Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 7 - Sarvanama Shabdas in Samskritam

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - सप्तमः पाठः - सर्वनामशब्दाः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn more about Sarvanama Shabdas and their Vibhakthi forms. अस्मिन् पाठे सर्वनामविषये वयम् इतोऽपि पठामः।

शङ्कराचार्य-रचितायाः सौन्दर्यलहर्याः एकषष्ठीतमं स्लोकम् अस्मिन् पाठस्य मङ्गलाचरणम् भवति। The prayer sloka for this lesson is the 61st sloka of Soundarya Lahari written by Sri.Sankaracharya. The sloka extols the power of Divine mother’s Nose in blessing the Bhaktha. It also poetically describes the beauty of the Pearl studded in her Nose Ring.

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं
समृद्धया यत्तासां बहिरपि च मुक्तामणिधरः ।।

Let us do पदच्छेदः and write in prose order to understand the verses better.

(हे) तुहिनगिरिवंशध्वजपटि त्वदीयः असौ नासावंशः अस्माकम् उचितम् फलम् फलतु। (सः) अन्तः मुक्ताः वहति यत् तासाम् समृद्ध्या शिशिरकरनिश्वासगलितं (मुक्ताफलम् एकम्)। बहिः अपि मुक्तामणिधरः।

Above sloka says “ Oh Mother Parvathi who is foremost in the family of Himavan like a flag, may that bamboo like Nose of yours grant as appropriate benefits early. Your bamboo-nose carries pearls inside. Because of their abundance one of them dropped out by the exhalation in your left nostril. So it holds pearl outside as well.”

This sloka has a very high poetic value comparing Mothers nose to bamboo and the Pearl studded in the nose ornament looks like one of the pearls that dropped out of the left nostril due to the exhalation. Muktha phalam (Pearl) symbolizes Mukthi and hence the prayer is for getting fitting benefits including Mukthi.

We find a new word “असौ” in the sloka which means ‘that’ (something that is viewed) and it refers to नासावंशः the bamboo like nose. “असौ” is the प्रथमा-एकवचनम् form of पुल्लिङ्ग-सर्वनामशब्दः ‘अदस्’. Another Sarvanama shabda present in the sloka is ‘तासाम्’. It is the षष्ठी-बहुवचन form of स्त्रीलिङ्ग-सर्वनामशब्दः ‘तद्’. Sarvanama form ‘तासाम्’ refers to ‘मुक्ताः’ प्रथमा-बहुवचनम् of स्त्रीलिङ्ग-शब्दः ‘मुक्ता’. We are already familiar with the Sarvanama Shabdha ‘तद्’ in all the three lingas. We propose to learn more Sarvanama Shabdas like ‘अदस्’ in this lesson. Studying the Vibhakthi forms of all Sarvanama Shabdas is beyond the scope of this lesson.

सर्वनामानि कानि?

In our earlier lesson on Sarvanama in module 1 (Sanskrit pronouns - सर्वनामशब्दाः) सर्वनामाः were introduced as Words equivalent to Pronouns in English. But strictly speaking this kind of classification is not quite correct. First Panini in Ashtadhyayi defines सर्वनामाः as ‘सर्वादीनि सर्वनामानि (1.1.27)’. That is, Sarvanamas are words put in a group called ‘सर्वादि’. And he further defines some more words as Saravanama. We also note that the list of Sarvanamas include Shabdas which indicates directions like पूर्वः, दक्षिणः, and ‘द्वि’ meaning ‘two’ are cannot be considered as pronouns. The name सर्वनाम is given by Panini to undergo some special Vibhakthi transformations.
Earlier we have learned the Vibhakthi forms of एतद्, तद्, अस्मद्, युष्मद्, and भवत्. In this lesson we learn the Vibhakthi forms of some more commonly used Sarvanamas. Prior to that let us look at some भगवद्गीता स्लोकाः with Sarvanama forms of इदम्. All Saravanama Shabdhas in the slokas are highlighted in yellow.


