुल्लिङ्गः ‘मलिन’ शब्दः तृतीया बहुवचनम् |
वस्तुभिः | By things | उकारान्तः पुल्लिङ्गः ‘वस्तु’ शब्दः तृतीया बहुवचनम् |
अस्माकम् | Our | दकारान्तः त्रीषु लिङ्गेषु ‘अस्मद्’ शब्दः षष्ठी बहुवचनम् |
पर्यावरणम् | Environment | अकारान्तः नपुंसकलिङ्गः ‘पर्यावरण’ शब्दः प्रथमा एकवचनम् |
प्रदूषितम् | Polluted | अकारान्तः नपुंसकलिङ्गः ‘प्रदूषित’ शब्दः प्रथमा एकवचनम् |
शोभा | सुन्दरता - Beauty | आकारान्तः स्त्रीलिङ्गः ‘शोभा ‘शब्दः प्रथमा एकवचनम् |
स्थिरं वर्तयितुम् | To maintain | वृत् (धातुः)+ णिच् + तुमुन् वर्तयितुम् |
प्राकृतिक-साधनानां | Natural resources | अकारान्तः नपुंसकलिङ्गः ‘साधन’ शब्दः षष्ठी बहुवचनम् |
कर्तव्यम् | Duty | कृ + तव्यत् = कर्तव्य नपुंसके कर्तव्यम् प्रथमा एकवचनम् |
The lesson contains some हलन्ताः नपुंसकलिङ्गाः शब्दाः amongst others and are highlighted in yellow. We are learning a new name for Lotus flower ‘अम्भोरुहम्’, a new synonym for कमलम् a word we are familiar with. We present the verse from अमरकोषः which shows ‘अम्भोरुह’ along with other synonyms. अमरकोषात् उद्धृते श्लोके ‘अम्भोरुह’ शब्दः इतरैः पर्याय-शब्दैः सह द्रष्टुं शक्यते।
The sloka lists 16 synonyms for ‘कमलम्’.
पद्मम्, नलिनम्, अरविन्दम्, महोत्फलम्, सहस्रपत्रम्, कमलम्, शतपत्रम्, कुशेशयम्, पङ्केरुहम्, तामरसम्, सारसम्, सरसिरुहम्, बिसप्रसूनम्, राजीवम्, पुष्करम्, अम्भोरुहम् च।
अम्भोरुहम् means that which manifest in water.
अम्भसि रोहति इति अम्भोरुहम्.
अम्भसि is the प्रथमा एकवचनम् of ‘अम्भस्’ शब्दः which is a हलन्तः नपुंसकलिङ्गः शब्दः.
We now start learning Vibhakthi forms of various but commonly used हलन्ताः नपुंसकलिङ्गाः शब्दाः. The example sentences will follow the Shabdha tables.
प्रथमं पाठ्यमानं शब्दम् अस्ति तकारान्तः ‘जगत्’। We start learning the Vibhakthi forms of familiar word ‘जगत्’ meaning world or universe. We have read जगतः पितरौ, parents of the Universe in Kalidasa’s sloka. जगतः - जगत्-शब्दस्य षष्ठी-बहुवचने विभक्ति-रूपम्.
तकारान्तः नपुंसकलिङ्गः ‘जगत्’ शब्दः (World) (ज् + अ +ग् +अ + त्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | जगत् | जगती | जगन्ति |
द्वितीया | जगत् | जगती | जगन्ति |
सं.प्रथमा | हे जगत् | हे जगती | हे जगन्ति |
शेषं पुल्लिङ्गः ‘मरुत्’ शब्दवत् | |||
तृतीया | जगता | जगद्भ्याम् | जगद्भिः |
चतुर्थी | जगते | जगद्भ्याम् | जगद्भयः |
पञ्चमी | जगतः | जगद्भ्याम् | जगद्भयः |
षष्ठी | जगतः | जगतोः | जगताम् |
सप्तमी | जगति | जगतोः | जगत्सु |
We learn one more तकारान्तः नपुंसकलिङ्गः शब्दः the patterns of which are followed in many शतृ-प्रत्ययान्ताः शब्दाः.
