Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 8 - Indefinite References in Samskritam

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - अष्टः पाठः - चित्-चन-प्रयोगः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • To learn about indefinite references in Samskritam. अस्मिन् पाठे चित्-चन-प्रयोगम् अधिकृत्य पठामः।

यथा भारतीय-सम्प्रदायः तथा एतस्मिन् पाठस्य आरम्भं मङ्गलाचरणेन क्रियते। तन्निमित्तम् शिवानन्द-लहर्याः श्लोकः एकः अत्र उपस्थापितः अस्ति।

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः।
कञ्चित् कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु॥

The sloka extols the aspects of Bhakthi as follows: “ Hey Umamahesha, who ever with joyfully surrendering his heart to you and reaches a state, where he spends his time partly doing Archana to your lotus feet, partly in Dhayana and Samadhi, partly doing Namaskara to you, partly listening to your stories and partly in your Darshan, and partly singing your Praise, has he not attained Jeevan Mukthi in this birth itself?”

Note the word ‘कञ्चित्’ which occurs repeatedly in the sloka! Each time it represents ‘कञ्चित्त् कालम्’ meaning ‘Some time’. This type of indefinite reference in Samskritam assumes Vibhakthi forms in tune with the Linga, Vachana of the those nouns which follow these words. We learn more about this interesting usage in this lesson.

We introduce the usage by way of a Story Lesson:


अङ्गुलं दीयेत हस्तम् अपहरिष्यते

कस्याञ्चित् शैत्यमयौ रात्रौ मरुभूमौ कश्चन अरबिव्यापारी तस्य पटकुट्यां संसुप्तः आसीत्। तस्य उष्ट्रः शिबिरस्य बहिः स्तम्भे बद्धः आसीत्। गते समये शैत्यं वर्धते स्म। अकस्मात् व्यापारी शब्दं कञ्चन अशृणोत्। सः निद्रात् उद्बोधन् समीपे उष्ट्रस्य शिरः दृष्टवान्।
“प्रभो, बहिः शैत्यं असहनीयं वर्तते। कृपया मम शिरः पटकक्षायाः अन्तः स्थापितुम् अनुमतिं ददातु” इति उष्ट्रः प्रार्थितवान्। कृपाम् अनुभवन् व्यापारी तत् अनुमोदितवान्। यथा उष्ट्रस्य शिरः अन्तः सुखेन स्थापितं सः पुनः निद्रावशः आसीत्।
किञ्चित् समयानन्तरम् सः सहसा उष्ट्रेन उद्बोधितः। उष्ट्रः अवदत् यत् मम ग्रीवाम् अपि अन्तः आकृष्टुम् अर्हामि किम्? तस्य कृते अपि अनुमतिं दत्तम् आसीत्। व्यापीरी शीघ्रम् एव पुनः उद्बोदितवान्। “ईदृश्या रीत्या शिरस्य लम्बनं क्लेशकरम् अस्ति। किम् मम पादाग्रौ अपि अन्तः प्रसरामि? स्वल्पम् एव अवकाशः आवश्यकः” इति उष्ट्रः प्रार्थयत्। अनुमतिम् अपि प्राप्नोत्।
शीघ्रम् एव उष्ट्रः पुनः अवदत् यत् “प्रियप्रभो पटकुट्यायाः द्वारः इदानीं उद्घाटितः तिष्ठति। यदि अहम् पूर्णतया अन्तः आयायाम् तर्हि द्वारभागम् अपि पिहितम् भविष्यति”। व्यापारि अपि शैत्यात् उष्ट्रस्य रक्षणम् इच्छन् तस्य सम्पूर्ण-प्रवेशार्थं कथञ्चित् स्थलम् कल्पितवान्। इदानीम् उष्ट्रः पूर्णतया शिबिरस्य अन्तः आसीत्।
परन्तु द्वयोः कृते शिबिरम् लघु आसीत्। तदा उष्ट्रः अवदत् यत् आवयोः द्वयोः कृते शिबिरम् इदम् अपर्याप्तम्। भवान् कृपया बहिः शेताम्। तत् श्रुत्वा कुपितः व्यापारी उष्ट्रम् प्रहरण् बहिः कृतवान्। शिबिरस्य द्वारभागम् अपि दृढं पिहित्वा सुखेन सुप्तवान्। अनर्हाय कृतं उपकारम् आत्मनः कृते अपराधम्।

The indefinite forms (अनिश्चितार्थकाः शब्दाः) are highlighted in yellow. These forms give us the liberty of telling the story without using specific names and places. Before learning in detail about such usages, let us gain vocabulary from the story.

