संस्कृतवीथी - ஸம்ஸ்க்ருதம் பயில இணையதள தமிழ் வழி!!
संस्कृतवीथी - सरलं संस्कृतपठनम् !
முதல் நிலைப்பாடங்கள் - படிவு 2 ஸம்ஸ்க்ருத நாம பதங்களும் க்ரியா பதங்களும் - பாடம் 27 - ஸம்ஸ்க்ருத நாம க்ரியா பதங்கள் Revision Excercises -
प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - सप्तविंशतिः पाठः - नामपदानि-क्रियापदानि-पुनस्मरणाभ्यसः
இப்பாடத்தில் கற்க இருப்பது.... | | - நாம் இப்படிவில் கற்ற பாடங்களை ஒட்டிய பயிற்சிகளை செய்வதே இப்பாடத்தின் நோக்கம். एतस्य पाठस्य लक्ष्यं अस्ति यत् सम्पूर्णाभ्यास-करणम्।
|
இப்பாடத்தில் இப்படிவில் இடம் பெற்ற பாடங்களின் அடிப்படையில் மாறுபட்ட பயிற்சிகளை செய்ய இருக்கிறோம். ஒவ்வொரு கேள்வி தொகுப்பின் விடைகளைக் காண ‘விடைகளைக் காண’ என்ற பட்டனை ‘Click’ செய்யவும்.
- குறிப்பிட்ட படி வசன மாற்றம் செய்யவும். वचन-परिवर्तनं यथा उक्तं कुरुत।
उदाहरणम्
छात्रः विद्यालये अस्ति। (द्विवचनम्)
छात्रौ विद्यालये स्तः।
- मुनिः ध्यानं करोति। (बहुवचनम्)
- फले पततः। (बहुवचनम्)
- बालिका कन्दुकं क्रीडति। (द्विवचनम्)
- जनन्यौ लड्डुकानि अदत्ताम्। (एकवचनम्)
- त्वम् सत्यम् वद। (बहुवचनम्)
- आवाम् श्वः ग्रामं गमिष्यावः। (एकवचनम्)
- भ्रातरः गीताम् अशृण्वन्। (एकवचनम्)
- वहवः नद्यः प्रवहन्ति। (द्विवचनम्)
- मातरः आभरणानि क्रीणन्ति। (एकवचनम्)
- कृषकः भूमिं खनति। (बहुवचनम्)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- मुनयः धयानं कुर्वन्ति।
- फलानि पतन्ति।
- बालिके कन्दुकं क्रीडतः।
- जननी लड्डुकानि अददात्।
- यूयं सत्यं वदत।
- अहं श्वः ग्रामं गमिष्यामि।
- भ्राता गीताम् अशृणोत्।
- द्वे नद्यो प्रवहतः।
- माता आभरणानि क्रीणाति।
- कृषकाः भूमिं खनन्ति।
- கேள்வி வாக்கியங்கள் எழுதுக. दत्तेभ्यः वाक्येभ्यः प्रश्न-वाक्याणि लिखत।
उदाहरणम्
रमेशः पठनार्थं विद्यालयं गच्छति।
रमेशः किमर्थं विद्यालयं गच्छति ?
- पिता सार्धाष्टवादने कार्यालयं गच्छति।
- शिष्यः गुरवे दक्षिणां ददाति।
- चेन्नै-नगरतः काशीं गतवान्।
- अर्जुनः पाण्डोः पुत्रः।
- कृषकः हलेन कर्षति।
- चोरेभ्यः रक्षणं प्रप्नुम।
- तस्य उत्तरं समीचीनम् न आसित्।
- सिंहः वने वसति।
- मम नाम सरस्वती।
- अहं रोटिकाम् खादामि।
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- पिता कदा कार्यालयम् गच्छति?
- शिष्यः कस्मै दक्षिणां ददाति?
