We learn about........ | ||
We have so far learned in this module... |
The goal of this lesson is ….. |
|
अयं पाठः शङ्कराचार्येन रचिताः शिवानन्दलहर्याः प्रथम-श्लोकेन आरभ्यते। This lesson starts with the first sloka in Shivananda Lahari written by Shankaracharya. Let us pay obeisance to the divine couple Shiva and Shakthi.
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ |
“Let this bending (Namaskaram) be to the divine couple Parvathi and Parameshwara who are the embodiments of auspiciousness and hence the unlimited source of auspiciousness to the three worlds, who are the embodiments of all arts and knowledge with their heads adorned by Chandra Kala, they themselves being the fruits of each other’s tapas, are responsible for the punyaphalas found in Bhakthas, who shine in the hearts of Bhaktas as Ananada and appear in their hearts in repeated contemplations.”
We see quite a number of masculine fourth case forms in dual case (पुंसि द्विवचन-चतुर्थी-विभक्तिः) like कलाभ्यां, चूडालङ्कृतशशिकलाभ्यां, निजतपः फलाभ्यां, (भक्तेषु) प्रकटितफलाभ्यां, शिवाभ्यां, अस्तोकत्रिभुवनशिवाभ्यां, (हृदि) पुनर्भवाभ्याम्, आनन्दस्फुरदनुभवाभ्यां. All these serve as adjective to the noun form to be supplied पार्वतीपरमेश्वराभ्याम् which is the fourth case form of masculine dual Shabda पार्वतीपरमेश्वरौ the divine couple Paravati and Parmeshwara. This Sloka is a stunning example that explains the Visheshana Visheshya Bhava (विशेषण-विशेष्यभावः) which is the topic this lesson is dealing with. In simple words the adjective forms share the Linga, Vachana and Vibhakthi with the Noun.
Let us now read a writeup on a Ramayana Prasanga where we can find adjective noun pairs displaying their mutual relationship.
सूर्यवंशी महाराजा दशरथः रघुकुलतिलकं श्रीरामं यौवराज्येन अभिषिक्तुं इष्टवान्। स्वाभिलाषां गुरु-पुरोहित-मन्त्रिगणेभ्यः प्रकटितवान्। ते सर्वे युवराजाय रामचन्द्रः उत्तमो अधिकारी इति ज्ञातवन्त एव। तस्मात् रामः युवराजा भवेत् इति दशरथस्य निर्णयं सहर्षं स्वीकृतवन्तः। परेद्यवि वर्तिष्यमाने शुभमुहूर्ते एव पट्टाभिषेक-समारोहः भवतु इति निश्चितवान्। तस्य कृते सर्वान् संनिवेषान् वर्तेरन् इति अपरिमितेन आनन्देन युक्तः राजा दशरथः आदिशत्।
अयोद्या-नगरस्य जनाः कौतुकेन पट्टाभिषेकार्थं सन्नाहाः कुर्वन्ति स्म। आनन्ददायिनीं वार्तां प्रियभार्यां कैकेयीं श्रावयितुं तस्याः वेश्म प्रति नृपः त्वरितवान्। तस्मिन् काले कैकेय्याः चित्तं कुब्जायाः मन्थरायाः बोधनेन प्रदूषितं अभवत्। राज्ञा दशरथेन पुरा वाग्दत्तं वरद्वयं कैकेयी अयाचत। वरमेकेन रामस्य वनप्रस्थानम् अपरेन स्वपुत्रस्य भरतस्य युवराजाभिषेकं च अपृच्छत्। दशरथः एतौ प्रतिकूलयन् कैकेयीं प्रति बहुता तर्कितवान् प्रार्थितवान् च। परन्तु तत् व्यर्थम् एव अभवत्।
