Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 3 Sentence building in Samskritam - Lesson 9 - Imperative forms of Atmanepadi Dhatus

प्रावेशिकः स्तरः - तृतीयः विभागः – संस्कृत-वाक्यरचना - नवमः पाठः - आत्मनेपदिनः धातवः - लोट्लकारः

We learn about........

We have so far learned in this module...


The goal of this lesson is …..
  • The goal of the lesson is to teach the “लोट्” (imperative) forms of Atmanepadi Dhatus. एषः पाठः आत्मनेपदिनां धातूनां लोट्-लकार-रूपान् बोधयति।

We start this lesson with a Prayer– “ लोकाः समस्ताः सुखिनो वर्तन्ताम्।“. Yes! It is same as the popular version “लोकाः समस्ताः सुखिनो भवन्तु।“. भू धातोः लोट् रूपम् वृत धातोः समान-रूपेन अतिदिश्यते। Imperative form of भू धातुः is replaced with the similar form of वृत् धातुः with the same meaning. वृत् धातुः is an Atmanepadi Dhatu and hence we observe the change in the verb ending.

We present a Sloka from Divine Narayaneeyam as Prayer Song for this lesson.

ललितमुरलीनादं दूरान्निशम्य वधूजनै-
स्त्वरितमुपगम्यारादारूढमोदमुदीक्षित: ।
जनितजननीनन्दानन्द: समीरणमन्दिर-
प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ।।

“Having heard the sweet sound of you at a distance, Gopis rushed near you and saw you in extreme joy. Oh, Shoure, Guruvayurappa, who caused happiness to one’s parents Yashoda and Nanda, please expel my diseases. “

We draw your attention to the pair दूरी कुरुष्व meaning expel. कृ is a उभयपदी धातुः, that is it assumes both Parasmeipada and Atmanepada forms. Here we observe the verb form as कुरुष्व, which is the मध्यमपुरुष-एकवचन Atmanepada form of कृ धातुः.

We have learned that लोट् Forms are used to express प्रार्थना or आज्ञा.
प्रार्थनाः सन्दर्भान् अनुसृत्य बहुविधाः। अग्रे पठाम।


प्रसङ्गाः भिन्नाः। प्रार्थनाः आज्ञाः वा तान् अनुसृताः

सम्यक् अवगमनार्थम् अभ्यासम् कुरुध्वम् इति अध्यापकः चात्रान् वदति।
Teacher tells the students “You all do practice exercises for perfect understanding.”
माता पुत्रम् वदति यत् परीक्षायाम् उन्नतीं प्राप्त्यर्थम् ईश्वरं प्रार्थयस्व।
Mother tells son “Pray to Eswara for best results in the exam”.
विद्यालय-शुल्कार्थं भवती पितरं ज्ञापयताम् इति पुत्रः मातरं वदति।
Son requests mother “Please remind Father of School fee”.
तव विरामप्रार्थना अङ्गीकृता वा? तत्विषये प्रबन्धकेन अहं भाषै? इति युवकः सहप्रवर्तकम् उक्तवान्।
Youth asked his colleague “Is your leave petition approved? May I talk with the Manager on that matter?”.
द्वौ बालकौ गृहपाठं समाप्तवन्तौ। एकः वदति यत् इदानीं सुखेन शयावहै।

Two students completed the home work. One of them tells “We can now peacefully sleep”.
लोककल्याणाय श्रेष्ठाः एवम् – प्रार्थयन्ते।
For the welfare of the society noble men wish as follows -

लोकाः सर्वे अन्यान् स्व बान्धवाः इव मन्यन्ताम्।
May all consider others as their own.

सर्वत्र मैत्रीभावः वर्धताम्।
May friendship grow everywhere.

सर्वथा सत्यमेव विजयताम्।
May truth win always.

देशे सदा शान्तिः समृद्धिः च वर्तेताम्। धनधान्य-सम्पत्तिः वर्धताम्।
May peace and prosperity prevail in the country. May the wealth money and grain grow.

Please note the verb forms in the sentences are highlighted in yellow background. They are all Atmanepada Imperative forms (लोट्). We will be analysing these forms after learning the endings that are added to Dhatus indicate imperative mood (लोट्), common and special लोट् forms.

लोट्-आत्मनेपदान्ताः – रूपाणि प्रक्रिया च

We first list the imperative endings for Atmanepada forms. Later we look at the all the लोट् forms of some well known Atmanepada dhatus.