- कुतः काशीं गतवान्? / चेन्नै-नगरतः कुत्र गतवान्?
- अर्जुनः कस्य पुत्रः?
- कृषकः केन कर्षति?
- केभ्यः रक्षणं प्राप्नुम?
- तस्य उत्तरम् कथं न आसीत्?
- सिंहः कुत्र वसति?
- तव / भवत्याः नाम किम्?
- त्वं किं खादसि?
- அடைப்பில் குறிக்கப் பட்ட உரிய விபக்தி வடிவங்களால் காலி இடங்களை நிரப்புக. रिक्त-स्थानानि सूचनाम् अनुसृत्य उचितैः विभक्ति-रूपैः पूरयत।
उदाहरणम्
प्रकोष्टे ________ आनयन्तु। (आसन्दः द्वितीया बहुवचनम्)
आसन्दः – अकारान्तः पुल्लिङ्गशब्दः.
प्रकोष्टे आसन्दान् आनयन्तु।
- छात्राः _______ सह प्रयोगशालां गच्छन्ति। (अध्यापकः बहुवचनम् सह योगे का विभक्तिः ?)
- मम पुत्री __________ पठति। (विश्वविद्यालयम् सप्तमी एकवचनम्)
- कर्णः _________ कवचं कुण्डलं च यच्छति। (इन्द्रः चतुर्थी एकवचनम्)
- रामः ________ पिता। (लवकुचौ षष्ठी)
- ______ पात्रं अपतत्। (हस्तः पञ्चमी एकवचनम्)
- _______ कुतः आगतवन्तः ? (भवान् ‘आगतवन्तः’ इति पदं दृष्ट्वा वचनम् ऊहयत – Guess the Vachanam looking at ‘आगतवन्तः’.)
- _______ परितः उद्यानम् अस्ति। (गृहम् एकवचनम् – परितः योगे का विभक्तिः?)
- माता ______ पायसं ददाति। (पुत्रः द्विवचनम् दाने का विभक्तिः?)
- _______ मध्ये कोलाहलम् अभवत्। (नारी -Woman षष्ठी बहुवचनम् कोलाहलम् – Commotion.)
- ______ ________ रामः ज्येष्ठः। (द्वे भ्रातारौ(ऋकारान्तः पुल्लिङ्गशब्दः) सप्तमी द्विवचनम्)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- छात्राः अध्यापकैः सह प्रयोगशालां गच्छन्ति।
- मम पुत्री विश्वविद्यालये पठति।
- कर्णः इन्द्राय कवचं कुण्डलं च यच्छति।
- रामः लवकुचयोः पिता।
- हस्तात् पात्रं अपतत्।
- भवन्तः कुतः आगतवन्तः ?
- गृहं परितः उद्यानम् अस्ति।
- माता पुत्राभ्यां पायसं ददाति।
- नारीनां मध्ये कोलाहलम् अभवत्।
- द्वयोः भ्रात्रोः रामः ज्येष्ठः।
- காலி இடங்களை உரிய ஸர்வநாம ஶப்தங்களால் நிரப்புக. उचितैः सर्वनाम-शब्दैः रिक्त-स्थानानि पूरयन्तु।
उदाहरणम्
______ विमानानि। (समीपे)
विमानानि – नपुंसकलिङ्गम् बहुवचनम्
एतानि विमानानि
तानि विमानानि (दूरे)
- _____ नर्तक्यौ (दूरे)
- _____ गुरू (समीपे)
- _____ मातरः (समीपे)
- _____ वाक्ये (दूरे)
- _____ महिले (दूरे)
- _____ शिशवः (दूरे)
- _____ पात्राणि (समीपे)
- _____ बालिका (दूरे)
- _____ वृक्षौ (समीपे)
- _____ गिरिः (समीपे)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- ते नर्तक्यौ
- एतौ गुरू
- एताः मातरः
- ते वाक्ये
- ते महिले
- ते शिशवः
- एतानि पात्राणि
- सा बालिका
- एतौ वृक्षौ
- एषः गिरिः
- கொடுக்கப்பட்ட ஶப்தங்களின் सप्त-विभक्ति-रूपाणि எழுதுக. एतेषाम् शब्दानां सप्त-विभक्ति-रूपाणि लिखत।
- नारी – इकारान्तः स्त्रीलिङ्गशब्दः (नदी शब्दवत्)
- शम्भु – उकारान्तः पुल्लिङ्गशब्दः (गुरु शब्दवत्)
- पत्र – अकारान्तः नपुंसकलिङ्गशब्दः (फल शब्दवत्)