कैकेयी अभिषेकार्थं सज्जं रामं आहूय राज्ञः निर्देशं अवदत्। पित्राज्ञां दुःखं विना स्वीकृत्य भ्रात्रा लक्ष्मणेन सह मातृगृहं गतवान्। तत्र पुत्रहितैषिणी श्वेतक्षौमवसना कौसल्या तु राज्याभिषेकं उद्धिश्य पूजादानादिकार्येषु कर्मानुबन्धिता अभवत्। सः स्वभावविनीतः रामः कृताञ्जलिः राज्याभिषेकस्य विषये सहसा घटितं परिवर्तनम् मातरं प्रति निवेदितवान्।
“महाराजः भरताय यौवराज्यं प्रयच्छति, पुनः मां तापसम् दण्डकारण्ये विवासयति” इति पितुः दशरथस्य निर्णयं मातरं प्रति उक्तवान्। धर्मपालनार्थं पितुराज्ञां स्वीकृत्य दण्डकारण्ये चतुर्दश-वर्षाणि यावत् वासितुं स्वनिर्णयं अपि निवेदितवान्। तत्कृते मातुः कौसल्यायाः अनुज्ञां प्रार्थितवान्। तां वार्तां श्रुत्वा अदुःखोचिता कौसल्या दुःखग्रस्ता अभवत्। अतीतेन पुत्रवात्सल्येन स्वपतेः आज्ञायाः विरुद्धं रामस्य वनप्रस्थापनं न्यरोधयत्।
धर्मपरायणः श्रीरामः तु वनगमने दृढनिश्चयं कृतवान् प्रियमातरं बहुता असान्त्वयत्। कृद्धं लक्ष्मणं च पितृवाक्-पालनस्य आवश्यकं वोधितवान्। पुत्रेण परिसान्त्विता स्त्रीकुलरत्ना कौसल्या पुत्राय सर्वान् देवान् प्रार्थयित्वा तम् आशास्त। रामस्य वनगमनार्थं अनुज्ञां अपि अददात्।
Please note the group of words highlighted in yellow. Try to catch the relationship between them and note their Linga, Vachana and Vibhakthi forms. We will understand the structure once we learn about the commonness in the forms of a noun and its adjectives. Let us now get to know the vocabulary in the above write up.
शब्द-परिचयः | ||
---|---|---|
शब्दः | अर्थः | विश्लेषणम् |
अभिषिक्तुं | अभिषेकं कर्तुम् To consecrate | अभि + सिच् + तुमुन् तुमुनन्तम् अव्ययपदम् |
इष्टवान् | वाञ्चितवान् Desired | क्तवतु-प्रत्ययानतं पदम् ‘इष्’ धातुः |
अभिलाषाम् | अभिलाषा - इष्टम्, वाञ्चा Wish अभिलाषाम् - कर्मपदम् | आकारान्तः स्त्रीलिङ्गः ‘अभिलाषा’ शब्दः द्वितीया एकवचनम् |
गुरु-पुरोहित-मन्त्रिगणेभ्यः | To the group of Gurus, Purohitas and Mantris | अकारान्तः पुल्लिङ्गः ‘गण’ शब्दः चतुर्थी बहुवचनम् |
परेद्यवि | The next day | अव्ययपदम् |
वर्तिष्यमाने | To be present | अकारान्तः नपुंसकलिङ्गः वर्तिष्यमान शब्दः सप्तमी एकवचनम् शानच् प्रत्ययान्ताः (भविष्यति) ‘वृत्’आत्मनेपदी धातुः |
संनिवेषान् | Arrangements | अकारान्तः पुल्लिङ्गः ‘संनिवेषः’ शब्दः द्वितीया बहुवचनम् |
वर्तेरन् | भवेयुः Shall be there | ‘वृत्’ आत्मनेपदी धातुः विधुलिङ् लकारः प्रथमपुरुषः बहुवचनम् |
आदिशत् | Ordered | ‘आ + दिश्’ धातुः लङ् लकारः प्रथमपुरुषः एकवचनम् |
सन्नाहाः | सज्जकर्माणि Preparations | अकारान्तः पुल्लिङ्गः ‘सन्नाह’ शब्दः द्वितीया बहुवचनम् |
वेश्म | गृहम्, सद्म House, Mansion कर्मपदम् | नकारान्तः नपुंसकलिङ्गः ‘वेश्मन्’ शब्दः द्वितीया एकवचनम् |