लोट्-आत्मनेपदान्ताः – Atmanepada imperative endings
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःताम्इताम्अन्ताम्
मध्यमपुरुषःस्वइथाम्ध्वम्
उत्तमपुरुषःआवहैआमहै

वन्द् (वन्द) is a known Atamanepadi Dhatu. Let us now look at the prakriyas for getting the “लोट्” forms of “वन्द् धातुः” in all the three Purushas and Vachanas.



इदानीम् वन्द् धातोः सर्वाणि लोट्-रूपाणि पश्याम। रूपेभ्यः अधः उदाहरणवाक्यानि अपि दत्तानि।

आत्मनेपदी वन्द् धातुः – लोट्-रूपाणि
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःवन्दताम्
भवान् वन्दताम्
वन्देताम्
भवन्तौ वन्देताम्
वन्दन्ताम्
भवन्तः वन्दन्ताम्
मध्यमपुरुषःवन्दस्व
त्वम् वन्दस्व
वन्देथाम्
युवाम् वन्देथाम्
वन्दध्वम्
यूयम् वन्दध्वम्
उत्तमपुरुषःवन्दै
अहं वन्दै
वन्दावहे
आवां वन्दावहै
वन्दामहै
वयं वन्दामहै

The above table can be used as a general reference for writing the लोट्-रूपाणि for many dhatus. We list the प्रथमपुरुष-रूपाणि for some commonly used dhatus which assume this general pattern. Please practice writing the other six forms using the above table as a guide. To verify your work, click the Dhatu names to view the complete लोट् forms of that Dhatu

आत्नमनेपदिनां धातूनां लोटि प्रथमपुरुष-रूपाणि
धातुःएकवचनम्द्विवचनम्बहुवचनम्
वृत्वर्तताम्वर्तेताम्वर्तन्ताम्
मन्मन्यताम्मन्येताम्मन्यन्ताम्
कम्प्कम्पताम्कम्पेताम्कम्पन्ताम्
भाष्भाषताम्भाषेताम्भाषन्ताम्
सह्सहताम्सहेताम्सहन्ताम्
स्पर्ध्स्पर्धताम्स्पर्धेताम्स्पर्धन्ताम्
ईक्ष्ईक्षताम्ईक्षेताम्ईक्षन्ताम्
क्षम्क्षमताम्क्षमेताम्क्षमन्ताम्
बाध्बाधताम्बाधेताम्बाधन्ताम्
लज्ज्लज्जताम्लज्जेताम्लज्जन्ताम्
यत्यतताम्यतेताम्यतन्ताम्
श्लाघ्श्लाघताम्श्लाघेताम्श्लाघन्ताम्
शङ्क्शङ्कताम्शङ्केताम्शङ्कन्ताम्
शुभ्शुभताम्शुभेताम्शुभन्ताम्
कूर्द्कूर्दताम्कूर्देताम्कूर्दन्ताम्
युध्युधताम्युधेताम्युधन्ताम्
सेव्सेवताम्सेवेताम्सेवन्ताम्
त्रैत्रायताम्त्रायेताम्त्रायन्ताम्
मुद्मोदताम्मोदेताम्मोदन्ताम्
प्लुप्लवताम्प्लवेताम्प्लवन्ताम्
भिक्ष्भिक्षताम्भिक्षेताम्भिक्षन्ताम्
वृध्वर्धताम्वर्धेताम्वर्धन्ताम्
खिद्खिद्यताम्खिद्येताम्खिद्यन्ताम्
अप + ईक्षअपेक्षताम्अपेक्षेताम्अपेक्षन्ताम्

Kriyapadani of certain Atmanepadi Dhatus do not conform to the general pattern seen above. We list some of such dhatus before we read some example senetences.

लोटि आत्मनेपद-विशेषक्रियापदानि

कृ धातुः उभयपदी अस्ति। We see below आत्मनेपद-लोट्-क्रियापदानि of कृ धातुः.

कृ धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकुरुताम्कुर्वाताम्कुर्वताम्
मध्यमपुरुषःकुरुष्वकुर्वाथाम्कुरुध्वम्
उत्तमपुरुषःकरवैकरवावहैकरवामहै

ज्ञा, भुज् अपि आत्मनेपदिनौ धातौ। तयोः लोट्-रूपाणि अधः दीयन्ते।

ज्ञा धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानीताम्जानाताम्जानताम्
मध्यमपुरुषःजानीष्वजानाथाम्जानध्वम्
उत्तमपुरुषःजानैजानावहैजानामहै
भुज् धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभुङ्क्ताम्भुञ्जाताम्भुञ्जताम्
मध्यमपुरुषःभुङ्क्ष्वभुञ्जाथाम्भुङ्ग्ध्वम्
उत्तमपुरुषःभुनजैभुनजावहैभुनजामहै

शी, ब्रू and अधि + इ are other three Atmanepada Dhatus which assume special verb forms.

