Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 5 - Paired Avyayas in Samskritam

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - पञ्चमः पाठः - नित्यसम्बद्धानि अव्ययानि

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn how paired Avyayas are used to combine sentences into one. अस्मिन् पाठे वयम् नित्यसम्बद्धानाम् अव्ययानां विषये किञ्चित् पठामः।

We start this lesson with a Sloka from Srimad Bhagavatham which tells the glory of ultimate Godhead. This sloka is also sung as one of the Dhyana slokas of Bhagavat Gita.

यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यैस्तवै:
वेदै: साङ्गपदक्रमोपनिशदै: गायन्ति यं सामगा:|
ध्यानावस्थिततत्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदु: सुरा सुरगणा देवाय तस्मै नम:||

“I pay my Namaskara to that Supreme personality whom Brahma, Varuna, Rudra and Maruts praise by chanting divine hymns, whom the exponents of Sama Veda praise by reciting Vedas with its Angas, Pada-kramas and Upanishads, who is seen by Yogis in dhyana with their minds focused only on him, and whose end Devas and Asuras unaware of.”
Try to capture the तृतीया विभक्तिः forms in the above Sloka. We are indeed going to learn the sentence structure used in this lesson, the method of connecting two or more sentences. The word ‘तस्मै’ in the last line is related to the words यं, यं, यं in the first three stanzas and यस्य in the last and the four sentences are connected to give a single sentence. We will be learning the technique in detail later. Let us first read few verses chosen from Bhagavat Geetha which contain नित्यसम्बद्धाः शब्दाः.


भगनद्गीतायां नित्यसम्बद्धयोः शब्दयोः प्रयोगाः

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्त श्रुतस्य च।। (2.52)

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम्।। (4.7)

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।। (2.22)

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।। (4.11)

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।। (18.78)

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।। (3.23)

यावानर्थ उदपाने सर्वतः संप्लुतोदके।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।। (2.46)

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।। (2.57)

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
सिद्धिमवाप्नोति न सुखं न परां गतिम्।। (16.23)

Above listed Slokas from Bhagavad Geetha are good examples for the usage of नित्यसम्बद्धानि शब्दयुगलानि (Related paired words). In the above examples, यदा....तदा, यथा......तथा, यत्र......तत्र are indeclinable pairs (अव्यय-युगलानि) while pairs like यः........सः and यावत्........तावत् are declinable words. यावत्........तावत् pair also take the role of Avyayam when used as adverbs (Kriya Viseshan).We will be analyzing these Slokas when we discuss each usage with other examples.

यदा......तदा

इदं वाक्यद्वयं पठन्तु।

  1. रामः वनम् अगच्छत्।
  2. दशरथः प्राणान् त्यक्तवान्।

एते द्वे वाक्ये योजयित्वा एकं वाक्यं लेखितुं शक्नुमः। We can combine the two sentences into a single sentence.

यदा रामः वनम् अगच्छत् तदा दशरथः प्राणान् त्यक्तवान्।

When the actions indicated in two or more sentences take place simultaneously, the sentences can be combined to get a single sentence using the connectors यदा and तदा.

द्वाभ्यां वा अधिकैः वाक्यैः सूचिताः क्रियाः समकालीनाः चेत्, यथा-तथा-युगलेन तानि वाक्यानि संयोज्य एकं वाक्यं प्राप्यते। यदा – तदा इत्येतत् युगलं समानकालं सूचयति। वाक्ये ‘यदा’ इति शब्दः प्रयुज्यते चेत् ‘तदा’ इति शब्दः अपि प्रयोक्तव्यः।

Consider the two actions which took place at the same time. यदा-तदा combine the two sentences into one sentence.

क्रिया १क्रिया २
ह्यः अहं आपणम् अगच्छम्।अहम् मित्रं मिलितवान्।
एकं वाक्यम्
यदा अहं ह्यः आपणम् अगच्छम्, तदा मित्रं मिलितवान्।

Let us look at few more examples.

वाक्यद्वयम्एकं वाक्यम्
शिशुः निद्रां करोति।
माता गृहकार्यं करोति।
यदा शिशुः निद्रां करोति तदा माता गृहकार्यं करोति।
रमेशः कार्यालयं गन्तुं सिद्धः आसीत्।
तस्य भगिनी आगतवती।
यदा रमेशः कार्यालयं गन्तुं सिद्धः आसीत् तदा तस्य भगिनी आगतवती।
पिता दूरदर्शनं पश्यति।
पुत्रः गृहपाठं लिखति।
यदा पिता दूरदर्शनं पश्यति तदा पुत्रः गृहपाठं लिखति।

यदा...तदा usage is similar to When…….then form in English.