शब्द-परिचयः
शब्दःअर्थःविश्लेषणम्
अङ्गुलम्अङ्गुलः - A measure equivalent to an inch.
अङ्गुलम् - कर्मपदम्
अकारान्तः पुल्लिङ्गः 'अङ्गुलः' शब्दः द्वितीया एकवचनम्
हस्तम्हस्तः - Measure equivalent to the length of a hand.
हस्तम् - कर्मपदम्
अकारान्तः पुल्लिङ्गः 'हस्त' शब्दः द्वितीया एकवचनम्
अङ्गुलं दीयेत हस्तम् अपहरिष्यतेIf an inch is given foot is snatched.
कस्याञ्चित्In some…कस्याम् + चित्
‘चित्’ अव्ययान्तरूपम्
स्त्रीलिङ्गः
अनिश्चितार्थका सप्तमी एकवचनम्
Indicates indefinite place or time.
शैत्यमयौशैत्येन पीडितम्
Severely cold
ईकारान्तः सत्रीलिङ्गः ‘शैत्यमयी’ शब्दः
सप्तमी एकवचनम् (विशेषणम्)
मरुभूमौमरुभूमिः – Desert
In the desert
इकारान्तः स्त्रीलिङ्गः ‘भूमि’ शब्दः
सप्तमी एकवचनम्
कश्चनSomeoneकः + चन = कश्चन
पुल्लिङ्गः अनिश्चितार्थका प्रथमा एकवचनम्
पटकुट्यांपटकुटी – शिबिरम्
Camping Tent
In the tent
इकारान्तः स्त्रीलिङ्गः ‘कुटी’ शब्दः
सप्तमी एकवचनम्
संसुप्तःLain down to sleepअकारान्तः पुल्लिङ्गः ‘सुप्त’ शब्दः
प्रथमा एकवचनम्
सम् + स्वप् धातुः + क्त प्रत्ययः - संसुप्तः
क्त-अन्तं पदम्
उष्ट्रःCamelअकारान्तः पुल्लिङ्गः ‘उष्ट्र’ शब्दः
प्रथमा एकवचनम्
स्तम्भेPost
In the post
अकारान्तः पुल्लिङ्गः ‘स्तम्भ’ शब्दः
सप्तमी एकवचनम्
बद्धःTiedअकारान्तः पुल्लिङ्गः ‘बद्ध’ शब्दः
प्रथमा एकवचनम्
बन्ध्-धातुः + क्त-प्रत्ययः
उद्बोधन्Having woken upतकारान्तः पुल्लिङ्गः ‘उद्वोधत्’ शब्दः
प्रथमा एकवचनम्
उद् + बुध्-धातुः + शतृ-प्रत्ययः
कञ्चन (शब्दम्)Some (Sound) – pairs with Objectकं + चन – कञ्चन
कर्मपदेन योजयति।
अनुभवन्Experiencingतकारान्तः पुल्लिङ्गः ‘अनुभवत्’ शब्दः
अनु + भू धातुः+ शतृ प्रत्ययः
किञ्चित्Someकिम् + चित् – किञ्चित्
प्रथमा एकवचनम्
आकृष्टुम्To pull inआ + कृष् धातुः + तुमुन् - आकृष्टुम्
अव्ययपदम्
आयायाम्आगच्छेयम्
if I come (in)
आ + या + धातुः
विधिलिङ्
पिहितम्Closedअकारान्तः नपुंसकलिङ्गः ‘पिहित’ शब्दः
प्रथमा एकवचनम्
अपि + धा धातुः + क्त - पिहित
कथञ्चित्Somehowकथं + चित् - कथञ्चित्
कल्पितवान्आयोजितवान्
Arranged
तकारान्तः पुल्लिङ्गः कल्पितवत् शब्दः
प्रथमा एकवचनम्
कृप् धातुः + क्तवतु प्रत्ययः - कल्पितवत्
सुप्तवान्शयितवान्
Slept
तकारान्तः पुल्लिङ्गः सुप्तवत् शब्दः
प्रथमा एकवचनम्
स्वप् धातुः + क्तवतु प्रत्ययः - सुप्तवत्

We can see in the above story the words कस्याञ्चित्, कश्चन, कञ्चन, किञ्चित् and कथञ्चित् are used unspecifically. Let us learn more on this type of usages.