शी धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशेताम्शयाताम्शेरताम्
मध्यमपुरुषःशेष्वशयाथाम्शेध्वम्
उत्तमपुरुषःशयैशयावहैशयामहै
ब्रू धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःब्रूताम्ब्रुवाताम्ब्रुवताम्
मध्यमपुरुषःब्रूष्वब्रुवाथाम्ब्रूध्वम्
उत्तमपुरुषःब्रवैब्रवावहैब्रवामहै
अधि + इ धातोः आत्मनेपद-क्रियापदानि (लोट्)
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअधीताम्अधीयाताम्अधीयताम्
मध्यमपुरुषःअधीष्वअधीयाथाम्अधीध्वम्
उत्तमपुरुषःअध्ययैअध्ययावहैअध्ययामहै

Here are few examples sentences with आत्मनेपद-लोट्-क्रियापदानि.

उदाहरण-वाक्यानि

भवन्तः अधर्मं चरितुं लज्जन्ताम्।
May you all be ashamed to follow unrighteousness.
लज्जन्ताम् - लज्ज धातोः लोटि प्रथमपुरुष-बहुवचनरूपम्
युद्धे कौरवान् विजयध्वम् इति कुन्ती पाण्डवान् प्रति अवदत्।
Kunthi told Pandavas, win over Kouravas in war.
विजयध्वम् - वि + जी धातोः लोटि मध्यमपुरुष-बहुवचनरूपम्. यद्यपि जि धातुः परस्मैपदी अस्ति, वि उपसर्ग-योजनेन आत्मनेपदरूपान् स्वीकरोति।
गुरुः शिष्यम् आशास्त यत् तव यशः वर्धताम्।
Guru blessed the Sishya, “ May your fame spread”.
वर्धताम् – वृध् धातोः लोटि प्रथमपुरुष-एकवचनरूपम्
आशास्त – आत्मनेपदिनः शास्-धातोः लङि (भूते) प्रथमपुरुष- एकवचनरूपम्
त्वम् आत्मनि एव रमस्व।
May you rejoice in thyself.
रमस्व – रम् धातोः लोटि मध्यमपुरुष-एकवचनरूपम्
नगरे वृष्टिः भवेत् इति अहम् कामयै।
I guess it is raining in the city.
कामयै - कम् धातोः लोटि उत्तमपुरुष-एकवचनरूपम्
वयम् पक्षिणः इव आकाशे डयामहै।
May we fly in the sky like birds.
डयामहै – डी धातोः लोटि उत्तमपुरुष-बहुवचनरूपम्।
हे पुत्रौ ! युवाम् आनन्देन शयाथाम्।
Hey sons (two)! You may sleep now happily.
शयाथाम् – शी धातोः लोटि मध्यमपुरुष-द्विवचनरूपम्।
आर्ये! विद्यालय-समाहारे आवाम् नृत्यं करवावहै?
Madam, may we two dance in the School assembly?
करवावहै – कृ धातोः लोटि आत्मनेपदी-उत्तमपुरुष-द्विवचनरूपम्।

पाठे वर्तमानानां लोट्-क्रियापदानां विश्लेषणम्

Let us now analyse the verb forms we read in प्रसङ्गाः भिन्नाः…..

क्रियापदम्कः धातुः? कः पुरुषः? किं वचनम्?
कुरुध्वम्कृ धातुः मध्यमपुरुषः बहुवचनम्
प्रार्थयस्वप्र + अर्थ मध्यमपुरुषः एकवचनम्
ज्ञापयताम्ज्ञा धातुः + णिच् प्रत्ययः
णिजन्तक्रियापदम्
प्रथमपुरुषः एकवचनम्
भाषैभाष् धातुः उत्तमपुरुषः एकवचनम्
शयावहैशी धातुः उत्तमपुरुषः द्विवचनम्
मन्यन्ताम्मन् धातुः प्रथमपुरुषः बहुवचनम्
वर्धताम्वृध् धातुः प्रथमपुरुषः एकवचनम्
विजयताम्विजयताम् वि + जि धातुः प्रथमपुरुषः एकवचनम्