Let us now understand the Geetha Slokas given in the beginning of the Lesson.

Slokaयदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्त श्रुतस्य च।।
Sloka after the Sandhi Splitयदा ते मोहकलिलं बुद्धिः व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्त श्रुतस्य च।।
Sloka arranged in prose order (अन्वयक्रमः)यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति तदा (त्वम्) श्रोतव्यस्त श्रुतस्य च निर्वेदं गन्तासि ।
English TranslationWhen your intellect crosses and go beyond the mire of delusion, then you will become indifferent to what is heard and what is to be heard.
Slokaयदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम्।।
Sloka after the Sandhi Splitयदा यदा हि धर्मस्य ग्लानिः भवति भारत।
अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम्।।
Sloka arranged in prose order (अन्वयक्रमः)ही भारत, यदा यदा धर्मस्य ग्लानिः भवति अधर्मस्य अभ्युत्थानम् (अपि भवति) तदा अहम् आत्मानं सृजामि।
English TranslationHey Arjuna, whenever there is decline of Dharma and rise of Adharma I manifest myself.

The pattern that comes next is used in showing similarity or lack of it.

यथा......तथा

यथा राजा तथा प्रजा is a well known saying. By supplying the verb forms, the sentence reads as
यथा राजा (अस्ति) तथा प्रजाः (सन्ति)। As the King is so are the Subjects.
Indelcinable pair यथा-तथा is used to combine the sentences to indicate the similarity between People, Objects are in actions.

यथा-तथा इति अव्यय-युगलम् सादृश्यं सूचयति। यत्र ‘यथा’ इत्यस्य प्रयोगः भवति तत्र ‘तथा’ इत्यस्य अपि प्रयोगः भवेत्।

Let us look at the example sentences for this type.

वाक्यद्वयम्एकं वाक्यम्
वैद्यः वदति।
रुग्णः करोति।
यथा वैद्यः वदति तदा रुग्णः करोति।
तव भवनं विशालम्।
तव हृदयं ।
यथा तव भवनं तथा तव हृदयम् विशालम्।
अथवा
यथा तव भवनं विशालं तथा तव हृदयं।
राधा गायति।
गीता सदृशं न गायति।
यथा राधा गायति तथा गीता न गायति।

Let us now look at the Geetha Sloka chosen for this lesson.

Slokaवासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।।
Sloka after the Sandhi Splitवासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरः अपराणि।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही।।
Sloka arranged in prose order (अन्वयक्रमः)यथा नरः वासांसि जीर्णानि विहाय अपराणि नवानि गृह्णाति तथा देही जीर्णानि शरीराणि (विहायः) नवानि अन्यानि संयाति।
English TranslationJust as a man casts off worn-out clothes and puts on new ones, so also the embodied Self casts off worn-out bodies and enters others which are new.
Slokaये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।
Sloka after the Sandhi Splitये यथा मां प्रपद्यन्ते तान् तथा एव भजामि अहम्।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।
Sloka arranged in prose order (अन्वयक्रमः)ये यथा मां प्रपद्यन्ते अहम् तान् तथा एव भजामि। पार्थ मनुष्याःसर्वशः मम वर्त्म अनुवर्तन्ते।
English TranslationThe way in which men resort to Me, in the same way I favour them. Oh Partha, all sorts of men follow the path of Mine.

Let us now view the complete Subhashitam containing ‘यथा राजा तथा प्रजा’.

यथा देशस्तथा भाषा यथा राजा तथा प्रजा|
यथा भूमिस्तथा तोयं यथा बीजस्तथाङ्कुर:||

As is the Country so is the Language, as is the King so are the subjects, as is the soil so is the water, as is the seed so is the sprout.

यत्र – तत्र

यत्र-तत्र pair in a sentence indicate same location of substratum.