अनिर्णीते चित्-चन्-प्रयोगः

‘किम्’ इति प्रश्नार्थक-शब्दः अस्माभिः परिच्छितः शब्दः। किं शब्दः त्रिषु लिङ्गेषु विभक्ति-रूपाणि स्विक्रियते। We are conversant with the word ‘किम्’ used in questions. It takes Vibhathi forms in all the three genders. You may have a look at their Vibhakthi forms by clicking the Links given below.

Let us read few example sentences and understand the meaning when ‘चित्’ is joined to Vibhakthi forms of ‘किम्’.

  1. कश्चित् (कः + चित्) निद्यार्थी गच्छति।
  2. कस्याञ्चित् (कस्याम् + चित्) रात्रौ सहसा वृष्टिः आसीत्।
  3. कस्मिंश्चित् (कस्मिन् + चित्) गृहे चौर्यं जातम्।

In the first sentences it is not certain which student goes. ‘चित्’ is joined to ‘कः’ to indicate the uncertainness. ‘कः गच्छति’ इति निश्चयः नास्ति। ‘कः’ शब्देन ‘चित्’ योजयित्वा अनिर्णीताथं (अनिश्चयार्थकत्वं वा) बोध्यते। Similarly ‘चित्’ joining ‘कस्याम्’ in second sentence refers to in some uncertain Night (रात्रिः) and कस्मिन् + चित् in the third sentence tells about an uncertain House (गृहम्). Note that Linga, Vachana and Vibhakthi part of ‘किम्’ शब्दः matches with those of the Noun which they refer to. The same indefiniteness or uncertainness can be achieved using ‘चन’ in place of ‘चित्’.

Avyaya padas ‘चित्’ or ‘चन’ join the forms of ‘प्रश्नार्थकः किम्-शब्दः’ to bring in the meaning of indefiniteness.
‘चित्’ or ‘चन’ ending words function as adjectives to the nouns that follow them.

We now learn the चित् and चन ending forms in all the three Lingas. Sandhi rules are followed while joining these avyayas to किम् Vibhakthi forms. We will be learning about Sandhi rules in the next module. As of now try to capture the final forms in all the Vibhakthi forms.

चित्-अन्तरूपाणि त्रिषि लिङ्गेषु

पुल्लिङ्गे
प्रथमाकः + चित् =
कश्चित्
कौ + चित् =
कौचित्
के + चित् =
केचित्
द्वितीयाकम् + चित् =
कञ्चित्
कौ + चित् =
कौचित्
कान् + चित् =
कांश्चित्
तृतीयाकेन + चित् =
केनचित्
काभ्याम् + चित् =
काभ्याञ्चित्
कैः + चित् =
कैश्चित्
चतुर्थीकस्मै + चित् =
कस्मैचित्
काभ्याम् + चित् =
काभ्याञ्चित्
केभ्यः + चित् =
केभ्यश्चित्
पञ्चमीकस्मात् + चित् =
कस्माच्चित्
काभ्याम् + चित् =
काभ्याञ्चित्
केभ्यः + चित् =
केभ्यश्चित्
षष्ठीकस्य + चित् =
कस्यचित्
कयोः + चित् =
कयोश्चित्
केषाम् + चित् =
केषाञ्चित्
सप्तमीकस्मिन् + चित् =
कस्मिंश्चित्
कयोः + चित् =
कयोश्चित्
केषु + चित् =
केषुचित्
स्त्रीलिङ्गे
प्रथमाका + चित् =
काचित्
के + चित् =
केचित्
काः + चित् =
काश्चित्
द्वितीयाकाम् + चित् =
काञ्चित्
के + चित् =
केचित्
काः + चित् =
काश्चित्
तृतीयाकया + चित् =
कयाचित्
काभ्याम् + चित् =
काभ्याञ्चित्
काभिः + चित् =
काभिश्चित्
चतुर्थीकस्यै + चित् =
कस्यैचित्
काभ्याम् + चित् =
काभ्याञ्चित्
काभ्यः + चित् =
काभ्यश्चित्
पञ्चमीकस्याः + चित् =
कस्याश्चित्
काभ्याम् + चित् =
काभ्याञ्चित्
काभ्यः + चित् =
काभ्यश्चित्
षष्ठीकस्याः + चित् =
कस्याश्चित्
कयोः + चित् =
कयोश्चित्
कासाम् + चित् =
कासाञ्चित्
सप्तमी कस्यां + चित् =
कस्याञ्चित्
कयोः + चित् =
कयोश्चित्
कासु + चित् =कासुचित्
नपुंसके
प्रथमाकिम् + चित् =
किञ्चित्
के + चित् =
केचित्
कानि + चित् =
कानिचित्
द्वितीयाकिम् + चित् =
किञ्चित्
के + चित् =
केचित्
कानि + चित् =
कानिचित्
तृतीयाकेन + चित् =
केनचित्
काभ्याम् + चित् =
काभ्याञ्चित्
कैः + चित् =
कैश्चित्
चतुर्थीकस्मै + चित् =
कस्मैचित्
काभ्याम् + चित् =
काभ्याञ्चित्
केभ्यः + चित् =
केभ्यश्चित्
पञ्चमीकस्मात् + चित् =
कस्माच्चित्
काभ्याम् + चित् =
काभ्याञ्चित्
केभ्यः + चित् =
केभ्यश्चित्
षष्ठीकस्य + चित् =
कस्यचित्
कयोः + चित् =
कयोश्चित्
केषाम् + चित् =
केषाञ्चित्
सप्तमीकस्मिन् + चित् =
कस्मिंश्चित्
कयोः + चित् =
कयोश्चित्
केषु + चित् =
केषुचित्