- आसन्दः – अकारान्तः पुल्लिङ्गशब्दः (राम शब्दवत्)
- लता – आकारान्तः स्त्रीलिङ्गशब्दः (रमा सब्दवत्)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
इकारान्तः स्त्रीलिङ्गः 'नारी' शब्दः | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | नारी | नार्यौ | नार्यः |
द्वितीया | नारीम् | नार्यौ | नारीः |
तृतीया | नार्या | नारीभ्याम् | नारीभिः |
चतुर्थी | नार्यै | नारीभ्याम् | नारीभ्यः |
पञ्चमी | नार्याः | नारीभ्याम् | नारीभ्यः |
षष्ठी | नार्याः | नार्योः | नारीणाम् |
सप्तमी | नार्याम् | नार्योः | नारीषु |
सं.प्रथमा | हे नारि | हे नार्यौ | हे नार्यः |
उकारान्तः पुल्लिङ्गः 'शम्भु' शब्दः | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | शम्भुः | शम्भू | शम्भवः |
द्वितीया | शम्भुम् | शम्भू | शम्भून् |
तृतीया | शम्भुना | शम्भुभ्याम् | शम्भुभिः |
चतुर्थी | शम्भवे | शम्भुभ्याम् | शम्भुभ्यः |
पञ्चमी | शम्भोः | शम्भुभ्याम् | शम्भुभ्यः |
षष्ठी | शम्भोः | शम्भ्वोः | शम्भूनाम् |
सप्तमी | शम्भौ | शम्भ्वोः | शम्भुषु |
सं.प्रथमा | हे शम्भो | हे शम्भू | हे शम्भवः |
अकारान्तः नपुंसकलिङ्गः 'पत्र' शब्दः | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | पत्रम् | पत्रे | पत्राणि |
द्वितीया | पत्रम् | पत्रे | पत्राणि |
तृतीया | पत्रेण | पत्राभ्याम् | पत्रैः |
चतुर्थी | पत्राय | पत्राभ्याम् | पत्रेभ्यः |
पञ्चमी | पत्रात् | पत्राभ्याम् | पत्रेभ्यः |
षष्ठी | पत्रस्य | पत्रयोः | पत्राणाम् |
सप्तमी | पत्रे | पत्रयोः | पत्रेषु |
सं.प्रथमा | हे पत्र | हे पत्रे | हे पत्राणि |
अकारान्तः पुल्लिङ्गः 'आसन्द' शब्दः | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | आसन्दः | असन्दौ | आसन्दाः |
द्वितीया | आसन्दम् | आसन्दौ | आसन्दान् |
तृतीया | आसन्देन | आसन्दाभ्याम् | आसन्दैः |
चतुर्थी | आसन्दाय | आसन्दाभ्याम् | आसन्देभ्यः |
पञ्चमी | आसन्दात् | आसन्दाभ्याम् | आसन्देभ्यः |
षष्ठी | आसन्दस्य | आसन्दयोः | आसन्दानाम् |
सप्तमी | आसन्दे | आसन्दयोः | आसन्देषु |
सं.प्रथमा | हे आसन्द | हे आसन्दौ | हे आसन्दाः |
आकारान्तः स्त्रीलिङ्गः 'लता' शब्दः | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | लता | लते | लताः |
द्वितीया | लताम् | लते | लताः |
तृतीया | लतया | लताभ्याम् | लताभिः |
चतुर्थी | लतायै | लताभ्याम् | लताभ्यः |
पञ्चमी | लतायाः | लताभ्याम् | लताभ्यः |
षष्ठी | लतायाः | लतयोः | लतानाम् |
सप्तमी | लतायाम् | लतयोः | लतासु |
सं.प्रथमा | हे लते | हे लते | हे लताः |
- முதல் வாக்கியத்தின் क्रियापदम् ஐ இரண்டாவது வாக்கியத்தில் Subject (कर्ता) அனுஸரித்து எழுதவும் प्रथम-वाक्यस्य क्रियापदम् द्वितीय-वाक्यस्य कर्तुः अनुगुणं परिवर्त्तय लिखन्तु।
उदाहरणम्
सुरेशः पाठं लिखति। यूयम् अपि पाठं ______.
