Sanskrit header-logo

SamskritaVeethy - Easy to Learn Sanskrit Courses!

संस्कृतवीथी - सरलं संस्कृतपठनम् !

Entry Level – Module 2 Samskrit Noun and Verb forms - Lesson 20 - Fourth Case Noun Forms in Samskritam

प्रावेशिकः स्तरः - द्वितीयः विभागः – संस्कृत-नामपदानि क्रियापदानि च - विंशतिः पाठः - चतुर्थी विभक्तिः

We learn about........

We have so far learned in this module...


The goal of this lesson is to learn …..
  • Fourth Case Noun Forms in Sanskrit to indicate an indirect object. - चतुर्थी विभक्तिः दानार्थे चतुर्थी

Samskrita Sambashanam – सम्भाषणम् संस्कृतम्

Click the heading to view the video. We learn how a time interval or an area sprawled over or distance covered is shown using a combination of तः......पर्यन्तम् in the Sambashana Video. You can refer back to the lesson we learned in the previous module to revise the time readings. We learn to use one more Avyaya Form आरभ्य which refers to the Start of something. We also watch the use of ‘कृते’ and the ‘यथा......तथा’ clause is also introduced.

Conversation Practice - सम्भाषणाभ्यासः
तः……….पर्यन्तम्
भवान् कदा निद्रां करोति?
When do you sleep?
अहं दशवादनतः षड्वादन-पर्यन्तं निद्रं करोमि।
I sleep from 10 till 5.
भवान् कदा अध्ययनं करोति?
When do you study?
अहं षड्वादनतः नववादन-पर्यन्तम् अध्ययनम् करोमि?
I study from 6 till 9.
भवती कदा क्रीडति?
When do you (Female) play?
अहं सार्धपञ्चवादनतः सप्तवादन-पर्यन्तं क्रीडामि।
I play from 5:30 till 7:00.
सोमवासरतः शनिवासरपर्यन्तम् विद्यालयः अस्ति।
School works Mondy to Saturday
फब्रवरी-मासतः मेमासपर्यन्तं घर्मकालः (ग्रीष्मकालः) अस्ति।
It is Summer time from February to May.
अहं मङ्गलवासरतः शुक्रवासरपर्यन्तं व्रतं करोमि।
I fast from Tuesday till Friday.
कर्नाटका-एक्स्प्रस् बङ्गलूरतः देहली-पर्यन्तम् गच्छति।
Karnataka Express runs between Bengaluru and Delhi.
भारतदेशः कन्याकुमरीतः काश्मीरपर्यन्तम् अस्ति।
Bharat Desh is spread from Kanyakumari to Kashmir.
भारतदेशः हिन्दुमहासागरतः हिमालयपर्वत-पर्यन्तम् अस्ति।
Bharat Desh is spread between Indian Ocean and Himalayas.
अध्य आरभ्य / श्वः आरभ्य
अध्य आरभ्य योगासनं करोमि।
I do Yogasanam starting today.
श्वः आरभ्य सम्यक् पठिष्यामि।
I will study well starting tomorrow.
परश्वः आरभ्य ध्यानं करिष्यामि।
I will meditate starting from day after.
श्वः आरभ्य सत्यं वदिष्यामि।
I will speak Truth starting from tomorrow.
मम कृते / भवन्तः कृते / भवत्याः कृते
अहं अर्जुनस्य कृते चमसं ददामि।
I give the spoon to Arjuna
अहं जयन्तस्य कृते कार्यानं ददामि।
I give the Car to Jayantha.
अहं विदिशायाः कृते दूरवाणीं ददामि।
I give the Mobile to Vidhisha.
अहं शार्वर्याः कृते पत्रिकां ददामि।
I give the magazine to Sarvari.
माता पुत्रस्य कृते किं किं ददाति?माता पुत्रस्य कृतेमोदकं ददाति।
वात्सल्यं ददाति।
पुस्तकं ददाति।
क्षीरं ददाति।
औषदं ददाति।
गृरुः शिष्यस्य कृते किं किं ददाति?गृरुः शिष्यस्य कृते विद्यां ददाति।
यथा.......तथा
यथा अहं करोमि सुशान्तः तथा करोति।
Sushantha does what I do.
अहं यथा लिखामि विदिशा तथा लिखति।
Vidhisha writes what I write.
अहं यथा वदामि तथा चित्रा करोति।
Chithra does what I tell.
कालिदासः यथा काव्यं लिखति तथा कोऽपि न लिखति।
No one writes Poerty as Kalidasa writes.