चन-अन्तरूपाणि त्रिषुलिङ्गेषु

पुल्लिङ्गे
प्रथमाकः + चन =
कश्चन
कौ + चन =
कौचन
के + चन =
केचन
द्वितीयाकम् + चन =
कञ्चन
कौ + चन =
कौचन
कान् + चन =
कांश्चन
तृतीयाकेन + चन =
केनचन
काभ्याम् + चन =
काभ्याञ्चन
कैः + चन =
कैश्चन
चतुर्थीकस्मै + चन =
कस्मैचन
काभ्याम् + चन =
काभ्याञ्चन
केभ्यः + चन =
केभ्यश्चन
पञ्चमीकस्मात् + चन =
कस्माच्चन
काभ्याम् + चन =
काभ्याञ्चन
केभ्यः + चन =
केभ्यश्चन
षष्ठीकस्य + चन =
कस्यचन
कयोः + चन =
कयोश्चन
केषाम् + चन =
केषाञ्चन
सप्तमीकस्मिन् + चन =
कस्मिंश्चन
कयोः + चन =
कयोश्चन
केषु + चन =
केषुचन
स्त्रीलिङ्गे
प्रथमाका + चन =
काचन
के + चन =
केचन
काः+ चन =
काश्चन
द्वितीयाकाम् + चन =
काञ्चन
के + चन =
केचन
काः+ चन =
काश्चन
तृतीयाकया + चन =
कयाचन
काभ्याम् + चन =
काभ्याञ्चन
काभिः + चन =
काभिश्चन
चतुर्थीकस्यै + चन =
कस्यैचन
काभ्याम् + चन =
काभ्याञ्चन
काभ्यः + चन =
काभ्यश्चन
पञ्चमीकस्याः + चन =
कस्याश्चन
काभ्याम् + चन =
काभ्याञ्चन
काभ्यः + चन =
काभ्यश्चन
षष्ठीकस्याः + चन =
कस्याश्चन
कयोः + चन =
कयोश्चन
कासाम् + चन =
कासाञ्चन
सप्तमीकस्यां + चन =
कस्याञ्चन
कयोः + चन =
कयोश्चन
कासु + चन =
कासुचन
नपुंसके
प्रथमाकिम् + चन =
किञ्चन
के + चन =
केचन
कानि + चन =
कानिचन
द्वितीयाकिम् + चन =
किञ्चन
के + चन =
केचन
कानि + चन =
कानिचन
तृतीयाकेन + चन =
केनचन
काभ्याम् + चन =
काभ्याञ्चन
कैः + चन =
कैश्चन
चतुर्थीकस्मै + चन =
कस्मैचन
काभ्याम् + चन =
काभ्याञ्चन
केभ्यः + चन =
केभ्यश्चन
पञ्चमीकस्मात् + चन =
कस्माच्चन
काभ्याम् + चन =
काभ्याञ्चन
केभ्यः + चन =
केभ्यश्चन
षष्ठीकस्य + चन =
कस्यचन
कयोः + चन =
कयोश्चन
केषाम् + चन =
केषाञ्चन
सप्तमीकस्मिन् + चन =
कस्मिंश्चन
कयोः + चन =
कयोश्चन
केषु + चन =
केषुचन

वाक्येषु चित्-चन-प्रयोगः – उदाहरणानि

Example sentences are given in all the three Lingas, Vachanas and seven vibakthis to explain the usage of चित् and चन endings.