भगवद्गीतायां सर्वनामशब्दाः

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।
पदच्छेदं कृत्वा....
न तु एव अहं जातु नासं न त्वंइमे जनाधिपाः।
न च एव भविष्यामः सर्वे वयम् अतः परम्।।

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।।
पदच्छेदं कृत्वा....
अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः।
अनाशिनः अप्रमेयस्य तस्माद् युध्यस्व भारत।।

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।
पदच्छेदं कृत्वा....
यः एनं वेत्ति हन्तारं यःएनं मन्यते हतम्।
उभौ तौ न विजानीतः न अयं हन्ति न हन्यते।।

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।2.20।।
पदच्छेदं कृत्वा....
न जायते म्रियते वा कदाचित् न अयं भूत्वा भविता वा न भूयः।
अजः नित्यः शाश्वतः अयं पुराणः न हन्यते हन्यमाने शरीरे।।

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।2.24।।
पदच्छेदं कृत्वा....
अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च।
नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः।।

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।2.25।।
पदच्छेदं कृत्वा....
अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते।
तस्मात् एवं विदित्वा एनं न अनुशोचितुम् अर्हसि।।

अयम् is the पुल्लिङ्गप्रथमा एकवचनम् form of Saravanama Shabda ‘इदम्’. It can be taken equivalent to ‘this’ in English. ‘इदम्’ has Vibhakthi forms in all the three lingas which we will be learning in this lesson.

इदम्, एतद्, असौ, तद्

एतद् and तद् were introduced in module I broadly relating to ‘this’ and ‘that. Although this similarity is given to make learning easier at early level, they cannot be considered as the right equivalents to this and that. Shabdas ‘इदम्’ and ‘असौ’ also relate themselves to this and that respectively. What are the exact meanings of these four and how the four can be placed in order? The following कारिका (Facts given in metrical verses) answers the question in a poetic way.

इदमः प्रत्यक्षगतं समीपतरवर्ती चैतदो रूपम।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात॥

Let us now understand how objects are indicated by these Sarvanamas depending on their placement or location

सर्वनामकुत्र स्थितम्?Placement / Position
इदम्प्रत्यक्षगतं वस्तुं निर्दिशति।Indicates something placed nearby and visible.
एतद्समीपतरवर्तिं वस्तुं निर्दिशति।Indicates something very close by.
अदस्दूरस्थं दृष्टिगोचरं वस्तुं निर्दिशति।Indicates something visible at a distance.
तद्परोक्षं पूर्वं घटितं वा वस्तुं निर्दिशति।Indicates something not visible (that is visualized in mind) or something that happened in the past.

The following picture with sentences relating to it explain the contexts of use of the above four Sarvanamas.

अहं विजयः।
अहं उद्याने अस्मि।
एषा उत्पीठिका।
एतानि पुस्तकानि।
अयं वृक्षः।
इयं नदी।
असौ पर्वतः।
अदः गगनम्।
मम भगिन्याः नाम राधा।
सा गृहे अस्ति।

Let us now learn the Vibhakthi forms of ‘इदम्’ and ‘अदस्’ Shabdas in all the three lingas. We also add few example-sentences under each group.

इदम्-शब्द-रूपाणि

मकारान्तः पुल्लिङ्गः ‘इदम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअयम्इमौइमे
द्वितीयाइमम्, एनम्इमौ, एनौइमान्, एनान्
तृतीयाअनेन, एनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पञ्चमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोः, एनयोःएषाम्
सप्तमीअस्मिन्अनयोः, एनयोःएषु


मकारान्तः स्त्रीलिङ्गः ‘इदम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाइयम्इमेइमाः
द्वितीयाइमाम्, एनाम्इमे, एनेइमाः, एनाः
तृतीयाअनया, एनयाआभ्याम्आभिः
चतुर्थीअस्यैआभ्याम्आभ्यः
पञ्चमीअस्याःआभ्याम्आभ्यः
षष्ठीअस्याःअनयोः, एनयोःआसाम्
सप्तमीअस्याम्अनयोः, एनयोःआसु


मकारान्तः नपुंसकलिङ्गः ‘इदम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाइदम्इमेइमानि
द्वितीयाइदम्, एनत्इमे, एनेइमानि, एनानि
तृतीयाअनेन, एनेनआभ्याम्एभिः
चतुर्थीअस्मैआभ्याम्एभ्यः
पञ्चमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोः, एनयोःएषाम्
सप्तमीअस्मिन्अनयोः, एनयोःएषु


वाक्ये इदम्-शब्दः – उदाहरणानि

We now list few example sentences containing the Vibhakthi forms of ‘इदम्’. Please note इदम्-शब्दः assumes forms in accordance with the Linga, Vachana and Vibhakthi of nouns they indicate.