कुब्जायाः | Hump backed women’s | आकारान्तः स्त्रीलिङ्गः ‘कुब्जा’ शब्दः षष्ठी एकवचनम् |
वाग्दत्तम् | स्वीकृतम् – Promised | अकारान्तः नपुंसकलिङ्गः ‘वाग्दत्त’ शब्दः द्वितीया एकवचनम् |
अयाचत | अपृच्छत् Asked | ‘याच्’ धातुः लङ् लकारः प्रथमपुरुषः एकवचनम् |
प्रतिकूलयन् | निराकुर्वन् Opposing | तकारान्तः पुल्लिङ्गः ‘प्रतिकूलयत्’ शब्दः प्रथमा एकवचनम् |
सज्जं | सिद्धम् Ready | अकारान्तः पुल्लिङ्गः ‘सज्ज’ शब्दः द्वितीया एकवनमस् |
पुत्रहितैषिणी | One who desires the well-being of her son | ईकारान्तः स्त्रीलिङ्गः ‘एषिणी’ शब्दः प्रथमा एकवचनम् |
श्वेतक्षौमवसना | One attired in white silk | आकारान्तः स्त्रीलिङ्गः ‘वसना’ शब्दः प्रथमा एकवचनम्। |
कर्मानुबन्धिता | Involved in | आकारान्तः स्त्रीलिङ्गः ‘बन्धिता’ शब्दः प्रथमा एकवचनम् |
स्वभावविनीतः | Polite by nature | अकारान्तः पुल्लिङ्गः ‘विनीत’ शब्दः प्रथमा एकवचनम् |
कृताञ्जलिः | With folded hands | इकारान्तः पुल्लिङ्गः ‘अञ्जलि’ शब्दः प्रथमा एकवचनम् |
परिवर्तनम् | विकारः Change | अकारान्तः नपुंसकलिङ्गः ‘परिवर्तन’ शब्दः द्वितीया एकवचनम् |
घटितं | समुत्पन्नम् Happened | अकारान्तः नपुंसकलिङ्गः ‘घटित’ शब्दः द्वितीया एकवचनम् क्त-्अन्तं पदम् |
निवेदितवान् | उक्तवान् Informed | तकारान्तः पुल्लिङ्गः ‘निवेदितवत्’ शब्दः प्रथमा एकवचनम् क्तवतु-अन्तं रूपम् |
तापसम् | तपस्वी | अकारान्तः पुल्लिङ्गः ‘तापस’ शब्दः द्वितीया एकवचनम् |
विवासयति | Sends someone in exile. | ‘वि + वस् + णिच् ‘ लट् लकारः प्रथमा एकवचनम् |
अनुज्ञां | अनुमतिम् – Permission To take leave (in this context) | आकारान्तः स्त्रीलिङ्गः ‘अनुज्ञा’ शब्दः द्वितीया एकवचनम् |
अदुःखोचिता | Not deserved to be sad | आकारान्तः स्त्रीलिङ्गः ‘अदुःखोचिता’ शब्दः प्रथमा एकवचनम् |
दुःखग्रस्ता | दुःखेन पीडिता In the grip of grief | आकारान्तः स्त्रीलिङ्गः ‘दुःखग्रस्ता’ शब्दः प्रथमा एकवचवनम् |
न्यरोधयत् | Stopped someone | ‘नि + रुध्’ धातुः लङ् लकारः प्रथमपुरुषः एकवचनम् |
असान्त्वयत् | Consoled | लङ् लकारः प्रथमपुरुषः एकवचनम् |
आशास्त | Blesses | आ + ‘शास्’ आत्मनेपदी धातुः लङ् लकारः प्रथमपुरुषः एकवचनम् |
अददात् | अयच्छत् | ‘दा’ धातुः लङ् लकारः प्रथमपुरुषः एकवचनम् |
Consider the sentence
‘रघुकुलतिलकं श्रीरामं यौवराजेन अभिषिक्तुं इष्टवान्।’
कर्मपदम् in the above sentence is श्रीरामं and it is rightly in द्वितीया विभक्तिः. रघुकुलतिलकः serves as adjective to श्रीरामः. It follows the same linga, vachana and vibahkthi of the karma padam श्रीरामं. This lesson details the rules for relating a noun with its adjectives in a sentence.
विशेषणपदम् (Adjective) should have the same Linga, Vachana and Vibkathi form of that of the विशेष्यपदम् (Noun).
यत् पदम् वैशिष्ट्यं सूचयति तत् विशेषणम्।
यस्य वैशिष्ट्यं बोध्यते तत् विशेष्यम्।
The following popular sloka depicts the rule nicely.