पुल्लिङ्गे
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकश्चित् / कश्चन बालकः आगच्छति।कौचित् / कौचन बालकौ आगच्छतः।केचित् / केचन बालकाः आगच्छन्ति।
द्वितीयाकञ्चित् / कञ्चन सेवकम् आह्वय।कौचित् / कौचन सेवकौ आह्वय।कांश्चित् / कांश्चन सेवकान् आह्वय।
तृतीयाकेनचित् / केनचन मार्गेन गच्छ।पङ्गुः काभ्याञ्चित् / काभ्याञ्चन दण्डाभ्यां चलति।वयं पाचकार्थं कैश्चित् / कैश्चन आपणेभ्यः तण्डुल-सूप-शाकानि अक्रीणीम।
चतुर्थीराधा कस्मैचित् / कस्मैचन भिक्षुकाय अन्नं ददाति।राधा काभ्याञ्चित् / काभ्याञ्चन भिक्षुकाभ्याम् अन्नं ददाति।राधा केभ्यश्चित् / केभ्यश्चन भिक्षुकेभ्यः अन्नं ददाति।
पञ्चमीसः कस्माच्चित् / कस्माच्चन वृक्षात् फलानि अचिनोत्।सः काभ्याञ्चित् / काभ्याञ्चन वृक्षाभ्यां फलानि अचिनोत्।सः केभ्यश्चित् / केभ्यश्चन वृक्षेभ्यः फलानि अचिनोत्।
षष्ठीकस्यचित् / कस्यचन छात्रस्य युतकम् अत्र अस्ति।कयोश्चित् / कयोश्चन छात्रयोः युतके अत्र स्तः।केषाञ्चित् / केषाञ्चन छात्राणां युतकानि अत्र सन्ति।
सप्तमीएकदा कस्मिंश्चित् / कस्मिंश्चन देशे दुर्भिक्षा आसित्।एकदा कयोश्चित् / कयोश्चन देशयोः दुर्भिक्षा आसीत्।एकदा केषुचित् / केषुचन देशेषु दुर्भिक्षा आसीत्।
शब्दार्थःआह्वय – Call
अचिनोत् – Picked
दुर्भिक्षा - Famine
पङ्गुः - Lameतण्डुल-सूप-शाकानि – Rice, provisions, vegetables
अक्रीणिम - bought
स्त्रीलिङ्गे
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाचित् / काचन बालिका क्रीडति।केचित् / केचन बालिके क्रीडतः।काश्चित् / काश्चन बालिकाः क्रीडन्ति।
द्वितीयारामः काञ्चित् / काञ्चन महिलां मार्गं अपृच्छत्।रामः केचित् / केचन महिले मार्गं अपृच्छत्।रामः काश्चित् / काश्चन महिलाः मार्गं अपृच्छत्।
तृतीयासीता कयाचित् / कयाचन वृद्धया सह वार्तालापं करोति।सीता काभ्याञ्चित् / काभ्याञ्चन वृद्धाभ्यां सह वार्तालापं करोति।सीता काभिश्चित् / काभिश्चन वृद्धेभ्यः सह वार्तालापं करोति।
चतुर्थीराधा कस्यैचित् / कस्यैचन संन्यासिन्यै भिक्षां ददाति।राधा काभ्याञ्चित् / काभ्याञ्चन संन्यासिनीभ्यां भिक्षां ददाति।राधा काभ्यश्चित् / काभ्यश्चन संन्यासिनीभ्यः भिक्षां ददाति।