अस्मिन् गृहे अद्य विवाहं सम्प्रवर्तते।Wedding takes place in this house today.
गृहे is the सप्तमी एकवचनं form of नपुंसकलिङ्गः शब्दः ‘गृह’.
अस्मिन् is the सप्तमी एकवचनं form of नपुंसकलिङ्गः सर्वनामशब्दः ‘इदम्’.
अनयोः मद्ये विवादः प्रचलति।Argument goes between these two.
अनयोः is the षष्ठी द्विवचनं form of सर्वनामशब्दः ‘इदम्’. The two indicated in the sentence can be either पुल्लिङ्गः or स्त्रीलिङ्गः.
एभ्यः धनं स्वीकरोतु।
आभ्यः धनं स्वीकरोतु।
Accept/take money from these (people).
एभ्यः is the पञ्चमी बहुवचनम् of पुल्लिङ्गः इदम् शब्दः. This can indicate a group of containing only males or males and females.
आभ्यः पञ्चमी बहुवचनम् स्त्रीलिङ्गः इदम् शब्दः.
This indicates only a group of females.
पश्य इमां महतीं चमूम्।Look at this large army.
चमूम् is the द्वितीया एकवचनम् of स्त्रीलिङ्गः शब्दः ‘चमू’.
इमाम् is the द्वितीया एकवचनम् of स्त्रीलिङ्गः शब्दः ‘इदम्’.
आभ्यां छात्राभ्यां पुस्तकानि ददातु।Give books to these two students.
आभ्यां is the चतुर्थी द्विवचनम् form of ‘इदम्’ शब्दः in both पुल्लिङ्गः स्त्रीलिङ्गः।
Hence it can denote two boys, two girls or one boy and one girl.

अदस्-शब्द-रूपाणि

सकारान्तः पुल्लिङ्गः ‘अदस्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअसौअमूअमी
द्वितीयाअमुम्अमूअमून्
तृतीयाअमुनाअमूभ्याम्अमीभिः
चतुर्थीअमुष्मैअमूभ्याम्अमीभ्यः
पञ्चमीअमुष्मात्अमूभ्याम्अमीभ्यः
षष्ठीअमुष्यअमुयोःअमीषाम्
सप्तमीअमुष्मिन्अमुयोःअमीषु


सकारान्तः स्त्रीलिङ्गः ‘अदस्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअसौअमूअमूः
द्वितीयाअमूम्अमूअमूः
तृतीयाअमुयाअमूभ्याम्अमूभिः
चतुर्थीअमुष्यैअमूभ्याम्अमूभ्यः
पञ्चमीअमुष्याःअमूभ्याम्अमूभ्यः
षष्ठीअमुष्याःअमुयोःअमूषाम्
सप्तमीअमुष्याम्अमुयोःअमूषु


सकारान्तः नपुंसकलिङ्गः ‘अदस्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअदःअमूअमूनि
द्वितीयाअदःअमूअमूनि
तृतीयाअमुनाअमूभ्याम्अमीभिः
चतुर्थीअमुष्मैअमूभ्याम्अमीभ्यः
पञ्चमीअमुष्मात्अमूभ्याम्अमीभ्यः
षष्ठीअमुष्यअमुयोःअमीषाम्
सप्तमीअमुष्मिन्अमुयोःअमीषु

वाक्ये अदस् शब्दः – उदाहरणाणि

It is time to look at example sentences for ‘अदस्’ शब्दः. अदस् शब्दः also assumes Vibhakthi forms in accordance with the Linga, Vachana of the nouns they indicate.

असौ अस्माकम् अध्यापकः।
असौ अस्माकम् अध्यापिका।
That is our teacher (Male).
That is our teacher (Female).
Note असौ is the प्रथमा एकवचनम् of ‘अदस्’ शब्दः in both पुल्लिङ्गः and स्त्रीलिङ्गः.
अमुया नौकया नदीं तरितुं शक्नुमः.We can cross the river with that boat.
नौकया is the तृतीया एकवचनम् of स्त्रीलिङ्गः शब्दः ‘नौका.’
अमुया is the तृतीया एकवचनम् of स्त्रीलिङ्गः सर्वनाम शब्दः ‘असौ.’
अमीषु भवनेषु धनवन्तः वसन्ति।Rich people live in those houses.
भवनेषु – सप्तमी बहुवचनम् of नपुंसकलिङ्गः शब्दः ‘भवनम्’.
अमीषु – सप्तमी बहुवचनम् of नपुंसकलिङ्गः सर्वनामशब्दः ‘अदस्’.
अमुयोः मित्रता गभीरा अस्ति।Their friendship is deep.
अमुयोः – षष्ठी द्विवचनम् of सर्वनामशब्दः ‘अदस् ‘(पुल्लिङ्गः स्त्रीलिङ्गः वा)
अमुष्य वृक्षस्य फलानि मधुराणि।Fruits of that tree are sweet.
वृक्षस्य - षष्ठी एकवचनम् of पुल्लिङ्गः ‘वृक्ष’.
अमुष्य – षष्ठी एकवचनम् of पुल्लिङ्गः सर्वनामशब्दः ‘अदस्’.