सुरेशः पाठं लिखति। यूयम् अपि पाठं लिखथ।
- ललिता रोटिकां खादति। अहं तु अन्नम् _______.
- रामः वनम् अगच्छत्। पाण्डवाः वनवासार्थम् अरण्यम् _______.
- वयम मुम्बै-नगरे वसामः। त्वम् कुत्र _______?
- श्वः राधा आङ्ग्ल-पाठं पठिष्यति। अहं संस्कृतं _______.
- विमला शाटिकाम् प्राप्नोति। भवन्तः सर्वे युतकं _______.
- त्वम् संस्कृतं वक्तुं शक्नोषि। आवां न _______.
- बालकाः क्रीडन्ति। वयम् ह्यः ______.
- काकः डयते। काकाः _______. (आत्मनेपदरूपम्)
- उद्याने भ्रमणं देव्यै रोचते। मह्यं अपि _____.
- पिता नद्यां स्नानं करोति। तेन सह तस्य पुत्राः अपि स्नानं ______.
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- ललिता रोटिकां खादति। अहं तु अन्नम् खादामि।
- रामः वनम् अगच्छत्। पाण्डवाः वनवासार्थम् अरण्यम् अगच्छन्।
- वयम मुम्बै-नगरे वसामः। त्वम् कुत्र वससि?
- श्वः राधा आङ्ग्ल-पाठं पठिष्यति। अहं संस्कृतं पठिष्यामि।
- विमला शाटिकाम् प्राप्नोति। भवन्तः सर्वे युतकं प्राप्नुवन्ति।
- त्वम् संस्कृतं वक्तुं शक्नोषि। आवां न शक्नुवः।
- बालकाः क्रीडन्ति। वयम् ह्यः अक्रीडाम।
- काकः डयते। काकाः डयन्ते.