चतुर्थी विभक्तिः – प्रस्तावः – Introduction

Let us look at the sentence with which we ended the last lesson.

Teacher gives the book to the student.

Let us now translate the sentence in Samskritam.

अध्यापकः छात्राय पुस्तकं ददाति।

We know ‘book’ in the above sentence is the direct object represented by Accusative Case and the ‘student’ who receives the book is indirect object represented by Dative Case. We have also learned ‘द्वितीया विभक्तिः’ is the accusative equivalent in संस्कृतम् and पुस्तकम् bears the relationship of ‘कर्म’ to the verb ददाति. The word छात्राय is in चतुर्थी विभक्तिः, the dative equivalent and related to the verb ददाति as संप्रदानम्. Let us read few more example sentences with चतुर्थी विभक्तिः forms.

माता पुत्राय भोजनं ददातिMother gives food to the son.
परमेश्वरः अर्जुनाय पाशुपतास्त्रं अयच्छत्।Parameshwara gave Arjuna pasupthastram (Weapon).
बालकाय मधुरं रोचते।Boy likes sweet.
कृष्णाय नमः।Namskara to Krishna.
माता शिशवे चन्द्रं दर्शयति।Mother shows the moon to baby.

The highlighted words in the above sentences are Fourth Case Noun Forms. (चतुर्थी विभक्तिः). चतुर्थी विभक्तिः is generally used to indicate the sense ‘to someone’ or ‘for someone’ in English. In this lesson we focus our study on the usage of चतुर्थी विभक्तिः in the following common situations.

Let us first learn the चतुर्थी forms of for different Endings in three Genders

चतुर्थीविभक्तिरूपाणि

चतुर्थी विभक्तिः forms for our known अजन्तशब्दाः are highlighted and placed along with other known three विभक्तिः forms in tables. You may click the table headings to view all eight Vibhakthi forms of the Shabdha.

अकारान्तः पुल्लिङ्गः ‘रामः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारामःरामौरामाः
सं.प्रथमाहे रामहे रामौहे रामाः
द्वितीयारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्यः
इकारान्तः पुल्लिङ्गः ‘हरिः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
सं.प्रथमाहे हरेहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
उकारान्तः पुल्लिङ्गः ‘गुरुः’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमागुरुःगुरौगुरवः
सं.प्रथमाहे गुरोहे गुरौहे गुरवः
द्वितीयागुरुम्गुरौगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
ऋकारान्तः पुल्लिङ्गः ‘दातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादातादातारौदातारः
सं.प्रथमाहे दातःहे दातारौहे दातारः
द्वितीयादातारम्दातारौदातॄन्
तृतीयादात्रादातृभ्याम्दातृभिः
चतुर्थीदात्रेदातृभ्याम्दातृभ्यः

ऋकारान्तः पुल्लिङ्गः ‘पितृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः
सं.प्रथमाहे पितःहे पितरौहे पितरः
द्वितीयापितरम्पितरौपितॄन्
तृतीयापित्रापितृभ्याम्पितृभिः
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः

अकारान्तः स्त्रीलिङ्गः ‘रमा’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमारमारमेरमाः
सं.प्रथमाहे रमेहे रमेहे रमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभिः
चतुर्थीरमायैरमाभ्याम्रमाभ्यः

इकारान्तः स्त्रीलिङ्गः ‘मति’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
सं.प्रथमाहे मतेहे मतीहे मतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमत्यै-मतयेमतिभ्याम्मतिभ्यः

ईकारान्तः स्त्रीलिङ्गः ‘नदी’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
सं.प्रथमाहे नदिहे नद्यौहे नद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः

उकारान्तः स्त्रीलिङ्गः ‘धेनु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनुःधेनूधेनवः
सं.प्रथमाहे धेनोहे धेनूहे धेनवः
द्वितीयाधेनुम्धेनूधेनूः
तृतीयाधेन्वाधेनुभ्याम्धेनुभिः
चतुर्थीधेन्वै - धेनवेधेनुभ्याम्धेनुभ्यः

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामातामातरौमातरः
सं.प्रथमाहे मातःहे मातरौहे मातरः
द्वितीयामातरम्मातरौमातॄन्
तृतीयामात्रामातृभ्याम्मातृभिः
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः

अकारान्तः नपुंसकलिङ्गः ‘फल’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाफलम्फलेफलानि
सं.प्रथमाहे फलहे फलेहे फलानि
द्वितीयाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
  • All अकारान्ताः नपुंसकलिङ्गाः शब्दाः follow the same pattern as Masculine forms of अकारान्ताः पुल्लिङ्गाः शब्दाः (‘राम’ शब्दः) from third case onward.
इकारान्तः नपुंसकलिङ्गः ‘वारि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारिवारिणीवारीणि
सं.प्रथमाहे वारे – हे वारिहे वारिणीहे वारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः

इकारान्तः नपुंसकलिङ्गः ‘दधि’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमादधिदधिनीदधीनि
सं.प्रथमाहे दधे – हे दधिहे दधिनीहे दधीनि
द्वितीयादधिदधिनीदधीनि
तृतीयादध्नादधिभ्याम्दधिभिः
चतुर्थीदध्नेदधिभ्याम्दधिभ्यः
  • Note how the तृतीय and चतुर्थी forms of ‘वारि’ and ‘दधि’ differ.
उकारान्तः नपुंसकलिङ्गः ‘मधु’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमामधुमधुनीमधूनि
सं.प्रथमाहे मधो – हे मधुहे मधुनीहे मधूनि
द्वितीयामधुमधुनीमधूनि
तृतीयामधुनामधुभ्याम्मधुभिः
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः

सर्वनाम-शब्दानां चतुर्थीविभक्तिरूपाणि – Fourth case forms of the pronouns

Let us also learn the चतुर्थी विभक्तिः forms of सर्वनामशब्दाः

दकारान्तः पुल्लिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषःएतौएते
द्वितीयाएतम् - एनम्एतौएतान् - एनान्
तृतीयाएतेन - एनेनएताभ्याम्एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
दकारान्तः स्त्रीलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम् - एनाम्एतेएताः - एनाः
तृतीयाएतया - एनयाएताभ्याम्एताभिः
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
दकारान्तः नपुंसकलिङ्गः ‘एतद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाएतत्त्एतेएतानि
द्वितीयाएतत् - एनत्एतेएतानि - एनानि
तृतीयाएतेन - एनेनएताभ्याम्>एतैः
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
दकारान्तः पुल्लिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासः तौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः

दकारान्तः स्त्रीलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः

दकारान्तः नपुंसकलिङ्गः ‘तद्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः

मकारान्तः पुल्लिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौके
द्वितीयाकम्कौकान्
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः

मकारान्तः स्त्रीलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकाकेकाः
द्वितीयाकाम्केकाः
तृतीयाकयाकाभ्याम्काभिः
चतुर्थीकस्यैकाभ्याम्काभ्यः

मकारान्तः नपुंसकलिङ्गः ‘किम्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः

दकारान्तः पुल्लिङ्गः ‘भवत्’ शब्दः
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवद्भिः
चतुर्थीभवतेभवद्भ्याम्भवद्भ्यः

दकारान्तः ‘अस्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम् - माआवाम् - नौअस्मान् - नः
तृतीयामयाआवाभ्याम्>अस्माभिः
चतुर्थीमह्यम् - मेआवाभ्याम् - नौअस्मभ्यम् - नः