पञ्चमीसः कस्याश्चित् / कस्याश्चन भीत्या पीडितवान्।सः काभ्याञ्चित् / काभ्याञ्चन कुटीभ्यां फलानि प्राप्नोत्।सः केभ्यश्चित् / केभ्यश्चन लताभ्यः पुष्पाणि अचिनोत्।
षष्ठीकस्याश्चित् / कस्याश्चन अध्यापिकयाः स्यूतम् अत्र अस्ति।कयोश्चित् / कयोश्चन अध्यापिकयोः स्यूतौ अत्र स्तः।कासाञ्चित् / कासाञ्चन अध्यापिकानां स्यूताः अत्र सन्ति।
सप्तमीकस्याञ्चित् / कस्याञ्चन कूप्यां तैलम् अस्ति।कयोश्चित् / कयोश्चन कूप्योः तैलम् अस्ति।कासुचित् / कासुचन कूपीषु तैलम् अस्ति।
शब्दार्थःवार्तालापम् - Conversation
संन्यासिनी – Sanyasi (Female)
भीतिः – Fear
स्यूतः - Bag
कूपी - Bottle
कुटी - Hutलता - Creeper
नपुंसके
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिञ्चित् / किञ्चन कार्यानम् चलति।केचित् / केचन कार्याने चलतः।कानिचित् / कानिचन कार्यानानि चलन्ति।
द्वितीयासुरेशः किञ्चित् / किञ्चन पुस्तकं पठति स्म।तौ भ्रातरो केचित् / केचन पुस्तके पठतः स्म।ते भ्रातरः कानिचित् / कानिचन पुस्तकानि पठन्ति स्म।
तृतीयागिरीशः केनचित् / केनचन यानेन ग्रामं प्राप्नोत्।सः काभ्याञ्चित् / काभ्याञ्चन मित्राभ्यां सह वर्तते।राघवः कैश्चित् / कैश्चन पुष्पेभ्यः देवम् अर्चितवान्।
चतुर्थीराधा कस्मैचित् / कस्मैचन मित्राय उपायनं ददाति।राधा काभ्याञ्चित् / काभ्याञ्चन मित्राभ्याम् उपायने ददाति।राधा केभ्यश्चित् / केभ्यश्चन मित्रेभ्यः उपायनानि ददाति।
पञ्चमीसः कस्माच्चित् / कस्माच्चन फलात् रसं निष्करोति।सः काभ्याञ्चित् / काभ्याञ्चन फलाभ्यां रसं निष्करोति।सः केभ्यश्चित् / केभ्यश्चन फलेभ्यः रसं निष्करोति।
षष्ठीकस्यचित् / कस्यचन गृहस्य कुञ्चिका अत्र अस्ति।कयोश्चित् / कयोश्चन गृहयोः कुञ्चिके अत्र स्तः।केषाञ्चित् / केषाञ्चन गृहानां कुञ्चिकाः अत्र सन्ति।
सप्तमीकस्मिंश्चित् / कस्मिंश्चन गृहे चोरः गोपयति।कयोश्चित् / कयोश्चन गृहयोः नाले जलं न आगच्छति।केषुचित् / केषुचन गृहेषु सर्वदा अन्नं लभ्यते।
शब्दार्थःउपायनम् – Gift
रसः – Juice
निष्करोति – extracts
कुञ्चिका – Key
गोपयति - hides
नालः - tapसर्वदा - always