Read the following examples:
उपरि दत्तेषु उदाहरणेषु बोध्यमानं वैशिष्ट्यं अस्ति ‘उन्नतत्वम्’। The special quality expressed in the above sentences is ‘उन्नतत्वम्’ (tallness). उन्नतः. उन्नतम् , उन्नता इत्यादीनि विशेषणानि उन्नतत्वम् बोधयन्ति। एतानि प्रथमा-एकवचन-रूपाणि क्रमेण पुरुषः, आसनम्, महिला आदीनाम् विशेष्यानाम् लिङ्गानि अनुकुर्वन्ति.
The following table demonstrates how the adjective word ‘उत्तम’ assumes forms in accordance with the Nouns.
उत्तम-शब्दस्य विशेषणरूपाणि | |||
---|---|---|---|
पुंसि | स्त्रियाम् | नपुंसके | |
प्रथमा एकवचनम् | उत्तमः बालकः | उत्तमा वालिका | उत्तमं मित्रम् |
प्रथमा द्विवचनम् | उत्तमौ बालकौ | उत्तमे बालिके | उत्तमे मित्रे |
प्रथमा बहुवचनम् | उत्तमाः बालकाः | उत्तमाः बालिकाः | उत्तमानि मित्राणि |
द्वितीया एकवचनम् | उत्तमं बालकम् | उत्तमां बालिकाम् | उत्तमं मित्रम् |
द्वितीया द्विवचनम् | उत्तमौ बालकौ | उत्तमे बालिके | उत्तमे मित्रे |
द्वितीया बहुवचनम् | उत्तमान् बालकान् | उत्तमाः बालिकाः | उत्तमानि मित्राणि |
तृतीया एकवचनम् | उत्तमेन बालकेन | उत्तमया बालिकया | उत्तमेन मित्रेण |
तृतीया द्विवचनम् | उत्तमाभ्यां बालकाभ्याम् | उत्तमाभ्यां बालिकाभ्याम् | उत्तमाभ्यां मित्राभ्याम् |
तृतीया बहुवचनम् | उत्तमैः बालकैः | उत्तमाभिः बालिकाभिः | उत्तमैः मित्रैः |
चतुर्थी एकवचनम् | उत्तमाय बालकाय | उत्तमायै बालिकायै | उत्तमाय मित्राय |
चतुर्थी द्विवचनम् | उत्तमाभ्यां बालकाभ्याम् | उत्तमाभ्यां बालिकाभ्याम् | उत्तमाभ्यां मित्राभ्याम् |
चतुर्थी बहुवचनम् | उत्तमेभ्यः बालकेभ्यः | उत्तमाभ्यः बालिकाभ्यः | उत्तमेभ्यः मित्रेभ्यः |
पञ्चमी एकवचनम् | उत्तमात् बालकात् | उत्तमायाः बालिकायाः | उत्तमात् मित्रात् |
पञ्चमी द्विवचनम् | उत्तमाभ्यां बालकाभ्याम् | उत्तमाभ्यां बालिकाभ्याम् | उत्तमाभ्यां मित्राभ्याम् |
पञ्चमी बहुवचनम् | उत्तमेभ्यः बालकेभ्यः | उत्तमाभ्यः बालिकाभ्यः | उत्तमेभ्यः मित्रेभ्यः |
षष्ठी एकवचनम् | उत्तमस्य बालकस्य | उत्तमायाः बालिकायाः | उत्तमस्य मित्रस्य |
षष्ठी द्विवचनम् | उत्तमयोः बालकयोः | उत्तमयोः बालिकयोः | उत्तमयोः मित्रयोः |
षष्ठी बहुवचनम् | उत्तमानां बालकानाम् | उत्तमानां बालिकानाम् | उत्तमानां मित्राणाम् |
सप्तमी एकवचनम् | उत्तमे बालके | उत्तमायां बालिकायाम् | उत्तमे मित्रे |
सप्तमी द्विवचनम् | उत्तमयोः बालकयोः | उत्तमयोः बालिकयोः | उत्तमयोः मित्रयोः |