दकारान्तः ‘युष्मद्’ शब्दः त्रिषु लिङ्गेषु
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् - त्वायुवाम् - वाम्युष्मान् - वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम् - तेयुवाभ्याम् - वाम्युष्मभ्यम् - नः

दानार्थे चतुर्थी

We have seen earlier that चतुर्थी विभक्तिः is used to indicate the recipient (indirect object) in a sentence expressing the act of giving. Samskritam equivalent of ‘to give’ is ‘दा’ धातुः. We have earlier learned that ‘दा’ धातुः in Fourth Dhatu Group (दिवादिः गणः) assumes irregular verb forms. When the verb form is formed with ‘दा’ धातुः. चतुर्थी विभक्तिः is used to indicate the recipient. ‘दा’ धातुः is also found in the First Dhatu Group (भ्वादिः गणः) and we have used its present tense forms ‘यच्छति’ etc earlier. You may view the verb forms in all Lakharas by clicking the links given.

‘दा’ धातुः (भ्वादिः गणः)

‘दा’ धातुः (दिवादिः गणः/आत्मनेपदी)

‘दा’ धातुः (दिवादिः गणः/परस्मैपदी)

चतुर्थी विभक्तिः expresses the indirect object or the sense indicated by propositions ‘to’ or ‘for’ in English. Questions asked with कस्मै, कस्यै or with corresponding forms in other Vachanas or with किमर्थम् is answered by using चतुर्थी-विभक्ति-शब्दाः.



Following examples explain the use of ‘दा’ धातुः forms combining with चतुर्थीविभक्ति-रूपाणि.

जननी बालकाय दुग्धं यच्छति।
Mother gives milk to the boy.
जननी कस्मै दुग्धं यच्छति।
जननी बालकाय दुग्धं यच्छति।
बालकाय –अकारान्तः पुल्लिङ्गः बालक शब्दः एकवचनं - चतुर्थी विभक्तिः
कृष्णः मित्राय उपायनं ददाति।
Krishna gives gift to (his) friend.
कृष्णः कस्मै उपायनं ददाति।
कृष्णः मित्राय उपायनं ददाति।
मित्राय - अकारान्तः नपुंसकलिङ्गः मित्र शब्दः एकवचनं - चतुर्थी विभक्तिः
धनिकः दरिद्रेभ्यः धनं अददात्।
Rich man gives money to poor.
धनिकः केभ्यः धनं अददात्।
धनिकः दरिद्रेभ्यः धनं अददात्।
दरिद्रेभ्यः अकारान्तः पुल्लिङ्गः दरिद्र शब्दः बहुवचनं - चतुर्थी विभक्तिः
शिष्याः गुरवे दक्षिणां ददति।
Sishyas give Dhakshina to Guru.
शिष्याः कस्मै दक्षिणां ददति।
शिष्याः गुरवे दक्षिणां ददति।
गुरवे - उकारान्तः पुल्लिङ्गः गुरु शब्दः एकवचनं - चतुर्थी चतुर्थी विभक्तिः
वैद्यः नन्दिन्यै औषधम् यच्छति।
Doctor gives medicine to Nandini.
वैद्यः कस्यै औषधम् यच्छति।
वैद्यः नन्दिन्यै औषधम् यच्छति।
नन्दिन्यै - इकारान्तः स्त्रीलिङ्गः नन्दिनी शब्दः एकवचनं चतुर्थी विभक्तिः
  • Please note the direct objects (कर्म) in the above sentences assume द्वितीया विभक्तिः forms.
  • Appropriate चतुर्थी forms are used in accordance with Linga and Number.
  • Verb forms using ‘दा’ धातुः are used with the intended लकारः (Tense or Mood).

We came across sentences in Sambashana Video using कृते and षष्टी विभक्तिः. like

अहम् अर्जुनस्य कृते चमसं ददामि।

The sentence can be equivalently written using चतुर्थी विभक् as,

अहम् अर्जुनाय चमसं ददामि।

And questions can be asked using कस्मै, कस्यै etc instead of the likes of कस्य कृते.

तादार्थ्ये चतुर्थी

चतुर्थी विभक्तिः is used to indicate the person/s benefitted by the action. We have listed a number of examples with different verb forms to explain this.