चिता वा चनेन युक्तानि अव्ययानि

We also come across the following type of usages.

  1. तद् पुस्तकं कक्षायां कुत्रचित् भवितुम् अर्हति।
    That book can be somewhere in the class.
  2. अहं तव गृहं कदाचित् आगमिष्यामि।
    I will come to your house sometimes.
  3. अस्मिन् ग्रामे कतिचन पण्डिताः सन्ति।
    There are some scholars in this village.

यथा किंशब्दरूपैः सह चित् वा चन योज्येते तथा एव कुत्र, कति, कदा, कथं आदैः प्रश्नवाचकैः सह अपि तयोः योजनं भवितुम् अर्हति। एवं अव्ययेभ्यः निष्पन्नानि शब्दानि अपि अव्ययानि।
Just as चित् / चन join with the forms of किम्, they also join with question words like कुत्र, कति, कदा, कथं . The words so formed from Avyayas are also Avyayas.

The following table shows more examples of this type. We can also see equivalent expressions

अनिश्चितार्थकं पदम्वाक्ये प्रयोगःसमानार्थकः प्रयोगः
कुत्रचित्रमेशस्य गृहं एतस्याम् वीथ्याम् कुत्रचित् भवति।कस्मिंश्चित् स्थाने
कदाचित्रविः तस्य अपराधं कदाचित् स्वयम ज्ञास्यति।कस्मिंश्चित् काले
कुतश्चित्यदा वयम जल्रं कुर्वन्तः तदा कुतश्चित् रोदनं शृतम्।कस्माच्चित् स्थानात्
कथञ्चित्सा कथञ्चित् परीक्षां उत्तीर्णवति।केनचित् मार्गेन
कतिचित्कण्डोले कतिचित् फलानि सन्ति।केचित् / काश्चित् / कानिचित्

It is now time to practice what we learned in this lesson. इदानीं पठितं विषयम् अधिकृत्य अभ्यासस्य समयः।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Please answer the questions on narrative. प्रश्नानाम् उत्तराणि पाठप्रसङ्गात् लिखत।
    1. शैत्यमयौ रात्रौ कः कुत्र किम् अकरोत् ?
    2. उष्ट्रः व्यापारिणं किं प्रार्थितवान् ?
    3. व्यापारिणः कारुण्यात् अन्ते किम् अभवत् ?
    4. कथायाः नीतिः का।
    5. कथायाम् दृष्टमानाः चितन्ताः चनान्ताः शब्दाः के ? ते कथं निर्मीयन्ते इति दर्शय।

  2. Write चित् or चन endings to match the nouns given. निर्दिष्टानां विशेषानुगुणं किं शब्दस्य चित् वा चन युक्तं पदं लिखत

    उदाहरणम्-

    ________ नद्योः → कयोश्चित् / कयोश्चन नद्योः

    1. ________ छात्रेण
    2. ________ पुस्तकानाम्
    3. ________ स्त्रीषु
    4. ________ ग्रामाभ्याम्
    5. ________ मित्राणि
    6. ________ नद्याः
    7. ________ बालिकायै
    8. ________ नगरात्
    9. ________ वृक्षेषु
    10. ________ वृद्धाभिः

  3. Complete the sentences using the words given in the box. कोष्टकस्थानां शब्दानां साहाय्येन वाक्यानि पूरयत।
    कस्याश्चित्     कैश्चित्     कदाचित्     कस्माञ्चन     कानिचन
    कुतश्चित्     केचन     काभ्यश्चित्     केषुचन     किञ्चित्
    1. प्रतिदिनं _______ अतिथिभ्यः आहारं ददातु।
    2. ________ छात्राः पुस्तकालये सन्ति।
    3. ________ नगरेषु चिकित्सालयानां न्यूनता वर्तते।
    4. सः _________ रोगात् पीडितः आसीत्।
    5. इदानीं ________ कथायाः संवादः जायते।
    6. मम _______ धनम् आवश्यकम्।
    7. यदा वयं जल्पं अकुर्म तदा ________ एकं कन्दुकम् आगत्य मध्ये अपतत्।
    8. अहं _______ बुद्धिमद्भिः सह काशीं गमिष्यामि।
    9. पूजार्थं _________ पुष्पाणि आनय।
    10. एतद् उपकारं वयं ________ न विस्मरामः।
  4. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. Some Fisherman saw some Conches. (Conch - शङ्खुः Fisherman - धीवरः)
    2. Ramaa read some slokam. (Read – Use past tense लङि प्रयोक्तव्यमम)
    3. Prime minister goes abroad with some Secretaries. (Prime minister – प्रधानमन्त्री Secretary - सचिवः )
    4. Some boys are playing always. (always - सर्वदा)
    5. In some Schools students also do vedadyayanam. (वेदाध्ययनम्)
    6. Some rich people are also philanthropists. (philanthropist - दानशीलः)
    7. Get medicines quickly from some shop. (Medicine – औषधम्)
    8. Raghava is an executive in some bank. (Executive – अधिकारिन् शब्दस्य प्रथमा एकवचनम् Bank - वित्तकोषः)
    9. I have heard these Mantras in some audio recordings. (audio recording - ध्वनिमुद्रिका)
    10. Some travelers are strolling on the beach. (traveler – यात्रिन् beach – समुद्रतटः strolling - भ्रमति )

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


We are familiar with लट्, लोट्, लङ् (भूतकालिकः) and लृङ् (भविष्यद्) forms of परस्मैपदिनः धातवः. We learned only the लट् forms of आत्मनेपदिनः धातवः। In the next few lessons we learn about these forms. Our next lesson is……
Lesson 9 Imperative forms of Atmanepadi Dhatus - आत्मनेपदिनः धातवः – लोट्लकारः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...