सप्तमी बहुवचनम् | उत्तमेषु बालकेषु | उत्तमासु बालिकासु | उत्तमेषु मित्रेषु |
Let us now read some sentences and identify the विशेष्यपदम् and विशेषणपदम्. Matching pairs are highlighted in same color. द्वयोः मध्ये लिङ्ग-वचन-विभक्ति-साम्यं अवधेयम्।
नीले आकाशे श्यामाः मेघाः सन्ति। | नीले – अकारान्तः पुल्लिङ्गः ‘नील’ शब्दः सप्तमी एकवचनम् आकाशे – अकारान्तः पुल्लिङ्गः ‘आकाश’ शब्दः सप्तमी एकवचनम् श्यामाः – अकारान्तः पुल्लिङ्गः ‘श्याम’ शब्दः प्रथमा बहुवचनम् मेघाः – अकारान्तः पुल्लिङ्गः ‘मेघ’ शब्दः प्रथमा बहुवचनम् |
उन्नतानि मन्दिराणि शोभन्ते। | उन्नतानि – अकारान्तः नपुंसकलिङ्गः ‘उन्नत’ शब्दः प्रथमा बहुवचनम् मन्दिराणि – अकारान्तः नपुंसकलिङ्गः ‘मन्दिर’ शब्दः प्रथमा बहुवनचनम् |
सर्वे बुद्धिमतः तरुणस्य प्रशंसा अकुर्वन्। | बुद्धिमतः – तकारान्तः पुल्लिङ्गः ‘बुद्धिमत्’ शब्दः षष्ठी एकवचनम् तरुणस्य – अकारान्तः पुल्लिङ्गः ‘तरुण’ शब्दः षष्ठी एकवचनम् |
पार्थः दिव्येन चक्षुषा विश्वरूपं दृष्टवान्। | दिव्येन – अकारान्तः नपुंसकलिङ्गः ‘दिव्य’ शब्दः तृतीया एकवचनम् चक्षुषा – उकारान्तः नपुंसकलिङ्गः ‘चक्षुष्’ शब्दः तृतीया एकवचनम् |
दुष्करात् कार्यात् विरमतु। Stop doing difficult work. | दुष्करात् – अकारान्तः नपुंसकलिङ्गः ‘दुष्कर’ शब्दः पञ्चमी एकवचनम् कार्यात् – अकारान्तः नपुंसकलिङ्गः 'कार्य' शब्दः पञ्चमी एकवचनम् |
आचार्यः चतुराय छात्राय पारितोषिकम् अददात्। | चतुराय – अकारान्तः पुल्लिङ्गः ‘चतुर’ शब्दः चतुर्थी एकवचनम्। छात्राय – अकारान्तः पुल्लिङ्गः ‘छात्र’ शब्दः चतुर्थी एकवचनम्। |
वयं ज्ञानप्रदं संस्कृतं पठामः। | ज्ञानप्रदम् – अकारान्तः नपुंसकलिङ्गः ‘ज्ञानप्रद’ शब्दः द्वितीया एकवचनम्। संस्कृतम् – अकारान्तः नपुंसकलिङ्गः ‘संस्कृत’ शब्दः द्वितीया एकवचनम्। |
वृद्धयाः महिलायाः अपत्यं नास्ति। अपत्यम् - Offspring | वृद्धयाः – आकारान्तः स्त्रीलिङ्गः 'वृद्धा' शब्दःचतुर्थी एकवचनम् महिलायाः – आकारान्तः स्त्रीलिङ्गः 'महिला' शब्दःचतुर्थी एकवचनम्। |
ऋषिः मधुरैः फलैः अतिथीन् सत्करोति। | मधुरैः – अकारान्तः नपुंसकलिङ्गः 'मधुर' शब्दः तृतीया बहुवचनम्। फलैः – अकारान्तः नपुंसकलिङ्गः 'फल' शब्दः तृतीया बहुवचनम्। |
कनिष्ठयोः भ्रात्रोः गृहे समीपे एव वर्तेते। Two younger brother’s houses are nearby. | कनिष्ठयोः – अकारान्तः पुल्लिङ्गः 'कनिष्ठ' शबदः षष्ठी द्विवचनम्। भ्रात्रोः – अकारान्तः पुल्लिङ्गः 'भ्रातृ' शबदः षष्ठी द्विवचनम्। |
Let us now analyse the विशेषण-विशेष्यभावः in the lesson presented earlier.