तकारान्तः नपुंसकलिङ्गः ‘पचत्’ शब्दः (Cooking) (प् + अ +च् + अ + त्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | पचत् | पचन्ती | पचन्ति |
द्वितीया | पचत् | पचन्ती | पचन्ति |
सं.प्रथमा | हे पचत् | हे पचन्ती | हे पचन्ति |
शेषं पुल्लिङ्गः ‘मरुत्’ शब्दवत् | |||
तृतीया | पचता | पचद्भ्याम् | पचद्भिः |
चतुर्थी | पचते | पचद्भ्याम् | पचद्भयः |
पञ्चमी | पचतः | पचद्भ्याम् | पचद्भयः |
षष्ठी | पचतः | पचतोः | पचताम् |
सप्तमी | पचति | पचतोः | पचत्सु |
We are familiar with the word ‘हृदयम्’ meaning Heart which is the प्रथमा एकवचनम् form of अकारान्तः नपुंसकलिङ्गः 'हृदय' शब्दः. There is a नपुंसकः शब्दः with the same meaning which is दकारान्तः हृद् शब्दः. The table below shows all the Vibhakthi forms. तृतीया, चतुर्थी, पञ्चमी, षष्ठी and सप्तमी forms of ‘हृद्’ are similar to those forms of ‘सुहृद्’.
दकारान्तः नपुंसकलिङ्गः ‘हृद्’ शब्दः (Heart) (ह् + ऋ + द्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | हृत् | हृदी | हृन्दि |
द्वितीया | हृत् | हृदी | हृन्दि |
सं.प्रथमा | हे हृत् | हे हृदी | हे हृन्दि |
शेषं पुल्लिङ्गः ‘सहृद्’ शब्दवत् | |||
तृतीया | हृदा | हृद्भ्याम् | हृद्भिः |
चतुर्थी | हृदे | हृद्भ्याम् | हृद्भयः |
पञ्चमी | हृदः | हृद्भ्याम् | हृद्भयः |
षष्ठी | हृदः | हृदोः | हृदाम् |
सप्तमी | हृदि | हृदोः | हृत्सु |
‘नामन्’ with प्रथमा एकवचनम् for as ‘नाम’ is a familiar नकारान्तः नपुंसकलिङ्गः शब्दः. Other than this we will be learning one more Shabdha under this title.
नकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः (Name) (न् + आ + म् + अ + न्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | नाम | नाम्नी - नामनी | नामानि |
द्वितीया | नाम | नाम्नी - नामनी | नामानि |
सं.प्रथमा | हे नाम | हे नाम्नी हे नामनी | हे नामानि |
शेषं पुल्लिङ्गः राजन् शब्दवत् | |||
तृतीया | नाम्ना | नामभ्याम् | नामभिः |
चतुर्थी | नाम्ने | नामभ्याम् | नामभ्यः |
पञ्चमी | नाम्नः | नामभ्याम् | नामभ्यः |
षष्ठी | नाम्नः | नाम्नोः | नाम्नाम् |
सप्तमी | नाम्नि | नाम्नोः | नामसु |
‘कर्म’ is another familiar word which is the प्रथमा एकवचनम् form of नकारान्तः ‘कर्मन्’ शब्दः.
नकारान्तः नपुंसकलिङ्गः ‘कर्मन्’ शब्दः (Action) (क् + अ + र् + म् + अ + न्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | कर्म | कर्मणी | कर्माणि |
द्वितीया | कर्म | कर्मणी | कर्माणि |
सं.प्रथमा | हे कर्म | हे कर्मणी | हे कर्माणि |
शेषं पुल्लिङ्गः आत्मन् शब्दवत् | |||
तृतीया | कर्मणा | कर्मभ्याम् | कर्मभिः |
चतुर्थी | कर्मणे | कर्मभ्याम् | कर्मभ्यः |
पञ्चमी | कर्मणः | कर्मभ्याम् | कर्मभ्यः |
षष्ठी | कर्मणः | कर्मणोः | कर्मणाम् |
सप्तमी | कर्मणि | कर्मणोः | कर्मसु |
We learn two Shabdha forms under this title. ‘हविः’ offered in Homas is the प्रथमा एकवचनम् form of षकारान्तः ‘हविष्’ शब्दः.