पिता पुत्रेभ्यः चाकलेहानि आनयति।
Father brings Chocaltes for (his) sons.
पिता केभ्यः चाकलेहानि आनयति?
पिता पुत्रेभ्यः चाकलेहानि आनयति।
पतिः पत्न्यै शाटिकां क्रीणाति।
Husband buys Saree for wife.
पतिः कस्यै शाटिकां क्रीणाति?
पतिः पत्न्यै शाटिकां क्रीणाति।
शेखरः मित्राय चित्रं दर्शयति।
Sekhar shows the picture to (his) friend.
शेखरः क्स्य चित्रं दर्शयति?
शेखरः मित्राय चित्रं दर्शयति।
सचिवः कार्यालयाय सङ्गणकं अक्रिणात्।
Secretary bought computer for Office.
सचिवः कस्मै सङ्गणकं अक्रिणात्?
सचिवः कार्यालयाय सङ्गणकं अक्रिणात्।
छात्रः परीक्षाय लेखनीं नयति।
Student takes the pen for Exam.
छात्रः कस्मै लेखनीं नयति?
छात्रः परीक्षाय लेखनीं नयति।

क्रियार्थायां क्रियायां चतुर्थी

We come across the answers to the question ‘किमर्थम्?’ in the Sambashana video suggested for Lesson 14 of this module. For example,

अनिता किमर्थं विद्यालयं गच्छति?

अनिता पठनार्थं विद्यालयं गच्छति।

The question can also be answered using चतुर्थी विभक्तिः as well.

अनिता पठनाय विद्यालयं गच्छति।

Please note the above sense can also be expressed using तुमुनन्तः as

अनिता पठितुं विद्यालयं गच्छति।

Let us look at few more examples to understand that क्रियार्था क्रिया can be expressed in different forms.

चतुर्थी विभक्तिःEnding in अर्थम्तुमुनन्तः
जनाः जीवनाय भोजनम् कुर्वन्ति।
People eat for living.
जनाः जीवनार्थं भोजनम् कुर्वन्ति।जनाः जीवितुं भोजनम् कुर्वन्ति।

पर्यटकाः भ्रमणाय आगच्छन्ति।
Tourists come for going around.
पर्यटकाः भ्रमणार्थम् आगच्छन्ति।पर्यटकाः भ्रमण्तुं आगच्छन्ति।
कुम्भकर्णः निद्राय जीवितवान्।
Kumbhakarna lived for sleeping.
कुम्भकर्णः निद्रार्थं जीवितवान्।कुम्भकर्णः निद्रातुं जीवितवान्।
अहम् अर्चनाय मन्दिरं गच्छामि।
I go to temple for doing Archana.
अहम् अर्चनार्थं मन्दिरं गच्छामि।अहम् अर्चितुं मन्दिरं गच्छामि।
पाण्डवाः धर्मयुद्धाय कुरुक्षेत्रे समवेताः।
Pandavas gathered in Kurukshetra for Dharma Yuddha.
पाण्डवाः धर्मयुद्धार्थं कुरुक्षेत्रे समवेताः।पाण्डवाः धर्मयुद्धं कर्तुं कुरुक्षेत्रे समवेताः।`

चतुर्थी + कल्पते / भवति

When a noun is used to indicate a result or purpose, it assumes the चतुर्थी form. The verb followed is generally the variants of ‘भवति’. Verb forms of Atmane padi Dhatu ‘कृप्’, that is the variants of ‘कलपते’ can also be used. Let us look at examples to understand this type of चतुर्थी forms.

प्रियवचनम् अन्येषां सन्तोषाय भवति।Nice words make others happy.
धनं प्रायः मदाय भवति।Wealth generally makes one arrogant.
गीतापठनम् ज्ञानाय भवति।Study of Gita is meant for attaining Wisdom.

रोचतेः योगे चतुर्थी

चतुर्थी विभक्तिः is used to indicate the liking for something. The examples explain the usage clearly. Let us check an English sentence and its Samskritam Equivalent.