Popular Shanthi Mantra is a stunning example for the use of both ‘अदस्’ and ‘इदम्’ Shabdas in the same sloka.

We can see the प्रथमा विभक्तिः forms of नपुंसकौ शब्दौ ‘अदस्’ and ‘इदम्’ after doing पदच्छेदः.

पूर्णमदः – पूर्णम् + अदः
पूर्णमिदं – पूर्णम् + इदम्

We now learn the Vibhakthi forms of some common Sarvanama Shadas.

सर्व-शब्दस्य रूपाणि

सर्वनामशब्दः ‘सर्व’ is meaning ‘all’ is अकारान्तः in पुल्लिङ्गः and नपुंसकलिङ्गः. We list the Vibhakthi forms of both below.

अकारान्तः पुल्लिङ्गः ‘सर्व’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वःसर्वौसर्वे
द्वितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु
सं.प्रथमाहे सर्वहे सर्वौहे सर्वे


अकारान्तः नपुंसकलिङ्गः ‘सर्व’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वम्सर्वेसर्वाणि
द्वितीयासर्वम्सर्वेसर्वाणि
तृतीयासर्वेणसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु
सं.प्रथमाहे सर्वहे सर्वेहे सर्वाणि

Feminine (स्त्रीलिङ्गः) equivalent of ‘सर्व’ is अकारान्तः ‘सर्वा’ शब्दः.

आकारान्तः स्त्रीलिङ्गः ‘सर्वा’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासर्वासर्वेसर्वाः
द्वितीयासर्वाम्सर्वेसर्वाः
तृतीयासर्वयासर्वाभ्याम्सर्वाभिः
चतुर्थीसर्वस्यैसर्वाभ्याम्सर्वाभ्यः
पञ्चमीसर्वस्याःसर्वाभ्याम्सर्वाभ्यः
षष्ठीसर्वस्याःसर्वयोःसर्वासाम्
सप्तमीसर्वस्याम्सर्वयोःसर्वासु
सं.प्रथमाहे सर्वेहे सर्वेहे सर्वाः

पूर्व - सर्वनामशब्दः

Another frequently used Shabdha is ‘पूर्व’. It is used to indicate direction (दिशा), place (देशः) or time (कालः). When used as direction it is a ‘स्त्रीलिङ्गः पूर्वा शब्दः’. It is विशेष्यनिघ्नः that is it follows the Linga of विशेष्यशब्दः that is the qualifying noun when used in देशः, कालः connotations. The Vibhakthi forms of अकारान्तः ‘पूर्व’ (पुल्लिङ्गः नपुंसकलिङ्गः च) and आकारान्तः ‘पूर्वा’ (स्त्रीलिङ्गः) are given below.

अकारान्तः पुल्लिङ्गः ‘पूर्व’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वःपूर्वौपूर्वे, पूर्वाः
द्वितीयापूर्वम्पूर्वौपूर्वान्
तृतीयापूर्वेणपूर्वाभ्याम्पूर्वैः
चतुर्थीपूर्वस्मैपूर्वाभ्याम्पूर्वेभ्यः
पञ्चमीपूर्वस्मात्, पूर्वात्पूर्वाभ्याम्पूर्वेभ्यः
षष्ठीपूर्वस्यपूर्वयोःपूर्वेषाम्
सप्तमीपूर्वस्मिन्, पूर्वेपूर्वयोःपूर्वेषु
सं.प्रथमाहे पूर्वहे पूर्वौहे पूर्वे, हे पूर्वाः


अकारान्तः नपुंसकलिङ्गः ‘पूर्व’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वम्पूर्वेपूर्वाणि
द्वितीयापूर्वम्पूर्वेपूर्वाणि
तृतीयापूर्वेणपूर्वाभ्याम्पूर्वैः
चतुर्थीपूर्वस्मैपूर्वाभ्याम्पूर्वेभ्यः
पञ्चमीपूर्वस्मात्, पूर्वात्पूर्वाभ्याम्पूर्वेभ्यः
षष्ठीपूर्वस्यपूर्वयोःपूर्वेषाम्
सप्तमीपूर्वस्मिन्, पूर्वेपूर्वयोःसर्वेषु
सं.प्रथमाहे पूर्वहे पूर्वेहे पूर्वाणि