षकारान्तः नपुंसकलिङ्गः ‘हविष्’ शब्दः (Oblation) (ह् + अ + व् + इ + ष्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | हविः | हविषी | हवींषि |
द्वितीया | हविः | हविषी | हवींषि |
तृतीया | हविषा | हविर्भ्याम् | हविर्भिः |
चतुर्थी | हविषे | हविर्भ्याम् | हविर्भ्यः |
पञ्चमी | हविषः | हविर्भ्याम् | हविर्भ्यः |
षष्ठी | हविषः | हविषोः | हविषाम् |
सप्तमी | हविषि | हविषोः | हविष्षु / हविःषु |
सं.प्रथमा | हे हविः | हे हविषी | हे हवींषि |
We come across two words in the lesson इन्ध्रधनुः and चक्षुषाम्. Their Vibhakthi forms follow the pattern we see in ‘वपुष्’ शब्दः meaning ‘Body.
षकारान्तः नपुंसकलिङ्गः ‘वपुष्’ शब्दः (Body) (व् + अ + प् + उ + ष्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | वपुः | वपुषी | वपूंषि |
द्वितीया | वपुः | वपुषी | वपूंषि |
तृतीया | वपुषा | वपुर्भ्याम् | वपुर्भिः |
चतुर्थी | वपुषे | वपुर्भ्याम् | वपुर्भ्यः |
पञ्चमी | वपुषः | वपुर्भ्याम् | वपुर्भ्यः |
षष्ठी | वपुषः | वपुषोः | वपुषाम् |
सप्तमी | वपुषि | वपुषोः | वपुष्षु / वपुःषु |
सं.प्रथमा | हे वपुः | हे वपुषी | हे वपूंषि |
‘मनस्’ meaning mind is a commonly known सकारान्तः नपुंसकलिङ्गः शब्दः.
सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः (Mind) (म् +अ + न् + स्) | |||
---|---|---|---|
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | मनः | मनसी | मनांसि |
द्वितीया | मनः | मनसी | मनांसि |
तृतीया | मनसा | मनोभ्याम् | मनोभिः |
चतुर्थी | मनसे | मनोभ्याम् | मनोभ्यः |
पञ्चमी | मनसः | मनोभ्याम् | मनोभ्यः |
षष्ठी | मनसः | मनसोः | मनसाम् |
सप्तमी | मनसि | मनसोः | मनस्सु |
सं.प्रथमा | हे मनः | हे मनसी | हे मनांसि |
In this lesson we have listed only those हलन्ताः नपुंसकलिङ्गाः शब्दाः which frequently occur in texts and poetry. The link to page containing all Halantha Napumsaka Linga Shabdas is given below for your perusal. Links are also given in each table heading to lead you to the Shabdha forms as seen in the common page.
विभिन्न-हलन्ताः नपुंसकलिङ्गाः शब्दाः
Let us now analyze the हलन्ताः नपुंसकलिङ्गाः शब्दाः found in the write up.