यत्र-तत्र इति अव्ययुगलं समानम् आधारं वा अधिकरणं सूचयति।

इदानीम् उदाहरणानि पश्याम।

वाक्यद्वयम्एकं वाक्यम्
चन्दनम् अस्ति।
सुगन्धम् अस्ति।
यत्र चन्दनम् अस्ति तत्र सुगन्धम् अस्ति।
धूमः अस्ति। (धूमः – Smoke)
अग्निः अस्ति।
यत्र धूमः अस्ति तत्र अग्निः अस्ति।
जलं नास्ति।
जनाः न वसन्ति।
यत्र जलं नास्ति तत्र जनाः न वसन्ति।
तृप्तिः अस्ति।
दुःखं नास्ति।
यत्र तृप्तिः अस्ति तत्र दुःखं नास्ति।

इदानीम् पूर्वं दत्तम् गीता-श्लोकं पश्याम।

Slokaयत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।
Sloka after the Sandhi Splitयत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः।
तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम।।
Sloka arranged in prose order (अन्वयक्रमः).यत्र योगेश्वरः कृष्णः (अस्ति) यत्र पार्थः धनुर्धरः (अस्ति) तत्र श्रीः भूतिः विजयः ध्रुवा नीतिः (च सन्ति) (एवम्) मम मतिः।
English TranslationWhere Krishna, the Lord of Yogins remains, where Partha (Arjuna) holds his bow, there lie fortune, victory, prosperity and firm justice-so I believe.

यदि – तर्हि

We are familiar with if………then form of sentences in English. यदि.....तर्हि is the Samskrit equivalent for conditional statements.

यदि-तर्हि प्रयोगः प्रतिवन्धनं सूचयति। एते द्वे अपि नित्यसम्ब्द्धौ अव्ययौ। समानवाक्ये एव द्वयोः प्रयोगः भवति।

Example sentences are here to explain यदि-तर्हि प्रयोगः.

वाक्यद्वयम्एकं वाक्यम्
श्वः वृष्टिः न भविष्यति।
अहं नगरं गमिष्यामि।
यदि श्वः वृष्टिः न भविष्यति तर्हि अहं नगरं गमिष्यामि।
पाकं समाप्तम्।
वयम् भोक्तुं शक्नुमः।
यदि पाकं समाप्तम् तर्हि वयम् भोक्तुं शक्नुमः।
श्वः विद्यालयं न गमिष्यामि।
तव गृहम् आगमिष्यामि
यदि अहं श्वः विद्यालयं न गमिष्यामि तर्हि तव गृहम् आगमिष्यामि।
आवश्यकं धनं नास्ति।
आभरणं न क्रीणामि।
यदि आवश्यकं धनं नास्ति, तर्हि आभरणं न क्रीणामि।

उदाहरणार्थं दत्तं गीताश्लोकं पश्याम वा?

Slokaयदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।
Sloka after the Sandhi Splitयदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वदा।।
Sloka arranged in prose order (अन्वयक्रमः)हि यदि अहं अतन्द्रितः जातु कर्मणि न वर्तेयं पार्थ (तर्हि) सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते।
English TranslationFor Partha, if I were not at work unceasingly, then all men would follow my path

यद्यपि-तथापि

Where ‘although’ ‘despite’ are used in English यद्यपि-तथापि-अव्यययुगलम् can be correspondingly used in संस्कृतम्। These two together express contrasting ideas.

यद्यपि-तथापि इत्येते समानवाक्ये आगच्छतः। एते सम्भूय विपरीतं भावं प्रदर्शयेते। उदाहरणानि पश्याम।

वाक्यद्वयम्एकं वाक्यम्
राधया रचितानि चित्राणि सुन्दराणि सन्ति।
तेषां क्रेता नास्ति।
यद्यपि राधया रचितानि चित्राणि सुन्दराणि सन्ति तथापि तेषां क्रेता नास्ति।
भोजनं परिविष्टम्।
बुभुक्षा नास्ति।
यद्यपि भौजनं परिविष्टं, तथापि बुभुक्षा नास्ति।
सूर्यः प्रकाशते।
तापः नास्ति।
यद्यपि सूर्यः प्रकाशते तथापि तापः नास्ति।
रविः अस्वस्थः आसित्।
सः विद्यालयम् अगच्छत्।
यद्यपि रविः अस्वस्थः आसीत्, तथापि सः विद्यालयम् अगच्छत्।

यावत्-तावत्

यावत्-तावत् indeclinable pair indicate the measure or duration. Corresponding English sentences are formed with as much…. so much.