Pradeep likes Sweets.

प्रदीपाय मधुरं रोचते।

रोचते meaning likes or enjoys is the प्रथमपुरुष एकवचन form of आत्मनेपदी धातुः ‘रुच्’. In sentences with रोचते, चतुर्थी विभक्तिः indicates the person who likes something and the कार्यं or वस्तुः liked is given in प्रथमा विभक्तिः.

Let us look at more examples with ‘रोचते’.

देवाय भक्तिः रोचते।God likes Bhakthi.
पठनं सीतायै न रोचते।Seetha does not like Studying.
मह्यं कदलीफलं न रोचते।I do not like banana.
तुभ्यं मोदकं रोचते।You like Modhak.
बालकेभ्यः क्रीडनम् रोचते।Boys like playing.
महिलाभ्यः जल्पः रोचते।Women love talking.
भगिन्यै पुष्पाणि रोचन्ते।Sister loves flowers.

‘नमः’ शब्दस्य योगे चतुर्थी.

‘नमः’ is used to express Obeisance offered to God or to greet others. In such situations चतुर्थी विभक्तिः is used for the person greeted or God forms.

कृष्णाय नमः।
Namaskara to Krishna.
कृष्णाय - अकारान्त-पुल्लिङ्ग-कृष्ण-शब्दस्य चतुर्थी एकवचनम्
देव्यै नमः।
Namaskara to Devi.
देव्यै – इकारान्त-पुल्लिङ्ग-देवी-शब्दस्य चतुर्थी एकवचनम्
मात्रे नमः।
Namaskara to Matha.
मात्रे – ऋकारान्त-स्त्रीलिङ्ग-मातृ-शब्दस्य चतुर्थी एकवचनम्
नमः सर्वेभ्यः
Namaskara to all.
सर्वेभ्यः – अकारान्त-पुल्लिङ्ग-सर्व-शब्दस्य चतुर्थी बहुवचनम्
भवते नमः।
Namaskara to you. (भवान्)
भवते – नकारान्त-पुल्लिङ्ग-भवान्-शब्दस्य चतुर्थी एकवचनम्
गुरवे नमः।
Namaskara to Guru.
गुरवे – उकारान्त-पुल्लिङ्ग-गुरु-शब्दस्य चतुर्थी एकवचनम्

क्रुध् – द्रुह् – असूया – ईर्ष्या प्रयोगे चतुर्थी

चतुर्थी विभक्तिः is used with certain Verb Roots (धातवः). We give few examples.

कंसः कृष्णाय क्रुध्यति।Kamsa is angry with Krishna.
रमा सुधायै असूयति।Ramaa is jealous of Sudha.
कौरवाः पाण्डवेभ्यः ईर्ष्यन्ति।Kouravas are jealous of Pandavas.
पिता पुत्राय कुप्यति।Father is angry with Son.
राक्षसाः मुनिभ्यः द्रुह्यन्ति।Rakshasas attack Monks.

We really learned quite a lot in this lesson. You will get yourself more comfortable with चतुर्थी विभक्तिः forms and how they are related to other parts in a sentence as you read more texts in Samskritam. Let us now do some practice based on what we learned about चतुर्थी विभक्तिः in this lesson. अभ्यासं कर्तुं सिद्धाः भवन्तु।

Practice Exercises - अभ्यास-प्रश्नानि

  1. Write Fourth case forms in all three Vachanas for the given Shabdha. दत्त शब्दस्य चतुर्थीविभक्तिरूपाणि त्रिषु अपि वचनेष् लिखन्तु।