- उद्याने भ्रमणं देव्यै रोचते। मह्यं अपि रोचते।
- पिता नद्यां स्नानं करोति। तेन सह तस्य पुत्राः अपि स्नानं कुर्वन्ति।
- குறிப்பிட்ட படி क्रियापदम् மாற்றவும் क्रियापदं यथा उक्तम् परिवृत्य लिखत।
उदाहरणम्
धावति – लङ्-लकारः मद्यमपुरुषः द्विवचनम्
अधावतम्
- क्रीणामि – लोट्-लकारः प्रथमपुरुषः एकवचनम्
- गच्छति – ऌट्-लकारः उत्तमपुरुषः बहुवचनम्
- करोति – लङ्-लकारः उत्तमपुरुषः एकवचनम्
- लिखति - लोट्-लकारः मध्यमपुरुषः बहुवचनम्
- जानाति – लट्-लकारः उत्तमपुरुषः एकवचनम्
- प्रविशति – लङ्-लकारः प्रथमपुरुषः एकवचनम्
- भ्रमति - ऌट्-लकारः प्रथमपुरुषः द्विवचनम्
- हसति – लट्-लकारः मध्यमपुरुषः द्विवचनम्
- नमामि – लोट्-लकारः उत्तमपुरुशः द्विवचनम्
- पिवति – लङ्-लकारः मद्यमपुरुषः एकवचनम्
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- क्रीणातु
- गमिष्यामि
- अकरवम्
- लिखत
- जानामि
- प्राविशत्
- भ्रमिष्यतः
- हसथः
- नमाव
- अपिबः
- குறிப்பிட்ட லகாரத்தில் தாதுவின் அனைத்து क्रियापदानि எழுதவும். दत्तस्य धातोः सर्वानि क्रियारूरूपाणि लकारानुगुणं लिखत
- ज्ञा धातुः – लट् (परस्मैपदी)
- कृ धातुः – लङ् (परस्मैपदी)
- श्रृ धातुः – लोट्
- दा धातुः – ऌट् (परस्मैपदी)
- लिख् धातुः – ऌट्
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
लटि 'ज्ञा' धातोः परस्मैपदरूपाणि | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | जानाति | जानीतः | जानन्ति |
मध्यमपुरुषः | जानासि | जानीथः | जानीथ |
उत्तमपुरुषः | जानामि | जानीवः | जानीमः |
लङि 'कृ' धातोः परस्मैपदरूपाणि | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | अकरोत् | अकुरुताम् | अकुर्वन् |
मध्यमपुरुषः | अकरोः | अकुरुतम् | अकुरुत |
उत्तमपुरुषः | अकरवम् | अकुर्व | अकुर्म |
लोटि 'श्रृ' धातोः रूपाणि | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | शृणोतु , शृणुतात् | शृणुताम् | शृण्वन्तु |
मध्यमपुरुषः | शृणु , शृणुतात् | शृणुतम् | शृणुत |
उत्तमपुरुषः | शृणवानि | शृणवाव | शृणवाम |
ऌटि 'दा' धातोः परस्मैपदरूपाणि | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | दास्यति | दास्यतः | दास्यन्ति |
मध्यमपुरुषः | दास्यसि | दास्यथः | दास्यथ |
उत्तमपुरुषः | दास्यामि | दास्यावः | दास्यामः |
ऌटि 'लिख्' धातोः रूपाणि | | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | लेखिष्यति | लेखिष्यतः | लेखिष्यन्ति |
मध्यमपुरुषः | लेखिष्यसि | लेखिष्यथः | लेखिष्यथ |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
- குறிப்பிட்ட படி பூத கால வடிவங்களை மாற்றுக. भूतकाल-रूपाणि यथोक्तम् परिवर्तयतु।
उदाहरणम्
पाण्डवाः वनं गतवन्तः। (लङ्-क्रियापदम्)
पाण्डवाः वनं अगच्छन्।
रमा पाठम् अलिखत्। (क्तवतु-अन्तः)
रमा पाठं लिखितवती।
- मातरः अध्यापिकाम् अपृच्छन्। (क्तवतु-अन्तः)
- यूयं गीतं गायवन्तः। (गै – गाय धातोः लङ्-क्रियापदम्)