विशेषणम् | विशेष्यम् | विश्लेषणम् |
---|---|---|
सूर्यवंशी, महाराजा | दशरथः | सूर्यवंशी – नकारान्तः पुल्लिङ्गः ‘सूर्यवंशिन्’ शब्दः प्रथमा एकवचनम् महाराजा – नकारान्तः पुल्लिङ्गः ‘महाराजन्’ शब्दः प्रथमा एकवचनम् दशरथः – अकारान्तः पुल्लिङ्गः ‘दशरथ’ शब्दः प्रथमा एकवचनम् कर्तृपदम् |
रघुकुलतिलकं | श्रीरामम् | रघुकुलतिलकं – अकारान्तः पुल्लिङ्गः ‘रघुकुलतिलक’ शब्दः द्वितीया एकवचनम् श्रीरामम् - अकारान्तः पुल्लिङ्गः ‘श्रीराम’ शब्दः द्वितीया एकवचनम् कर्मपदम् |
वर्तिष्यमाने | शुभमुहूर्ते | वर्तिष्यमाने – अकारान्तः पुल्लिङ्गः ‘वर्तिष्यमान’ शब्दः सप्तमी एकवचनम् शानच्-अन्तः शुभमुहूर्ते - अकारान्तः पुल्लिङ्गः ‘शुभमुहूर्त’ शब्दः सप्तमी एकवचनम् |
अपरिमितेन | आनन्देन | अपरिमितेन – अकारान्तः पुल्लिङ्गः ‘अपरिमित’ शब्दः तृतीया एकवचनम् आनन्देन - अकारान्तः पुल्लिङ्गः ‘आनन्द’ शब्दः तृतीया एकवचनम् भावसूचकः शब्दः |
(आनन्देन) युक्तः, राजा | दशरथः | युक्तः – अकारान्तः पुल्लिङ्गः ‘युक्त’ शब्दः प्रथमा एकवचनम् राजा – नकारान्तः पुल्लिङ्गः ‘राजन्’ शब्दः प्रथमा एकवचनम् दशरथः – अकारान्तः पुल्लिङ्गः ‘दशरथ’ शब्दः प्रथमा एकवचनम् कर्तृपदम् |
आनन्ददायिनीं | वार्तां | आनन्ददायिनीं – ईकारान्तः स्त्रीलिङ्गः ‘आनन्ददायिनी’ शब्दः द्वितीया एकवचनम् वार्तां – आकारान्तः स्त्रीलिङ्गः ‘वार्ता’ शब्दः द्वितीया एकवचनम् कर्मपदम् (मुख्य) |
प्रियभार्यां | कैकेयीं | प्रियभार्यां - आकारान्तः स्त्रीलिङ्गः ‘भार्या’ शब्दः द्वितीया एकवचनम् कैकेयीं – ईकारान्तः स्त्रीलिङ्गः ‘कैकेयी’ शब्दः द्वितीया एकवचनम् कर्मपदम् (गौण) |
कुब्जायाः | मन्थरायाः | कुब्जायाः – आकारान्तः स्त्रीलिङ्गः ‘कुब्जा’ शब्दः षष्ठी एकवचनम् मन्थरायाः - आकारान्तः स्त्रीलिङ्गः ‘मन्थरा’ शब्दः षष्ठी एकवचनम् |
सज्जं | रामम् | सज्जम् – अकारान्तः पुल्लिङ्गः ‘सज्ज’ शब्दः द्वितीया एकवचनम् रामम् – अकारान्तः पुल्लिङ्गः ‘राम’ शब्दः द्वितीया एकवचनम् कर्मपदम् |
भ्रात्रा | लक्ष्मणेन | भ्रात्रा – ऋकारान्तः पुल्लिङ्गः 'भ्रातृ' शब्दः तृतीया एकवचनम् लक्ष्मणेन – अकारान्तः पुल्लिह्गः 'लक्ष्मण' शब्दः तृतीया एकवचनम् सह-शब्दस्य उपस्थितौ तृतीया Thrithiya in the presence of सह शब्दः. |
पुत्रहितैषिणी, श्वेतक्षौमवसना One who desires the wellbeing of her son, One draped in white silk | कौसल्या | पुत्रहितैषिणी – इकारान्तः स्त्रीलिङ्गः 'एषिणी' शब्दः प्रथमा एकवचनम् श्वेतक्षौमवसना – आकारान्तः स्त्रीलिङ्गः 'वसना' शब्दः प्रथमा एकवचनम् कौसल्या - आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम् |