आकारान्तः स्त्रीलिङ्गः ‘पूर्वा’ सर्वनामशब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापूर्वापूर्वेपूर्वाः
द्वितीयापूर्वाम्पूर्वेपूर्वाः
तृतीयापूर्वयापूर्वाभ्याम्पूर्वाभिः
चतुर्थीपूर्वस्यैपूर्वाभ्याम्पूर्वाभ्यः
पञ्चमीपूर्वस्याःपूर्वाभ्याम्पूर्वाभ्यः
षष्ठीपूर्वस्याःपूर्वयोःपूर्वासाम्
सप्तमीपूर्वस्याम्पूर्वयोःपूर्वासु
सं.प्रथमाहे पूर्वेहे पूर्वेहे पूर्वाः

उभ – सर्वनामशब्दः

‘उभ’ शब्दः त्रिषु लिङ्गेषु नित्यं द्विवचनान्तः। ‘उभ’ शब्दः meaning ‘Both’ always assumes Dual form in all the three Lingas.

अकारान्तः 'उभ' शब्दः नित्यं द्विवचनान्तः (Both)
पुंसिस्त्रियाम्क्लीबे
प्रथमाउभौउभेउभे
द्वितीयाउभौउभेउभे
तृतीयाउभाभ्याम्उभाभ्याम्उभाभ्याम्
चतुर्थीउभाभ्याम्उभाभ्याम्उभाभ्याम्
पञ्चमीउभाभ्याम्उभाभ्याम्उभाभ्याम्
षष्ठीउभयोःउभयोःउभयोः
सप्तमीउभयोःउभयोःउभयोः
सं.प्रथमाहे उभौहे उभेहे उभे

We acquire more familiarity with Sarvanama Shadha forms by doing exercises. अभ्यासं कृत्वा सर्वनामानाम् रूपाणि स्पष्टं मनसि स्थापयाम।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Fill in the blanks with suitable Vibhakthi forms of Sarvanama Shadhas given in parenthesis. कोष्ठके दत्तानां सर्वनामशब्दानाम् उचितैः विभक्ति-रूपैः रिक्त-स्थानानि पूरयत।
    1. परीक्षार्थं (इदम्) _________ पुस्तकानि पठन्तु।
    2. ______ (इदम्) लोके द्विविधा निष्ठा मया प्रोक्ता।
    3. ______ (उभ) संन्यासः कर्मयोगः च श्रेयसकरौ।
    4. राधा _______ (एतत्) वर्णलेखनीभिः चित्रम् अरचयत्।
    5. पश्य, सुरेशः तत्र तिष्ठति। वयम ________ (अदस्) समीपं गच्छाम।
    6. ______ (अदस्) देव्याः मन्दिरम्। ______ नगरं प्रति मार्गद्वयम् अस्ति।
    7. ______ (सर्व) भवन्तु सुखिनः।
    8. _______ (पूर्व) सप्ताहे तस्य विवाहः सम्पन्नः।
    9. गीतासीतौ सहोदर्यौ। _______ (सा) भ्राता चेन्नै-नगरे वसति।
    10. कर्मयोगः च ज्ञानयोगः च द्वे निष्ठे। ______ (उभ) विवरणं भगवद्गीतायां प्राप्नुमः।

  2. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. These are Office Complexes. (Office Complexes – कार्यालयभवनानि। Translate using ‘इदम्’ शब्दः.)
    2. He got money from both parents. (Parents – पितरौ)
    3. He listened to the opinions of all. (opinion – अभिप्रायः)
    4. Beautiful Lotuses are there in that pond. (Use अदस् for that. Pond - तटाकः)
    5. All rivers are polluted. (polluted – प्रदूषित)
    6. Oh God! Save us from these thieves. (Save - रक्ष thief – चोरः Use इदम्)
    7. Those two trees are tall. (Use अदस्)
    8. Namaskara to all.
    9. My house is in the eastern part of the city. (Use पूर्वः भागः)
    10. This is my elder brother and that is my younger. (Use इदम् and अदस्)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


कस्मिन्चित् नगरे कानिचन मन्दिराणि सन्ति। There are some temples in some city. We often come across somewhat general references in many sentences. How are these indefinite forms formed? We learn about these in our next lesson. Our next lesson is……
Lesson 8 Indefinite References in Samskritam - चित्-चन-प्रयोगः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...