- जनाः कोपेन कोलाहलं कृतवन्तः। (कृ धातोः लङ्-क्रियापदम्)
- अहं त्वाम् अपश्यम्। (क्तवतु-अन्तः पुल्लिङ्गः)
- राधा पित्रे पत्रम् अप्रेषयत्। (क्तवतु-अन्तः)
- भोजनात् अनन्तरम् सर्वे पात्राणि प्रक्षालितवन्तः। (प्र + क्षालय लङ्-क्रियापदम्)
- गुरुः आसने उपविष्टवान्। (उप + विश् लङ्-क्रियापदम्)
- वयं दुग्धं पीतवन्तः। (पा – पिब् लङ्-क्रियापदम्)
- फलानि वृक्षात् अपतन्। (क्तवतु-अन्तः नपुंसके बहुवचने)
- जननी शिशुं नीतवति। (नी – नय् धातोः लङ्-क्रियापदम्)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- मातरः अध्यापिकाम् पृष्टवत्यः।
- यूयं गीतं अगायत।
- जनाः कोपेन कोलाहलं अकुर्वन्।
- अहं त्वाम् दृष्टवान्।
- राधा पित्रे पत्रम् प्रेषितवती।
- भोजनात् अनन्तरम् सर्वे पात्राणि प्राक्षालयन्।
- गुरुः आसने उपाविशत्।
- वयं दुग्धं अपिबाम।
- फलानि वृक्षात् पतितवन्ति।
- जननी शिशुं अनयत्।
- அடைப்பில் கொடுக்கப் பட்டுள்ள தாதுக்களின் क्तवा/लयप् அல்லது तुमुन् வடிவங்களால் காலி இடத்தை நிரப்பவும். आवरणे दत्तानां धातूनां उचितानां प्रत्ययान्त-रूपाणि (क्तवा, लयप् वा तुमुन्) रिक्तस्थानेषु पूरयन्त।
- कृषकः भूमिं ________ (खन् to dig) सस्यं रोपयति।
- पाण्डवाः कौरवाः च युद्धं ______ (कृ) कुरुक्षेत्रं गतवन्तः।
- धृतराष्ट्रः सञ्जयम् _______ (पृच्छ्) युद्धवार्तां अजानात्।
- फलानि _______ (प्र + क्षाल्) खादतु।
- बालकाः ______ (खेल्) इच्छन्ति।
- अहम् आपणं _____ (गम् – गच्छ्) तण्डुलम् आनयामि।
- भवन्तः संस्कृतं _______ (पठ्) शक्यन्ते वा?
- अत्र ________ (उप + विश्) खाद।
- अहं मम मित्रं _____ (मिल्) समुद्र-तटं गच्छामि।
- पिता पुत्रं विद्यालयं ______ (प्र + आप्) कार्यालयं गच्छति।
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- कृषकः भूमिं खनित्वा सस्यं रोपयति।
- पाण्डवाः कौरवाः च युद्धं कर्तुं कुरुक्षेत्रं गतवन्तः।
- धृतराष्ट्रः सञ्जयम् पृष्ट्वा युद्धवार्तां अजानात्।
- फलानि प्रक्षाल्य खादतु।
- बालकाः खेलितुं इच्छन्ति।
- अहम् आपणं गत्वा तण्डुलम् आनयामि।
- भवन्तः संस्कृतं पठितुं शक्यन्ते वा?
- अत्र उपविश्य खाद।
- अहं मम मित्रं मेलितुं समुद्र-तटं गच्छामि।
- पिता पुत्रं विद्यालयं प्राप्य कार्यालयं गच्छति।
- பெட்டியிலிருந்து உரிய அவ்யய பதங்களால் வாக்கியங்களை முழுமையாக்கவும். कोष्टकात् अव्यय-पदं चित्वा वाक्यानि पूरयतु।
अतः इति पुनः पुनः मन्दम् अत्र एव यत्, कुत्र सायम् सम्यक् प्रातः अपि अद्य यतः सर्वत्र च |
- वृद्धा ______ गच्छति।
- भ्राता चलनचित्रं द्रष्टुं गच्छति। अहम् ______ तेन सह गन्तुं इच्छामि।
- अहं रोटिकाम् _______ खादामि। ______ ओदनं न पचामि। (ओदनम् – Cooked rice)
- “स्नानं कृत्वा अल्पाहारं खाद!” ______ माता उक्तवती। (अल्पाहारम् – Refreshments/Breakfast)
- _____ अहं कार्यालयं न आगच्छामि। ______ मम शिरो वेदना ज्वरः च स्तः।
- विश्वेशः इदानीं पर्यन्तम् ______ न आगतवान्। सः ______ गतवान्?