Well, we complete this lesson with our usual practice exercises. यथावत् इमं पाठं अभ्यासप्रशनैः समापयामः।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write all the imperative (लोट्) forms of the given Dhatu. धातूनाम् सर्वाणि लोट् रूपाणि लिखत।
    1. शी धातुः
    2. प्लु धातुः
    3. कूर्द् धातुः
    4. त्रै धातुः
    5. सेव् धातुः

  2. Write the imperative (लोट्) form as directed. निर्देशानुसरणं धातोः लोट्-रूपं लिखत।
    1. कृ धातोः उत्तमपुरुष-एकवचनरूपम्
    2. भाष् धातोः मध्यमपुरुष-एकवचनरूपम्
    3. कम्प् धातोः उत्तमपुरुष-बहुवचनरूपम्
    4. मुद् धातोः प्रथमपुरुष-बहुवचनरूपम्
    5. अप + ईक्ष मध्यमपुरुष-बहुवचनम्
    6. क्षम् धातोः प्रथमपुरुष-द्विवचनम्
    7. ब्रू धातोः उत्तमपुरुष-द्विवचनम्
    8. वि + जि धातोः मध्यमपुरुष-एकवचनम्
    9. वृध् धातोः उत्तमपुरुष-द्विवचनम्
    10. स्पर्ध धातोः मध्यमपुरुष-बहुवचनम्

  3. Rewrite the sentence replacing the present form (लट्) with imperative form (लोट्). वाक्येषू लट्-क्रियापदानां स्थानेषु तेषाम् अनुरूपानि लोट्-पदानि लिखित।
    1. वृक्षेषु पुष्पाणि शोभन्ते।
    2. वयं देवं वन्दावहे।
    3. शुभवार्त्तां श्रुत्वा ते सर्वे मोदन्ते।
    4. त्वम् प्रकृति-सौन्दर्यं निरीक्षसे।
    5. अहम् धनसंपत्तौ तव तुल्यं वर्ते।
    6. यूयं कीर्तिं लभध्वे।
    7. ते स्पर्धाम् विजयन्ते।
    8. भवान् माम् कष्टात् त्रायते।
    9. युवां विजयं कामयेथे।
    10. अपुत्राः पुत्रिणः वर्तन्ते।
  4. Replace the Parasmeipadi verb forms with suitable atmanepada verb froms given in the box. पर्स्मैपदक्रीयापदानां स्थाने कोष्टकात् उचितानि आत्मनेपदक्रियापदानि चित्वा निवेशय।
    मोदताम्     त्रायताम्     ब्रवै     लभस्व     वर्तताम्
    वर्तोथाम्     अवलोकै     वन्दध्वम्     कुर्वताम्     बाधताम्
    1. वयं सत्यं हितं वदाम।
    2. त्वम विजयं प्राप्नुहि।
    3. सीता गीतं श्रुत्वा तुष्यतु।
    4. युवां गृहे भवतम्।
    5. भगवान् अस्माकं रक्षतु।
    6. अहं तत् चित्रं पश्यानि वा ?
    7. यूयं देवम् प्रणमत।
    8. छात्राः गृहकार्यं कुर्वन्तु।
    9. बलवान् बलहीनं न पीडतु।
    10. अस्माकं गृहे सर्वता आनन्दं भवतु।
  5. Translate into Samskritam. संस्कृते अनुवादं कुरुत।
    1. You may sleep here happily. (Use भवान्)
    2. Boys! You all follow me. (to follow – अनु + वृत्)
    3. May you bear hardship for some days. (to bear – सह hardship – कष्टम् some - कतिचन )
    4. Let us jump into the river to save our lives. (to jump -कूर्द् to save our lives - आत्मरक्षणार्थम्)
    5. You two do the home work now.
    6. Do not be sad. (to be sad – खिद्)
    7. Let us serve the country. (to serve - सेव )
    8. May you all learn Samskritam. (to learn – अधि + ई)
    9. May the parents forgive us. (parents – पितरौ to forgive – क्षम्)
    10. All please talk loudly. (loudly - उच्चैः)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.


So far we have learned लट् and लोट् forms of दिदिनः धातवः।. Next in the row is लङ्-रूपाणि (भूतकालिकः). Our next lesson teaches us these forms. Our next lesson is……
Lesson 10 Past Tense forms of Atmanepadi Dhatus - आत्मनेपदिनः धातवः - लङ्लकारः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...