यावत्-तावत् इत्येतत् अव्यययुगलम् मानम् अवधीं वा सूचयति।

वाक्यद्वयम्एकं वाक्यम्
नारीकेल-वृक्षः उन्नतः अस्ती।
ताल-वृक्षः अपि उन्नतः अस्ति।
यावत् नारीकेल-वृक्षः अस्ति तालवृक्षः तावत् उन्नतः अस्ति।
कार्यं करोषि।
फलम् प्राप्नोषि।
यावत् कार्यं करोषि तावत् फलं प्रापनोषि।
रमेशः संयक् सम्पादयति।
सुरेशः सदृशं न सम्पादयति।
यावत् रमेशः सम्पादयति तावत् सुरेशः न सम्पादयति।
रमा अधिकम् वदति।
तथा न करोति।
रमा यावत् वदति तावत् न करोति।

अन्याः नित्यसम्बद्धाः शब्दाः

So far, we learned how Indeclinable pairs (नित्यसम्बद्धानि अव्ययानि) and the sense they convey. There are other pronoun pairs which assume Vibhakthi forms.

यत्-तत्

Pronoun pair यत्-तत् is used in all three Lingas and assume all seven Vibakathi forms.

सर्वनाम-शब्दयुगलं यत्-तत् त्रिषु लिङ्गेषु उपयुज्यते। तेषां सप्त-विभक्ति-रुपाणि प्रवर्तन्ते।

The Vibhakthi forms are suitably used in the sentences formed. We are already familar with the Vibhakthi forms of the Shabdha ‘तत्’ in three lingas. We present here the Vibhakthi forms ‘यत्’ in three Lingas. Titles in each table are linked to the respective Shabdha forms found in the Sarvanama Shabdhas Page

दकारान्तः पुल्लिङ्गः ‘यद्’ शब्दः (Who)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायःयौये
द्वितीयायम्यौयान्
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु
दकारान्तः स्त्रीलिङ्गः ‘यद्’ शब्दः (Who)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायायेयाः
द्वितीयायाम्येयाः
तृतीयाययायाभ्याम्याभिः
चतुर्थीयस्यैयाभ्याम्याभ्यः
पञ्चमीयस्याःयाभ्याम्याभ्यः
षष्ठीयस्याःययोःयासाम्
सप्तमीयस्याम्ययोःयासु
दकारान्तः नपुंसकलिङ्गः ‘यद्’ शब्दः (Who)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमायत्येयानि
द्वितीयायत्येयानि
शेषम् पुल्लिङ्गवत्
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येभ्यः
पञ्चमीयस्मात्याभ्याम्येभ्यः
षष्ठीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु

Let us now look at some example sentences.

वाक्यद्वयम्एकं वाक्यम्
उन्नतः अस्ति।
सः फलम् तोडितुं शक्नोति।
यः उन्नतः अस्ति, सः फलं तोडितुं शक्नोति।
One who is tall can pluck the fruit.
स्वरः मधुरः अस्ति।
सा समाहारे गास्यति।
यस्याः स्वरः मधुरः अस्ति सा समाहारे गास्यति।
One (Female) with sweet voice will sing in the gathering.
(फलम्) पक्वम् अस्ति।
तत् फलम् ददातु।
यत् पक्वम् अस्ति तत् फलम् ददातु।
गृहे कुक्कुरः अस्ति।
गृहं न प्रविशामि।
यस्मिन् गृहे कुक्कुरः अस्ति तत् गृहम न प्रविशामि।
I do not enter the house where there is a dog.

Let us now analyse and understand the related Geetha Slokas given in the beginning of the lesson.

Slokaयः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।
Sloka after the Sandhi Splitयः सर्वत्रान् अभिस्नेहः तत् तत् प्राप्य शुभाशुभम्।
न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।
Sloka arranged in prose order (अन्वयक्रमः).यः सर्वत्रान् अभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।
He, who has no desire in anything; and who neither rejoices nor hates on getting good or bad-his intellect is properly stabilized.
Slokaयः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
सिद्धिमवाप्नोति न सुखं न परां गतिम्।।
Sloka after the Sandhi Splitयः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः।
सः सिद्धिम् अवाप्नोति न सुखं न परां गतिम्।
Sloka arranged in prose order (अन्वयक्रमः).यः कामकारतः शास्त्रविधिम् उत्सृज्य वर्तते सः सिद्धिं न अवाप्नोति सुखं न (अवाप्नोति) परां गतिं न (अवाप्नोति)
English TranslationHe, who neglects the directions of the scriptures, and acts according to his own will, attains neither success, nor happiness nor the highest goal (Moksha).

Let us now look at the Dhyana sloka given in the beginning of the lesson to understand better and appreciate it. The Vibhakthi forms of पुल्लिङ्गः यत् शब्दः which connect the four sentences into one are highlighted in green.

यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यैस्तवै:
वेदै: साङ्गपदक्रमोपनिशदै: गायन्ति यं सामगा:|
ध्यानावस्थिततत्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदु: सुरा सुरगणा देवाय तस्मै नम:||


Note ‘यम्’ in the first three sentences serves कर्मपदम् and rightly assumes द्वितीया विभक्रिः. All the three ‘यम्’ along with ‘यस्य’ (whose षष्ठी एकनचनम्) bear the common relationship (सम्ब्न्धः) to तस्मै, which is चतुर्थी-एकवचनम् of पुल्लिङ्गः सर्वनामः शब्दः ‘तद्’.

We add one Subhashitam as an example to यत्-तत्-प्रयोगः.

चक्षुषा मनसा वाचा
कर्मणा च चतुर्विधम्।
प्रसादयति लोकं य-
स्तं लोकाऽनुप्रसीदति।

Sloka arranged in prose order after splitting Sandhis reads like this.

यः लोकं चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् प्रसादयति तं लोकः अनुप्रसीदति।
शलोकार्थः – यः नरः अन्यान् जनान् नयनेन हृदयेन वचनेन प्रवर्तनेन चतुर्विधं तोषयति, तं नरं सर्वाः जनाः अनुतोषयन्ति।

All world pleases him in return who pleases the world in four ways, that is with kind looks, kind heart, kind words and kind deeds.

यावत् – तावत् – शब्दयुगलम्

We earlier saw examples of ‘यावत्-तावत्’ used as Avyyaya pair. They also occur as declinable Shabdhas in three lingas. Check the Geetha Sloka given in the beginning.

यावानर्थ उदपाने सर्वतः संप्लुतोदके।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।

In the above sloka the pair ‘यावान् – तावान्’ is used. These are प्रथमा एकवचनम् forms of पुंलिङ्ग-युगलम्, यावत्-तावत्. The corresponding forms in स्त्रीलिङ्गम् and नपुंसकलिङ्गम् are यावती-तावति and यावत्-तावत्. We currently do not intend to learn these in detail. We will anyway analyse the forms when we come across this type of usages in other lessons.

अभ्यासः अनिर्वायः। कानिचन लघु अभ्यासान् कुर्वाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Pick words from four columns and combine them to form correct sentences. चतुर्षु स्तम्भेषु पदान् चित्वा समीचीनं वाक्यम लिखत।
    यदाविलम्बः जातःतदावृक्षे पक्षिणः सन्ति
    यत्रप्रयासः अस्तितत्रपुत्री न पचति
    यथाबालाः वर्तन्तेतथाकार्ये करोति
    यदिसूर्यः उदेतितर्हिफलं भवति
    यावत्माता पचतितावत्आनन्दः वर्तते
    यद्यपिवृक्षे फलानि सन्तितथापिकमलानि विकसन्ति
    यत्इच्छा अस्तितत्लोकयानम् अलभत्

  2. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. If you pass in the exam, you will get a good job. (one passes - उत्तीर्णः good - समीचिन job – उद्योगः)
    2. As much water is got in rivers, so much is not got in lakes. (is got – लभ्यते, Lake – सरोवरः)
    3. Where there is will, there is way. (will - इच्छा, way - मार्गः)
    4. One with name Lata is selected. (selected – प्रवृता)
    5. If coming Saturday is a holiday, I will come to your house. (coming Saturday – आगामि-शनिवासरः. Holiday - विरामः)
    6. Leela does not study as good as her brother does. (study good – सम्यक् पठति)
    7. We can sit where there is seat.
    8. When there is rain then peacocks dance. (Peacock - मयूरः)
    9. My house is not as spacious as my friend’s house.
    10. One who has a vehicle, can come now. (has a vehicle- समीपे यानम् अस्ति)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


In the first model we learned about different types of words (पदानि) which are used as blocks to form sentences. This module focuses on sentence writing skills. Nouns along with adjectives not only provide elegance to Sentence structure in Samskritam but also a useful style to hold information in. Read the following sentences.

धनुर्धरः रामः गच्छति।
सीता धनुर्धरं रामम् अनुगचच्छति।

In both the sentences धनुर्धरः is the adjective to रामः. Check how Vibhakthi of धनुर्धर शब्दः matches with that of राम शब्दः. Our next lesson teaches us how Noun and adjectives are handled in संस्कृतवाक्यानि। Our next lesson is…..
Lesson 6 Adjective forms in Samskritam - विशेषण-विशेष्यभावः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...