सः, स्वभावविनीतः, कृताञ्जलिः Polite by nature with folded hands | रामः | सः – अकारान्तः पुल्लिङगः 'तत्' सर्वनामशब्दः प्रथमा एकवचनम् स्वभावविनीतः – अकारान्तः पुल्लिङ्गः 'विनीत' शब्दः प्रथमा एकवचनम् कृताञ्जलिः – इकारान्तः पुल्लिङ्गः 'अञ्चलि' शब्दः प्रथमा एकवचनम् रामः – अकारान्तः पुल्लिङ्गः 'राम' शब्दः प्रथमा एकवचनम् |
घटितं | परिवर्तनम् | घटितम् – अकारान्तः नपुंसकलिङ्गः 'घटित' शब्दः द्वितीया एकवचनम् परिवर्तनम् - अकारान्तः नपुंसकलिङ्गः 'परिवर्तन' शब्दः द्वितीया एकवचनम् कर्मपदम् (मुख्य) |
तापसम् | माम् | तापसम् – अकारान्तः पुलिल्ङ्गः 'तापस' शब्दः द्वितीया एकवचनम् माम् – दकारान्तः 'अस्मद्' सर्वनामशब्दः (त्रिषुलिङ्गेषु) द्वितीया एकवचनम् |
अदुःखोचिता | कौसल्या | अदुःखोचिता – आकारान्तः स्त्रीलिङ्गः 'उचिता' शब्दः प्रथमा एकवचनम् कौसल्या – आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम् |
अतीतेन | पुत्रवात्सल्येन | अतीतेन – अकारान्तः नपुंसकलिङ्गः 'अतीत' शब्दः तृतीया एकवचनम् पुत्रवात्सल्येन – अकारान्तः नपुंसकलिङ्गः 'वात्सल्य' शब्दः तृतीया एकवचनम् |
धर्मपरायणः | श्रीरामः | धर्मपरायणः – अकारान्तः पुल्लिङ्गः 'परायण' शब्दः प्रथमा एकवचनम् श्रीरामः – अकारान्तः पुल्लिङ्गः 'राम' शब्दः प्रथमा एकवचनम् |
कृद्धम् | लक्ष्मणम् | कृद्धम्– अकारान्तः पुल्लिङ्गः 'कृद्ध' शब्दः द्वितीया एकवचनम् लक्ष्मणम् - अकारान्तः पुल्लिङ्गः 'लक्ष्मण' शब्दः द्वितीया एकवचनम् |
परिसान्त्विता, स्त्रीकुलरत्ना | कौसल्या | परिसान्त्विता – आकारान्तः स्त्रीलिङ्गः 'सान्त्विता' शब्दः प्रथमा एकवचनम् स्त्रीकुलरत्ना - आकारान्तः स्त्रीलिङ्गः 'रत्ना' शब्दः प्रथमा एकवचनम् कौसल्या - आकारान्तः स्त्रीलिङ्गः 'कौसल्या' शब्दः प्रथमा एकवचनम् |
Many adjectives found in the lesson are uncommon compound (Samasa) words. They are used just to demonstrate the विशेषणविशेष्य-भावः. We can ignore their complex structure and focus on Linga, Vachana and Vibakthi of these words.
By doing some exercises we become more familiar with the structures. अभ्यासं कृत्वा पाठस्य विषयज्ञानम् दृढीकरवाम।
विशेषणम् | विशेष्यम् |
---|---|
नूतनानि | फले |
सुन्दरी | शिष्यः |
मधुरे | नदी |
उत्तमः | वस्त्राणि |
प्रसन्ना | वधवः |
तापयुक्तौ (Hot) | महिला |
अलङ्कृताः | वृक्षाः |
महती | बालकः |
विस्मितः | देवता |
स्थूलाः | मासौ |
We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
(सर्वनामशब्दाः) were introduced as Pronouns in module 1. Although it enables easy introduction to students at initial level, Samskrita Sarvanamas are not exact equivalents of English Pronouns. We propose to learn more on Saravanama Shabdas in our next lesson. Our next lesson is…..
Lesson 7 Sarvanama Shabdas in Samskritam - सर्वनामशब्दाः
0 comments |
To get updates on
संस्कृतवीथी...