पाठे उपलब्धानां हलन्त-शब्दानां विवरणं पश्याम।
पदम् | विवरणम् | समान शब्दः |
---|---|---|
इन्द्रधनुः | षकारान्तः नपुंसकलिङ्गः ‘इन्द्रधनुष्’ शब्दः प्रथमा द्विवचनम् | वपुष् |
चक्षुषाम् | षकारान्तः नपुंसकलिङ्गः ‘चक्षुष्’ शब्दः षष्ठी बहुवचनम् | वपुष् |
सरः | सकारान्तः नपुंसकलिङ्गः ‘सरस्’ शब्दः प्रथमा एकवचनम् | मनस् |
मनसि | सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः सप्तमी एकवचनम् | मनस् |
स्रोतांसि | सकारान्तः नपुंसकलिङ्गः ‘स्रोतस्’ शब्दः प्रथमा बहुवचनम् | मनस् |
जगतः | तकारानातः नपुंसकलिङ्गः ‘जगत्’ शब्दः षष्ठी एकवचनम् | जगत् |
नाम्ना | नकारान्तः नपुंसकलिङ्गः ‘नामन्’ शब्दः तृतीया एकवचनम् | नामन् |
धीमन्तः परिश्रमेण कर्मणा अभीष्टम साधयन्ति। | Intelligent people achieve their wishes through hard work. |
कर्मणा – नकारान्तः नपुंसकलिङ्गः कर्म शब्दः – तृतीया एकवचनम् | |
शिवस्य त्रीणि चक्षूंषि सन्ति। | Lord Siva has three eyes. |
चक्षूंषि – षकारान्तः नपुंसकलिङ्गः चक्षुष् शब्दः – प्रथमा बहुवचनम् | |
कृषकाः स्वेषु सद्मसु बीजानि रक्षन्ति। | Farmers safeguard seeds in their houses. |
सद्मसु – नकारान्तः नपुंसकलिङ्गः सद्मन् शब्दः – सप्तमी बहुवचनम् | |
समुद्रतटे सूर्योदयं दृष्ट्वा मनसि आनन्दः उदेति। | On watching Sunrise on beach, joy rises in mind. |
मनसि – सकारान्तः नपुंसकलिङ्गः मनस् शब्दः – सप्तमी एकवचनम् | |
शिष्यः वपुषा गुरवे सेवाम् कर्तुम् अर्हति। | Shishya can do bodily service to Guru. |
बपुषा – षकारान्तः नपुंसकलिङ्गः वपुष् शब्दः – तृतीया एकवचनम् | |
असुराः तपोभ्यः वराणि अप्राप्नुवन्। | Asuras got boons by doing Penances. |
तपोभ्यः – सकारान्तः नपुंसकलिङ्गः तपस् शब्दः – चतुर्थी बहुवचनम् | |
सरांसि ग्रमस्य शोभां वर्धन्ते। | Ponds add to the beauty of village. |
सरांसि सकारान्तः नपुंसकलिङ्गः सरस् शब्दः – प्रथमा बहुवचनम् | |
भक्तः वचसा भगवतः कीर्तिं गायन्ति। | Devotee sings the praise of God with words. |
वचसा – सकारान्तः नपुंसकलिङ्गः शब्दः – तृतीया एकवचनम् |
We completed learning the हलन्ताः शब्दाः in all the three Genders. As it is our usual practice we end the lesson with Practice Exercises on हलन्ताः नपुंसकल्ङ्गाः शब्दाः। यथा पूर्वम् इदम् पाठम् अपि अभ्यास-प्रश्नैः समाप्यते।
धनुष् – पञ्चमी बहुवचनम्
उत्तरम् - धनुर्भ्यः
पितुः _________ पुत्रः न अशृणोत्। (वचस्)
पितुः वचः पुत्रः न अशृणोत्।
We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
Well, we learned long lists of Vibhakthi forms in the last three lessons. We are all familiar with the following गीता-श्लोकानि.
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।
A pair of words (यदा-तदा, यत्र-तत्र) join the two sentences to make a single sentence. Such pairs are called नित्यसम्बन्धानि अव्ययानि। Next lesson in Samskritaveethy teaches us how two sentences are combined to form a single sentence using नित्यसम्बन्धानि अव्ययानि.Our next lesson is…..
Lesson 5 Paired Avyayas in Samskritam - नित्यसम्बद्धानि अव्ययानि
0 comments |
To get updates on
संस्कृतवीथी...