- भगवान् ______ अस्ति।
- अध्यापकः अवदत् _______ परीक्षाः आगमी सप्ताहे भविष्यन्ति।
- सूर्यः ____ उदेति, ______ अस्तं गच्छति ____.
- ______ अवगमनार्थं पाठं ____ ____ पठतु।
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- वृद्धा मन्दं गच्छति।
- भ्राता चलनचित्रं द्रष्टुं गच्छति। अहम् अपि तेन सह गन्तुं इच्छामि।
- अहं रोटिकाम् एव खादामि। अतः ओदनं न पचामि।
- “स्नानं कृत्वा अल्पाहारं खाद!” इति माता उक्तवती।
- अद्य अहं कार्यालयं न आगच्छामि। यतः मम शिरो वेदना ज्वरः च स्तः।
- विश्वेशः इदानीं पर्यन्तम् अत्र न आगतवान्। सः कुत्र गतवान्?
- भगवान् सर्वत्र अस्ति।
- अध्यापकः अवदत् यत् परीक्षाः आगमी सप्ताहे भविष्यन्ति।
- सूर्यः प्रातः उदेति, सायम् अस्तं गच्छति च.
- सम्यक् अवगमनार्थं पाठं पुनः पुनः पठतु।
- அடைப்பில் கொடுக்கப்பட்டுள்ள எண்களுக்குரிய சொற்களைக் கொண்டு காலி இடங்களை நிரப்பவும். आवरणे दत्तानां सङ्ख्यानाम् उचितानि रूपाणि रिक्त-स्थानेषु लिखत।
- आपणात् _____ नारीकेलम् _______ कदलीफलानि च क्रीणातु। (1 , 4)
- कार्यालये ______ स्त्रियः ______ पुरुषाः च सन्ति। (6,8)
- मम ______ पुत्रः वैद्यः। (2)
- एते __ नद्यौ। (2)
- अहं _____ पेटिकाः आनीतवती (3)
- एतस्याः शाटिकायाः मूल्यं _____ ______ रूप्यकानि सन्ति। (500)
- विद्या धावन-मत्सरे ___ आगता। (1)
- परिक्षायम् मम _____ स्थानम् एव प्राप्तम। (10)
- पार्वत्याः ___ पुत्राः। _____ राजेशः, _____ सुरेशः, _____ राकेशः च। (3,1,2,3)
- नवरात्र-पर्वे _____ दिनानि यावत् उत्सवः प्रचलति। (10) (पर्वम – Festival)
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- आपणात् एकं नारीकेलम् चत्वारि कदलीफलानि च क्रीणातु।
- कार्यालये षड् स्त्रियः अष्ट पुरुषाः च सन्ति।
- मम द्वितीयः पुत्रः वैद्यः।
- एते द्वे नद्यौ।
- अहं तिस्रः पेटिकाः आनीतवती
- एतस्याः शाटिकायाः मूल्यं पञ्च शतं रूप्यकानि सन्ति।
- विद्या धावन-मत्सरे प्रथमा आगता।
- परिक्षायम् मम दशमं स्थानम् एव प्राप्तम।
- पार्वत्याः त्रयः पुत्राः। प्रथमः राजेशः, द्वितीयः सुरेशः, तृतीयः राकेशः च।
- नवरात्र-पर्वे दश दिनानि यावत् उत्सवः प्रचलति।
- ஸம்ஸ்க்ருதத்தில் மொழி பெயர்க்கவும்! संस्कृते अनुवादं करोतु।
- எங்கள் கிராமம் நகரத்திற்கு அருகே உள்ளது. (அருகே – समीपे)
- அவர்களுடைய பள்ளி கால் பந்து போட்டியில் முதலாவதாக வந்தது. (கால் பந்து போட்டி– कन्दुक-प्रतियोगिता)
- பாலகன் உயர்ந்த கட்டிடத்திலிருந்து விழுந்தான். (உயர்ந்த – उन्नत கட்டிடம் - भवनम् )
- நோயாளிக்கு மருந்தை கொடுங்கள். (மருந்து – औषदम् நோயாளி - रुग्णः)
- மகன் இல்லாமல் தாய் சோகத்துடன் காலம் கடத்துகிறாள். (கடத்துகிறாள் – यापय)
- கிராமத்தை சுற்றி காடுகள் உள்ளன. (சுற்றி– परितः)
- நீ எதற்காக சிரிக்கிறாய்?