    उदाहरणम्

    वृक्षः – अकारान्तः पुल्लिङ्गशब्दः
    वृक्षाय वृक्षाभ्याम् वृक्षेभ्यः

    1. फलम् – अकारान्तः नपुंसकलिङ्गशब्दः
    2. नौका (Boat) – आकारान्तः स्त्रीलिङ्गशब्दः
    3. शक्तिः – इकारान्तः स्त्रीलिङ्गशब्दः
    4. त्वम् – दकारान्तः युष्मद्-शब्दः त्रिषु लिङ्गेषु
    5. भवान् – नकारान्तः पुल्लिङ्गशब्दः
    6. गुरुः – उकारान्तः पुल्लिङ्गशब्दः
    7. मुनिः – इकारान्तः पुल्लिङ्गशब्दः
    8. भ्राता – ऋकारान्तः पुल्लिङ्गशब्दः
    9. गौरी – ईकारान्तः स्त्रीलिङ्गशब्दः
    10. अस्थि – इकारान्तः नपुंसकलिङ्गशब्दः (दधिशब्दवत्)

  2. Translate the sentences into Samskritam. दत्तानां वाक्यानां संस्कृत-अनुवादम् कुरुत ।
    1. Girish gave money to the beggar. (beggar - याचकः)
    2. Krishna likes Butter. (Butter - नवनीतम्)
    3. Namaskara to Saraswati. (Saraswati - सरस्वती)
    4. Master gives Wages to servants. (Master – स्वामी, Wage – वेतनम्, Servant - सेवकः)
    5. Ramesh buys things for (his) house. (Thing – वस्तु नपुं.लिङ्गः)
    6. Mother brings Buttermilk for the guest. (Buttermilk – तक्रम्, Guest - अतिथिः)
    7. We like Samskritam.
    8. Ravana is angry with Rama. (to be angry – कृद्ध्)
    9. I show the village to friends.
    10. Good people pray for World’s wellbeing. (Good People - सज्जनाः World’s wellbeing – मानवकल्याणम् pray - प्रार्थयन्ते)

  3. Fill in the blanks with suitable Chaturthi forms of the words given in parentheses. आवरणे दत्तैः शब्दानां चतुऱथी-पदैः रिक्तस्थानानि पूरयतु।
    1. युवकाः _____ चित्रालयं गच्छति। (चलचित्रदर्शनम्)
    2. गुरूणाम् उपदेशः छात्राणां ______ भवति। (हितम्)
    3. बालकाः ______ कोलाहलं कुर्वन्ति। (गृहगमनम्)
    4. अहं ______ कण्ठहारं दर्शयामि। (भवत्यः)
    5. ____ भृष्टान्नं रोचते। (वयम्)
    6. _____ नमः। (गुरवः)
    7. ____ पानकं दद्मः । (तौ)
    8. भक्तः _____ अर्घ्यं ददाति। (शूर्यः)
    9. शिशुः _____ रोदनं करोति। (दुग्धपानम्)
    10. जनाः नाटकस्य ______ प्रतीक्षां अकुर्वन्। (आरम्भः) (प्रतीक्षा - Wait)
    11. ____ नमः। (देवर्षिः)
    12. सुरेशः _____ आभरणम् आनयति। (पत्नी)
    13. राजा ______ राङ्कवाणि अयच्छत्। (कवयः Plural of कविः) (राङ्गवम् - Shawl)
    14. महिषासुरः ______ द्रुह्यति। (दुर्गा)
    15. अहं _______ भगवद्गीतां पठामि। (चित्तशुद्धिः)

उत्तराणि पश्यतु! - Show Answers       

We welcome your views and suggestions on this lesson. Please post your comments and replies after registering free. Please also send a mail to samskrit@samskritaveethy.com for any clarification on the lesson.
We have so far learned....


We have now learned चतुर्थीविभक्तिः is the Dative case equivalent in Samskritam and is used where ‘to’ (preposition) or ‘for’ is used in English sentences. We also learned in the previous lesson तृतीया विभक्तिः also conveys the meaning of preposition ‘by’ and ‘with’. The next विभक्तिः in row is पञ्चमी (Fifth Case). पञ्चमी विभक्तिः is related to prepositions ‘from’ or ‘since’. Next lesson teaches us the forms and uses of पञ्चमी विभक्तिः. Let us move on to our next lesson…..
Lesson 21: Fifth Case Noun Forms in Sanskrit - पञ्चमी विभक्तिः

click to upload image
0 comments
×

To get updates on
संस्कृतवीथी...