- முனிவர்கள் நாளை இங்கு வருகிறார்கள்.
- நேற்று நான் என் தாய் மாமனின் வீட்டிற்கு சென்றேன். (தாய் மாமன் – मातुलः)
- தாங்கள் அங்கு செல்ல வேண்டாம். (भवान्)
- எனக்கு தேநீர்தான் பிடிக்கும். காபி வேண்டாம். (தேநீர் – चायम्)
- ஞானம் இல்லாமல் ஆனந்தம் வராது.
- வகுப்பில் 48 மாணவர்கள் இருக்கிறார்கள். (வகுப்பு - वर्गः)
- என் நண்பனின் கார் நன்றாக ஓடுகிறது. (ஓடுதல் – चल्)
- பாண்டவர்களில் அர்ஜுனன் சிறந்தவன்.
उत्तराणि पश्यतु! - Show Answers उत्तराणि गूहयतु! - Hide Answers!
- अस्माकं ग्रामं नगरस्य समीपे अस्ति।
- तेषां विद्यालयः कन्दुक-प्रतियोगितायां प्रथमः अगच्छत्।
- बालकः उन्नतात् भवनात् अपतत्।
- रुग्णाय औषदं ददातु।
- पुत्रं विना माता दुःखेन कालं यापयति।
- ग्रामं परितः वनानि सन्ति।
- किमर्थं हससि?
- मुनयः श्वः अत्र आगमिष्यन्ति।
- ह्यः अहं मम मातुलस्य गृहं गतवान् / अगच्छम्।
- भवान् तत्र मा गच्छतु।
- मह्यं चायम् एव रोचते। काफी मा अस्तु।
- ज्ञानं / ज्ञानेन विना आनन्दं न भविष्यति।
- वर्गे अष्ट-चत्वारिंशत् छात्राः सन्ति।
- मम मित्रस्य कारयानम् संयक् चलति।
- पाण्डवेषु अर्जुनः श्रेष्ठः।
இரண்டாம் படிவு பாடங்களுக்குரிய பல தர பட்ட பயிற்சி கேள்விகளுடன் இப்பாடத்தை பூர்த்தி செய்கிறோம். இப்பயிற்சி கேள்விகள் உபயோகமாக இருக்கும் என நம்புகிறோம்.
இப்பாடத்தைப் பற்றிய உங்கள் அனுபவங்களையும் பரிந்துரைகளையும் எங்களுடன் பகிர்ந்துக் கொள்ளுங்கள். இலவசமாகப் பதிவுச் செய்து உங்கள் கருத்துக்களை Post செய்யவும். சந்தேகங்கள் தெளிவு பெற samskrit@samskritaveethy.com க்கு எழுதுங்கள்.
வாக்கியங்களை அமைக்க தேவையான நாம க்ர்யா பதங்களைப் பற்றி படிவு இரண்டில் கற்றோம். அடுத்த படிவில் வாக்கிய அமைப்புகளைப் பற்றியும் வேறு சில ப்ரத்யயங்களையும் கவனிக்க இருக்கிறோம். அடுத்த படிவிற்கு நகருவோமாக......
படிவு 3 ஸம்ஸ்க்ருத வாக்கிய அமைப்புகள் - संस्कृत-वाक्यरचना
| 0 comments |
×